अष्टाङ्गसंग्रहः निदानस्थानम् 6

श्लोक 1

अथातो मदात्ययनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

तीक्ष्णोक्ष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु।
विकाशि विशदं मद्यमोजसोऽस्माद्विपर्ययः॥

श्लोक 3

तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः।
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः॥

श्लोक 4

तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्।
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्॥

श्लोक 5

आद्ये मदे द्वितीये तु प्रमादायतने स्थितः।
दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते॥

श्लोक 6

मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः।
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः॥

श्लोक 7

इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम्।
एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम्॥

श्लोक 8

निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः।
मरणादपि पापात्मा गतः पापतरां दशाम्॥

श्लोक 9

धर्माधर्मं सुखं दुःखमर्थानर्थ हिताहितम्।
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः॥

श्लोक 10

मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः।
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥

श्लोक 11

यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्।
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा।
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्॥

श्लोक 12

नातिमाद्यन्ति बलिनः कृताहारा महाशनाः।
स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः।
मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः॥

श्लोक 13

विपर्ययेऽतिमाद्यन्ति विस्रब्धाः कुपिताश्च ये।
मद्येन चाम्लरूक्षेण साजीर्णे बहुनाति च॥

श्लोक 14

वातात् पित्तात् कफात् सर्वैश्चत्वारः स्युर्मदात्ययाः।
सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा॥

श्लोक 15

सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा।
विड्भेदः सततं तृष्णा सौम्याग्नेयो ज्वरोऽरुचिः॥

श्लोक 16

शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः।
उरोविबन्धस्तिमिरं कासश्वासप्रजागराः॥

श्लोक 17

स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः।
प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्॥

श्लोक 18

विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात्।
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते॥

श्लोक 19

पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः।
देहो हरितहारिद्रो रक्तनेत्रकपोलता।
श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम्॥

श्लोक 20

सर्वजे सर्वलिङ्गत्वम् मुक्त्वा मद्यं पिबेत्तु यः।
सहसानुचितं चान्यत्तस्य ध्वंसकविक्षयौ॥

श्लोक 21

भवेतां मारुतात् कष्टौ दुर्बलस्य विशेषतः।
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता॥

श्लोक 22

शब्दासहत्वं तन्द्रा च विक्षयेऽङ्गशिरोऽतिरुक्।
हृत्कण्ठरोधः सम्मोहः कासस्तृष्णा वमिर्ज्वरः॥

श्लोक 23

निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्।
विकारैः स्पूश्यते जातु न स शारीरमानसैः॥

श्लोक 24

रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः।
रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः।
मदमूर्च्छायसन्यासा यथोत्तरबलोत्तराः॥

श्लोक 25

मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि।
सक्तानल्पद्रुताभाषश्चलस्खलितचेष्टितः॥

श्लोक 26

रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः॥

श्लोक 27

स्वल्पसम्बद्धवाक् पाण्डुः कफाद् ध्यानपरोऽलसः।
सर्वात्मा सन्निपातेन रक्तात् स्तब्धाङ्गदृष्टिता॥

श्लोक 28

पित्तलिङ्गं च मद्येन विकृतेहास्वराङ्गता।
विषात्कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकश्च सः।
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु॥

श्लोक 29

अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः।
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः॥

श्लोक 30

कार्श्यं श्यावारुणा छाया मूर्च्छाये मारुतात्मके।
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः॥

श्लोक 31

विबुध्येत च सस्वेदो दाहतृट्तापपीडितः।
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः॥

श्लोक 32

कफेन मेघसङ्क्शाशं पश्यन्नाकाशमाविशेत्।
तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान्॥

श्लोक 33

गुरुभिः स्तमितैरङ्गैरार्द्रचर्मावनद्धवत्।
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः॥
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः॥

श्लोक 34

दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्।
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना॥

श्लोक 35

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः।
सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः॥

श्लोक 36

कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते॥

श्लोक 37

अगाधे ग्राहबहुले सलिलौघ इवातटे।
सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्॥

श्लोक 38

मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः।
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन॥

श्लोक 39

बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि।
प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम्॥
इति षष्ठोऽध्यायः॥