अष्टाङ्गसंग्रहः निदानस्थानम् 4

श्लोक 1

अथातः श्वासहिध्मानिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

कासवृध्या भवेच्छ्रूवासः पूर्वैर्वा दोषकोपनैः।
आमातिसारवमथुविषपाण्डुज्वरैरपि॥

श्लोक 3

रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना।
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः॥

श्लोक 4

कफोपरुद्धगमनः पवनो विष्वगास्थितः।
प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्॥

श्लोक 5

उरस्थः कुरुते श्वासमामाशयसमुद्भवम्॥

श्लोक 6

प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता।
आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः॥

श्लोक 7

प्रेरितः प्रेरयेत् क्षुद्रं स्वयंसंशमनं मरुत्॥

श्लोक 8

प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम्।
परिगृह्य शिरोग्रीवमुरःपार्श्वे च पीडयन्॥

श्लोक 9

कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम्।
करोति तीव्रवेगं च श्वासं प्राणोपतापिनम्॥

श्लोक 10

प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी।
कृच्छ्राच्छयानः श्वसिति निष्ण्णः स्वास्थ्यमृच्छति॥

श्लोक 11

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्।
विशुष्कास्यो मुहुः श्वासी काङ्क्षत्युष्णं सवेपथुः॥

श्लोक 12

मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते।
स याप्यस्तमकः साध्यो नवो वा बलिनो भवेत्॥

श्लोक 13

ज्वरमूर्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः॥

श्लोक 14

छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः।
सस्वेदमूर्छः सानाहो बस्तिदाहनिरोधवान्॥

श्लोक 15

अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः॥

श्लोक 16

महता महता दीनो नादेन श्वसिति क्रथन्।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्॥

श्लोक 17

प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः।
वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक्॥

श्लोक 18

शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरोऽतिरुक्॥

श्लोक 19

दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः।
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥

श्लोक 20

मर्मसु छिद्यमानेषु परिदेवी निरुद्धवाक्॥

श्लोक 21

एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम्॥

श्लोक 22

श्वासैकहेतुप्राग्रूपसङ्ख्याग्रकृतिसंश्रयाः।
हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च॥

श्लोक 23

गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः।
रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः॥

श्लोक 24

करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम्।
शमं सात्म्यान्नपानेन या प्रयाति च सान्नजा॥

श्लोक 25

आयासात् पवनः क्रुद्धः क्षुद्रां हिध्मां प्रवर्तयेत्।
जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा॥

श्लोक 26

वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्॥

श्लोक 27

चिरेण यमलैर्वेगैराहारे या प्रवर्तते।
परिणामोन्मुखे वृद्धिं परिणामे च गच्छति॥

श्लोक 28

कम्पयन्ती शिरोग्रीवामाध्मातस्यातितृष्यतः।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः॥

श्लोक 29

यमला वेगिनी हिध्मा परिणामवती च सा॥

श्लोक 30

ध्वस्तभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः।
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती॥

श्लोक 31

रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्।
पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते॥

श्लोक 32

महामूला महाशब्दा महावेगा महाबला।
षक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते॥

श्लोक 33

तद्रूपा सा मुहुः कुर्यात् जृम्भामङ्गप्रसारणम्।
गम्भीरेणानुनादने गम्भीरा तासु साधयेत्।
आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम्॥

श्लोक 34

सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः।
व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा॥

श्लोक 35

सर्वेऽपि रोगा नाशाय नत्वेवं शीघ्रकारिणः।
हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ॥
इति चतुर्थोऽध्यायः।