अष्टाङ्गसंग्रहः निदानस्थानम् 3

श्लोक 1

अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः।
कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः॥

श्लोक 3

कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते।
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम्॥

श्लोक 4

पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणादपि।
गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते॥

श्लोक 5

प्रभवत्यसृजः स्थानात् प्लीहतो यकृतश्च तत्॥

श्लोक 6

शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः।
छर्दिश्छर्दितबैभत्स्यं कासश्वासौ भ्रमः क्लमः॥

श्लोक 7

लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः।
रक्तहारिद्रहरितवर्णता नयनादिषु॥

श्लोक 8

नीललोहितपीतानां वर्णानामविवेचनम्।
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति॥

श्लोक 9

ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः।
कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते॥

श्लोक 10

ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम्।
बह्वौषधं च पित्तस्य विरेको हि वरौषधम्॥

श्लोक 11

अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत्।
कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः॥

श्लोक 12

किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः॥

श्लोक 13

अधो याप्यं चलाद्यस्मात्तत् प्रच्छर्दनसाधनम्।
स्वल्पौषधं च पित्तस्य वमनं न वरौषधम्॥

श्लोक 14

अनुबन्धी चलो यश्च शान्तयेपि न तस्य तत्।
कषायाश्च हितास्तस्य मधुरा एव केवलम्॥

श्लोक 15

कफमारुतसंसृष्टमसाध्यमुभयायनम्।
अशक्यप्रातिलोम्यत्वादभावादौषधस्य च॥

श्लोक 16

न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम्।
शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम्॥

श्लोक 17

एवमेवोपशमनं सर्वशो नास्य विद्यते।
संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम्॥

श्लोक 18

तत्र दोषानुगमनं सिरास्र एव लक्षयेत्।
उपद्रवांश्च विकृतिज्ञानतः तेषु चाधिकम्॥

श्लोक 19

आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते॥

श्लोक 20

पञ्च कासाः वातपित्तश्लेष्मक्षतक्षयैः।
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्॥

श्लोक 21

तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः।
शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च॥

श्लोक 22

कषायविज्जलासात्म्यकट्वम्ललवणोषणैः।
रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः॥

श्लोक 23

धारणोदीरणायासरात्र्यहःस्वप्नजागरैः।
अन्यैश्च तद्विधैर्धातुक्षयावरणकारिभिः॥

श्लोक 24

क्रुद्धः प्रतिहतोऽपाने यदापानः प्रपद्यते।
ऊर्ध्वं रसस्य स स्थाने तिष्ठन्नुरसि पीड्यते॥

श्लोक 25

उदानेन संजस्तत्र कण्ठे चानुप्रपूर्य च।
वाहिनीर्गलमूर्धस्थास्ततोऽङ्गान्युत्क्षिपन्निव॥

श्लोक 26

क्षिपन्निवाक्षिणी पृष्ठमुरःपार्श्वे च पीडयन्।
विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः॥

श्लोक 27

यस्मात्तस्मात्स वर्णौजोबलमांसक्षयावहः॥

श्लोक 28

हेतुभेदात् प्रतीघातभेदो वायोः संरहसः।
यद्रुजाशब्दवैषम्यं कासानां जायते ततः॥

श्लोक 29

कुपितो वातलैर्वायुः शुष्कोरःकण्ठवक्त्रताम्।
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान्॥

श्लोक 30

करोति शुष्ककासं च महावेगरुजास्वनम्।
सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत्॥

श्लोक 31

पित्तात् पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः।
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः॥

श्लोक 32

प्रततं कासवेगेन ज्योतिषामिव दर्शनम्।
कफादुरोऽल्परुङ्मूर्धहृदयं स्तिमितं गुरु॥

श्लोक 33

कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः।
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम्॥

श्लोक 34

युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्।
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली॥

श्लोक 35

कुपितः कुरुते कासं कफं तेन सशोणितम्।
पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु॥

श्लोक 36

ष्ठीवेत् कण्ठेन रुजता विभीन्नेनेव चोरसा।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना॥

श्लोक 37

पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान्।
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च॥

श्लोक 38

क्रमाद्वीर्यं रुचिः पक्तिर्बलं वर्णश्च हीयते।
पक्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः॥

श्लोक 39

वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः।
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः॥

श्लोक 40

पूतिपूतोपमं पीतं विस्रं हरितलोहितम्।
लुप्येत इव पार्श्वे च हृदयं पततीव च॥

श्लोक 41

अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः।
स्निग्धप्रसनवक्त्रत्वं श्रीमद्दशननेत्रता॥

श्लोक 42

ततोऽस्यक्षयरूपाणि सर्वाण्याविर्भवन्ति च॥

श्लोक 43

इत्येष क्षयजः कासः क्षीणानां देहनाशनः।
याप्यो वा बलिनां तद्वत् क्षतजोऽभिनवौ तु तौ॥

श्लोक 44

सिध्येतामपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः।
मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च॥

श्लोक 45

कासाच्छ्वासक्षयछर्दिस्वरसादादयो गदाः।
भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्॥
इति तृतीयोऽध्यायः॥