अष्टाङ्गसंग्रहः निदानस्थानम् 2

श्लोक 1

अथातो ज्वरनिदानं व्याख्यास्यामाः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

अष्टाभिः कारणैर्ज्वरः सञ्जायते मनुष्याणां पृथग्दोषैः संसृष्टैः सन्निपतितैरागन्तुना च॥

श्लोक 3

तत्र यथोक्तैः प्रकोपणविशेषैः प्रकुपिता दोषाः प्रविश्यामाशयमूष्मणा मिश्रीभूयाममनुगम्य रसस्वेदवाहीनि स्रोतांसि पिधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वेऽपि च दोषाः पक्तारं स्वस्थानाद्बहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पन्तः तत्सम्पर्काल्लब्धबलेन स्वेनोष्मणा नितरां देहोष्माणमेधयन्तोऽन्तस्स्रोतोमुखपिधानात् स्तम्भमादधाना बहिरपि स्वेदमपहरन्तः सर्वेन्द्रियाणि चोपतापयन्तो ज्वरमभिनिर्वर्तयन्ति॥

श्लोक 4

तस्येमानि पूर्वरूपाणि मुखवैरस्यमन्नानभिलाषो गुरुगात्रत्वमालस्यमल्पप्राणता गतिस्खलनं निद्राधिक्यमरतिरसूया हितोपदेशेषु प्रद्वेषो बालेषु मधुरेषु च भक्ष्येष्वम्ललवणकटुकाभिनन्दनमविपाकेऽङ्गमर्दश्चक्षुषोराकुलत्वं साश्रुता जृम्भा विनामः क्लमो रोमहर्षः शब्दानलाम्बुशीतवातच्छायातपेष्वकस्मादिच्छाद्वेषौ च।
तदनन्तरं व्यक्तीभावो ज्वरस्येति।
भवति चात्र॥

श्लोक 5

आगमापगमक्षोभमृदुता वेदनोष्मणाम्।
वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः॥

श्लोक 6

पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं क्लमः।
विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः॥

श्लोक 7

पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम्।
भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः॥

श्लोक 8

हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः।
स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः॥

श्लोक 9

अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः।
निस्तोदःशङ्खयोर्मूर्ध्नि वेदना विरसास्यता॥

श्लोक 10

कषायास्यत्वमथवा मलानामप्रवर्तनम्।
रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता॥

श्लोक 11

प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः।
कण्ठौष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता॥

श्लोक 12

हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः।
भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे॥

श्लोक 13

युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता।
नासास्यपाकः शीतेच्छा भ्रमो मूर्छा मदोऽरतिः॥

श्लोक 14

विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः।
रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु॥

श्लोक 15

स्वेदो निश्वासवैगन्ध्यमतितृष्णा च पित्तजे॥

श्लोक 16

विशेषादरुचिर्जाड्यं स्रोतोरोधोऽल्पवेगता।
प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः॥

श्लोक 17

हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु॥

श्लोक 18

अङ्गेषु शीतपिटकास्तन्द्रोदर्दः कफोद्भवे॥

श्लोक 19

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा।
निदानोक्तानुपशयो विपरीतोपशायिता॥

श्लोक 20

यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजोऽपि च॥

श्लोक 21

शिरोऽर्तिमूर्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः।
उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात् सपित्तात्॥

श्लोक 22

तापहान्यरुचिपर्वशिरोरुक्पीनसश्वसनकासविबन्धाः।
शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्॥

श्लोक 23

शीतस्तम्भस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः।
मोहस्तन्द्रा लिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य॥

श्लोक 24

सर्वजो लक्षणैः सर्वैर्वाहोऽत्र च मुहुर्मुहुः।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि॥

श्लोक 25

सदा वा नैव वा निद्रा मुहुः स्वेदोऽति नैव वा।
गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्॥

श्लोक 26

सस्रुती कलुषे रक्ते भुग्ने लुलितपक्ष्मणी।
अक्षिणी पिण्डिकापार्श्वमूर्धपर्वास्थिरुग्भ्रमः॥

श्लोक 27

सत्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः।
परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्धिता॥

श्लोक 28

रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतितृट्।
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्॥

श्लोक 29

हृद्व्यथा मलसंसर्ङ्गः प्रवृत्तिर्वाल्पशोऽति वा।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता॥

श्लोक 30

दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्।
सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्॥

श्लोक 31

वायुना कफरुद्धेन पित्तमन्तः प्रपीडितम्।
व्यवायित्वाच्च सौक्ष्म्याच्च बहिर्मर्गं प्रवर्तते॥

श्लोक 32

तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे।
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः॥

श्लोक 33

असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा॥

श्लोक 34

अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्स्थितम्।
त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा॥

श्लोक 35

तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः॥

श्लोक 36

शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते।
शीते शान्तेऽम्लको मूर्च्छा मदस्तृष्णा च जायते॥

श्लोक 37

दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः॥

श्लोक 38

आगन्तुरभिघाताभिषङ्गशापाभिचारतः।
चतुर्धात्र क्षतच्छेददाहाद्यैरभिघातजः॥

श्लोक 39

श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन्।
सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम्॥

श्लोक 40

ग्रहावेशौषधिविषक्रोधभीशोककामजः।
अभिषङ्गाद् ग्रहेणास्मिन्नकस्माद्धासरोदने॥

श्लोक 41

औषधीगन्धजे मूर्छा शिरोरुक् श्वयथुः क्षवः।
विषान्मूर्छातिसारास्यश्यावतादाहहृद्गदाः।

श्लोक 42

क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे।
कामान्मोहोऽरुचिर्दाहोद्रीनिद्राधधृतिक्षयः॥

श्लोक 43

ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये।
कोपः क्रोधे तु पित्तस्य यौ तु शापाभिचारजौ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ॥

श्लोक 44

तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते।
पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः॥

श्लोक 45

सदाहमूर्छर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः।
इति ज्वरोऽष्टधा दृष्टः समासाद्द्विविधस्तु सः॥

श्लोक 46

शारीरो मानसःसौम्यस्तीक्ष्णोऽन्तर्बहिराश्रयः।
प्राकृतो वैकृतःसाध्योऽसाध्यःसामो निरामकः॥

श्लोक 47

पूर्वं शरीरे शारीरे तापो मनसि मानसे।
पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्॥

श्लोक 48

दाहः पित्तयुते मिश्रं मिश्रे अन्तः संश्रये पुनः।
ज्वरेधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः॥

श्लोक 49

बहिरेव बहिर्वेगे तापोऽपि च सुसाध्यता॥

श्लोक 50

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्।
वैकृतोऽन्यःसदुः साध्यः प्रायश्च प्राकृतोऽनिलात्॥

श्लोक 51

एकमार्गक्रियारम्भव्यतिवृत्तेर्महात्ययात्॥

श्लोक 52

वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्।
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः॥

श्लोक 53

तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्।
कफो वसन्ते तमपि बातपित्तं भवेदनु॥