अष्टाङ्गसंग्रहः शरीरस्थानम् अथैकादशोऽध्यायः

श्लोक 1

अथातो विकृतव्याधिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सर्वैर्यथास्वं हेतुप्राग्रूपरूपैरतिमात्रैर्यस्य व्याधिरुत्पद्यते।
व्याधितस्य वा यस्याशु मुखे पिप्लुव्यङ्गलेखातिलकालकाः।
करजरदनेषु वा पुष्पाण्युदरे वा नानावर्णाः सिराः।
यस्य शुष्यतो नेत्रोपदेहो वर्त्मनासिकान्यतरश्वयथुर्वर्त्मस्रंसो वा।
यस्य क्षीणस्य क्षुत्तृष्णा वा हृद्यैर्बहुभिरप्यन्नपानैर्न शाम्यति।
यस्य सफेनमसृक् प्रसिच्यते।
कुक्षिशूलं च।
उरसो वा।
यस्य श्लेष्मा नीलपीतलोहितो बहुशश्च।
यस्य बलवान् ग्रीवावमर्दो जिह्वाशोषः कण्ठास्यगुदपाकश्च।
यस्यामाशयोत्था परिकर्तिकातितृष्णा शकृद्भेदश्च। यस्य पक्वाशयोत्था परिकर्तिकातितृष्णातिमात्रश्च गुदग्रहः।
यस्यामपक्वाशयान्यतरमाश्रित्य संज्ञां च हत्वा वायुः कण्ठे घुर्घुरकं करोति।
यस्य क्षीणस्य तृष्णाभिवृद्धिर्हृदि शूलं च।
तथा हिध्मारक्तातिसारौ वाध्मानातीसारौ वा भृशं सतृष्णौ।
सपरासुरिति भवति चात्र॥

श्लोक 3

ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः।
सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम्॥

श्लोक 4

अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम्।
सशुष्ककासःपूर्वाह्णे योऽपराह्णेऽपि वा भवेत्॥

श्लोक 5

बलमांसविहीनस्य श्लेष्मकाससमन्वितः।
रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम्॥

श्लोक 6

ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्।
रोमकूपप्रविसृतं कण्ठास्यहृदये सजत्॥

श्लोक7 

वाससोऽरञ्जनं पूति वेगवच्चातिभूरि च।
वृद्धं पाण्डुज्वरच्छर्दिकासशोफातिसारिणम्॥

श्लोक 8

कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम्।
यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्यं सतापितम्॥

श्लोक 9

छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका।
सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी॥

श्लोक 10

तृष्णान्यरोगक्षपितं बहिर्जिह्वं विचेतनम्।
मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम्॥

श्लोक 11

अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम्।
हृत्पार्श्वाङ्गरुजाच्छर्दिपायुपाकज्वरातुरम्॥

श्लोक 12

अतीसारो यकृत्पिण्डमांसधावनमेचकैः।
तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः॥

श्लोक 13

मस्तुलुङ्गमषीपूयवेशवाराम्बुमाक्षिकैः।
अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः॥

श्लोक 14

कर्बुरं प्रस्रवन् धतून् निष्पुरीषोऽथवातिविट्।
तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः॥

श्लोक 15

शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम्।
स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयेत्॥

श्लोक 16

सतृट्कासज्वरच्छर्दिदाहानाहप्रवाहिकः।
अश्मरी शूनवृषणं बद्धमूत्रं रुजार्दितम्॥

श्लोक 17

मेहस्तृड्दाहपिटकामांसकोथातिसारिणम्।
पिटका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगा॥

श्लोक 18

पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम्।
सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः॥

श्लोक 19

विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः।
गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः॥

श्लोक 20

सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः।
कासपीनसहृल्लासश्वासातीसारशोफवान्॥

श्लोक 21

विण्मूत्रसङ्ग्रहश्वासशोफहिध्माज्वरभ्रमैः।
मूर्च्छाछर्द्यतिसारैश्च जठरं हन्ति दुर्बलम्॥

श्लोक 22

शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्।
विरेचनहृतानाहमानह्यन्तं पुनःपुनः॥

श्लोक 23

पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम्।
तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानातिसारवान्॥

श्लोक 24

अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्।
नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि॥

श्लोक 25

राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारिणम्॥

श्लोक 26

ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये।
दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः॥

श्लोक 27

श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत्॥

श्लोक 28

आननं हस्तपादं च विशेषाद्यस्य शुष्यतः।
शूयेते वा विना देहात्स मासाद्याति पञ्चताम्॥

श्लोक 29

उदरी यश्च शोफी वा स्वं न पश्यति मेहनम्।
यस्य वा जठरोन्नामात् परिधानं न तिष्ठति॥

श्लोक 30

विसर्पः कासवैवर्ण्यज्वरमूर्छाङ्गभङ्गवान्।
भ्रमास्यशोफहृल्लासदेहसादातिसारवान्॥

श्लोक 31

कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम्।
मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम्॥

श्लोक 32

वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम्॥

श्लोक 33

वातास्रं मोहमूर्छायमदास्वप्नज्वरान्वितम्।
शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत्॥

श्लोक 34

शिरोरोगारुचिश्वासमोहविड्भेदतृड्भ्रमैः।
घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम्॥

श्लोक 35

वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी।
गुल्मी मेही च तान् क्षीणान् विकारेऽल्पेऽपि वर्जयेत्॥

श्लोक 36

बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः।
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति॥

श्लोक 37

वाताष्ठीलातिसंवृद्धा तिष्ठन्ती दारुणा हृदि।
तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम्॥

श्लोक 38

शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम्।
क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम्॥

श्लोक 39

नाभीगुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन्।
गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली॥

श्लोक 40

मलान् वस्तिशिरोनाभिं विबध्य जनयन् रुजम्।
कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्नपुरीषताम्॥

श्लोक 41

श्वासं वा जनयन् वायुर्गृहीत्वा गुदवङ्क्षणौ।
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः॥

श्लोक 42

स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम्॥

श्लोक 43

सहसा ज्वरसन्तापस्तृष्णामूर्छाबलक्षयः।
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते॥

श्लोक 44

गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्।
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्॥

श्लोक 45

प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः।
उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति॥

श्लोक 46

मसूरविदलप्रख्यास्तथा विदुमसन्निभाः।
अन्तर्वक्राः किणाभाश्च विस्फोटा देहनाशनाः॥

श्लोक 47

कामलाक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता।
सन्त्रासश्चोष्णताङ्गे च यस्य तं परिवर्जयेत्॥

श्लोक 48

अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम्।
चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः॥

श्लोक 49

शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः।
अन्तर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः॥

श्लोक 50

यो वातजो न शूलाय स्यान्न दाहाय पित्तजः।
कफजो न च पूयाय मर्मजश्च रुजे न यः॥

श्लोक 51

अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते।
रूपं शक्तिध्वजादीनां सर्वांस्तान् वर्जयेद् व्रणान्॥

श्लोक 52

विण्मूत्रमारुतवहं कृमिणं च भगन्दरम्॥

श्लोक 53

घट्टयन् जानुना जानु पादावुयम्य पातयन्।
योऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति॥

श्लोक 54

दन्तैश्छिन्दन् नखाग्राणि तैश्च केशांस्तृणानि वा।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन्॥

श्लोक 55

हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः।
मुहुर्हसन् मुहुः क्षवेडन् शय्यां पादेन हन्ति यः॥

श्लोक 56

मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति॥

श्लोक 57

ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्॥

श्लोक 58

विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते।
सहसा सहसा तस्य मृत्युर्हरति जीवितम्॥

श्लोक 59

यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्।
यतमानो न शक्नोति दुर्लभं तस्य जीवितम्॥

श्लोक 60

विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्।
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्॥

श्लोक 61

भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्ययः।
अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति॥

श्लोक 62

निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति॥

श्लोक 63

आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा।
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्॥

श्लोक 64

यं नरं सहसा रोगो दुर्बलं परिमुञ्चति।
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते॥