अष्टाङ्गसंग्रहः शरीरस्थानम् नवमोऽध्यायः

श्लोक 1

अथातो विकृतिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

स्वस्थानामातुराणां वा पुरुषाणां देहान्तराभिलाषिणामौषधविषयमतीताः सकलशरीरव्यापिनो दोषा घना घना इव वर्षमायुषः क्षयं सूचयन्तोऽकस्मात्स्वभावविपर्यासं जनयन्ति।
तत्समासतो रिष्टमित्याहुः॥

श्लोक 3

तत्र गौरः श्यामः कृष्णो गौरश्यामः कृष्णश्याम इति देहप्रकृतिवर्णाः।तद्भेदाश्च पद्मगौरादयः।
नीलश्यामताम्रहारिद्रशुक्लादयस्तु विकृतयः।
तत्र प्रकृतिविकृतिवर्णौ युगपदङ्गेऽङ्गैकदेशे वा मरणाय।
एतेन ग्लान्युपचयशोकहर्षरौक्ष्यस्नेहादयस्तथा प्रकृतिभेदीयोक्तानां महदुपचयसूक्ष्मदीर्घाणां सर्वेषां च दोषादिभागेन प्रतिनियतानां भावानाम्निमित्ततोऽन्यथात्वमुक्तं भवति॥

श्लोक 4

छायास्तु शरीरे पञ्च।
तत्र खादमलखङ्गाकाशनीलनिर्मला सस्नेहा सप्रभेव।
वातात् पांसुभस्मरूक्षा रजोऽरुणा श्यावा निष्प्रभा स्वेदमलगन्धिः।
तेजसो हुतहुताशनविद्युत्तप्ततपनीयरक्ता दृष्टिसुखा।
अम्भसो वैडूर्येन्द्रनीलविमला घना सुस्निग्धा।
भुवो रुचिराभा घना स्थिरा स्निग्धा शुद्धा श्यामा श्वेता च।
तासां वायव्या विनाशाय क्लेशाय चातिमहते।
शेषास्तु सुखोदयाः॥

श्लोक 5

सप्त प्रभा रक्ता पीता पाण्डुरा सितासिता श्यावा हरिता च।
ताः स्निग्धा विकासिन्योऽमलाः शुभाः।
विपरीतास्त्वशुभाः॥

श्लोक 6

तयोर्विशेषाः।
छायावर्णमाक्रामत्यासन्ना च लक्ष्यते पञ्चभूतात्मिका च।
प्रभा तु वर्णं प्रकाशयति विप्रकृष्टाल्लक्ष्यते तेजःप्रभवैव च॥

श्लोक 7

यस्य दृष्टौ प्रतिच्छायामयी कुमारिका न दृश्यते स परासुः॥

श्लोक 8

यस्यातपादर्शादिष्वकस्मात् प्रतिच्छाया छिन्ना भिन्ना हीनाधिकाकुला नष्टा जिह्माऽन्यथा वा विकृता वा दृश्यते।
यस्य ललाटं न स्विद्यति यस्य केशरोमाण्यनभ्यक्तान्यभ्यक्तवद् दृश्यन्ते।
नयने चातिप्रविष्टे निर्गते विस्तृते सङ्क्षिप्ते सङ्क्षिप्तभ्रुणी विनतभ्रुणी जिह्मो विषमे विभ्रान्तदर्शने हीनदर्शने नकुलाभे कपोताभे अलातवर्णे नीलादिविकृतवर्णे अतिचले स्तब्धस्रस्ते प्रस्रुते अत्युन्मिषिते अतिनिमिषिते लुलितपक्ष्मणी वा।
नासिका वातिविवृतातिसंवृता कुटिला स्फुटिता पिटकाचिता शुष्का वा स गतायुः॥

श्लोक 9

यस्याधोधरौष्ठो यात्युत्तरौष्ठश्चोर्ध्वमुभौ वा पक्वजम्बूनीलौ।
दन्ता वातिरूक्षास्ताम्राः श्यामाः पङ्किताः पुष्पिताः सशर्करा वा सहसा वा पतन्ति।
जिह्वा वा जिह्मास्तब्धा सुप्तावलिप्ता गुर्वी श्यावा शूना शुष्का विसर्पिणी कण्टकाचितेव वा।
यस्य गण्डललाटहनुबन्धानि स्थानाच्च्युतानीव स्रस्तानि।
यस्य न धत्ते शिरः शिरोधरां पृष्ठं वा स्वभारम्।
हनू वा वृषणावतो विपर्ययो वा।
यस्य मूत्रमत्युष्णम्।
यस्य विषदोषाद्विना स्वेभ्यः सरोमकूपेभ्यो रक्तं प्रवर्तते।
यस्यानिमित्तमङ्गान्यतिलघून्यतिगुरूणि वा स्युः समुमूर्षुः॥

श्लोक 10

यस्यैकोऽनेको वा स्वरो गद्गदो व्यक्तः क्षामो दीनो वा सहसा लक्ष्यते।
यो वा विवक्षुर्मुह्यति।
यस्या वा वदतो भृशमूर्ध्वमुरो रुजति।
यस्योच्छ्वासोऽतिदीर्घोऽतिह्रस्वः पूतिगन्धिः सुगन्धिर्वा।
यस्याङ्गुलय आयम्यमाना न स्फुटेयुः।
यस्यान्योऽन्योऽपि क्षुतगतमूत्रणादिषु स्वभावातीतः शब्दः।
यस्येष्टोऽनिष्टो वा माल्यफलचन्दनकुणपादिगन्धो देहमुखमलव्रणवस्त्रादिषु।
यस्य शरीरं वैरस्यात्सौरस्याद्वात्यर्थं यूकामक्षिकादयस्त्यजन्ति भजन्ति वा।
यस्य सततोष्मस्वङ्गावयवेषु शौत्यं शीतेषु वा कुमुदोत्पलानुकार्यतिशैत्यमतिस्वेदोऽतिस्तम्भो विगतमांसशोणितेष्विव च स्रंसः।
यस्य च योगोतियोगो वा शरीरे युगपन्महाभूतानां दृश्यते।
सर्वे ते कालपक्वा इति।
भवति चात्र॥

श्लोक 11

यस्यापूर्वास्सिरालेखा बालेन्द्वाकृतयोऽपि वा।
ललाटे बस्तिशीर्षे वा षण्मासान्न स जीवति॥

श्लोक 12

पद्मिनीपत्रवत्तोयं शरीरे यस्य देहिनः।
प्लवते प्लवमानस्य षण्मासं तस्य जीवितम्॥

श्लोक 13

हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः।
सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते॥

श्लोक 14

यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि मुखेऽपि वा।
सस्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम्॥

श्लोक 15

मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः।
मृत्युं स्वस्थस्य षड्रात्रात्रिरात्रादातुरस्य तु॥

श्लोक 16

यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्।
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति॥

श्लोक 17

उरस्यूष्मा भवेद्यस्य जठरे चातिशीतता।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः॥

श्लोक 18

मूत्रं पुरीषं निष्ठ्यूतं शुक्रं चाप्सु निमज्जति।
निष्ठ्यूतं बहुर्वर्णं वा यस्य मासात्स नश्यति॥

श्लोक 19

स्वरस्य दुर्बलीभावं हानिं वा बलवर्णयोः।
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्॥

श्लोक 20

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः।
श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्॥

श्लोक 21

ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्॥

श्लोक 22

यो जातशीतपिटकः शीताङ्गो वा विदह्यते।
उष्णद्वेषी च शीतार्तः स प्रेताधिपगोचरः॥

श्लोक 23

यस्य रज्जुरिवच्छाया कण्ठे सक्तोपलक्ष्यते।
अवश्यं कृष्यते जन्तुः सोऽचिराद्यमकिङ्करैः॥