श्लोक 1
अथातः सिराविभागमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
दश मूलसिरा हृदयप्रतिबद्धाः सर्वाङ्गप्रत्यङ्गेष्वोजो नयन्ति।
तत्प्रतिबद्धा हि शरीरचेष्टाः।
तास्तुद्व्यङ्गुलमङ्गुलमर्धाङ्गुलं यवं यवार्धं च गत्वा द्रुमपत्रसेवनीप्रतानवद्भिद्यमानाः सप्तशतानि भवन्ति॥
श्लोक 3
तासां चतुःशती शाखासु।
तत्र षोडशाव्यधनीयाः।
षट्त्रिंशं शतमन्तराधौ।
तत्र द्वात्रिंशत्।
चतुष्षष्ट्यधिकं शतमूर्ध्वम्।
तत्रापि पञ्चाशत्॥
श्लोक 4
तासामेकैकस्मिन् सक्थ्नि शतम्।
तत्र न विध्येज्जालन्धराम्।
तिस्रश्चाभयन्तरगताः॥
श्लोक 5
द्वात्रिंशच्छ्रोण्या गुदमेढ्राश्रयाः।
तासां द्वे द्वे वङ्क्षणयोः कटीकतरुणयोश्चेत्यष्टौ शस्त्रतो रक्षेत्।
षोडश पार्श्वयोः तयोरूर्ध्वगामेकैकां पार्श्वसन्धिसंज्ञाम्।
चतुर्विंशतिः पृष्ठे।
तासां पृष्ठवंशमुभयतो द्वे द्वे ऊर्ध्वगामिन्यौ ताश्चतस्रः।
चतुर्विंशतिरुदरे।
तासां मेढ्रस्योपरि रोमराजीमुभयतो द्वे द्वे ता अपि चतस्रः।
चत्वारिंशद्वक्षसि।
तासां द्वे हृदये द्वे द्वे च स्तनमूलस्तनरोहितेषु।
एकैकापस्तम्भापालापेष्विति।
ताश्चतुर्दश॥
श्लोक 6
चतुर्विंशतिर्ग्रीवायाम्।
तासां चतस्रोऽष्टौ च मर्मसंज्ञाः।
द्वे कृकाटिकयोर्द्वे विधुरयोरिति षोडश शस्त्रेण न स्पृशेत्।
हन्वोः षोडश तासां सन्धिसम्बन्धिन्यौ द्वे।
षोडश जिह्वायाम्।
तासामधो द्वे रसवेदिन्यौ द्वे वाक्प्रवर्तिन्यौ ताश्चतस्रः।
चतुर्विंशतिर्नासायाम्।
तासां द्वे गन्धवेदिन्यौ तासामेव च तालुन्येकामिति तिस्रः।
षट्पञ्चाशन्नेत्रयोः।
तयोरुन्मेषनिमेषक्रिये द्वे द्वे।
द्वे चापाङ्गयोरिति षट्।
नासानेत्रगतास्तु ललाटे षष्टिः।
तासां केशान्तानुगताश्चतस्रो द्वे चावर्तयोरेका च स्थपन्यामिति सप्त।
कर्णयोः षोडश।
तासां शब्दवाहिन्यौ द्वे।
त एव च शङ्खयोस्तासां शङ्खसन्धिगते द्वे।
द्वादश मूर्धनि।
तासामुत्क्षेपयोर्द्वे सीमन्तेष्वेकैकामेकामधिपतावित्यष्टौ शस्त्रेण परिहरेत्।
तथा क्षुद्रिकाः कुटिलाः सङ्कीर्णा ग्रथिताः सन्धिषु चाशस्त्रकृत्याः॥
श्लोक 7
तासां यथास्वं तुर्यांशविभागेन पञ्चसप्तत्यधिकं शतमनिलरक्तं वहति।
एष विभागः पित्तश्लेष्मशुद्धरक्तेष्वपि।
स्थिता ह्येवं देहमनुगृह्णन्ति दोषाः।
व्यत्ययेन तु पीडयन्ति॥
श्लोक 8
तत्र श्यावारुणाः प्रस्पन्दिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं वहन्ति।
नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तम्।
गौर्यः स्निग्धाः स्थिराः शीताः कण्डूमत्यः कफरक्तम्।
लक्षणसङ्करे संसर्गसन्निपातारक्तम्।
समा गूढाः स्निग्धा रोहिण्यः शुद्धरक्तमिति॥
श्लोक 9
धमन्यस्तु चतुर्विंशतिः।
ताभिः कायोऽयमाराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यति।
ताभिश्च नाभिश्चक्रनाभिरारकैरिवावृता।
तस्या नाभ्यां विशेषेण प्राणा व्यवस्थिताः।
यतश्च सान्तरग्न्यधिष्ठानम्॥
श्लोक 10
तासां खलु धमनीनां दशोर्ध्वं प्रसृता दशाधश्चतस्रस्तिर्यक्।
ततस्ताभिर्यथास्वमङ्गावयवा धार्यन्ते आप्याय्यन्ते च॥
श्लोक 11
तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते।
ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान् वहतः।
अष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते।
द्वाभ्यां द्वाभ्यां भाषते घोषं करोति स्वपिति प्रतिबुध्यते च।
द्वे चाश्नु वहतः।
द्वे च स्तनाश्रिते नार्याः स्तन्यं नरस्य शुक्रम्॥
श्लोक 12
अधोगमाः पक्वाशयस्था एवं त्रिधा जायन्ते। तत्र दशाद्याः पूर्ववत्।
द्वे वहतोऽन्नं मात्राश्रयेण।
द्वे तोयम्।
द्वे मूत्रम्।
द्वे शुक्रं वहतो द्वे च मुञ्चतः।
ते एव नारीणामार्तवम्।
द्वे वर्चोनिरसिन्यौ स्थूलान्त्रप्रतिबद्धे।
एवं द्वादश।
शेषास्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभितर्पयन्ति॥
श्लोक 13
तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवन्तीत्युक्तं प्राक्॥
श्लोक 14
स्रोतांसि पुंसां नव।
कर्णौ नेत्रे नासापुटौ मुखं पायुर्मूत्रपथोऽन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च।
तथापराण्यन्तस्स्रोतांसि जीवितायतनानि त्रयोदश प्राणोदकान्नधातुमलानामयनानि॥
श्लोक 15
तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च।
तानि धातुक्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगधारणादिभिर्दुष्यन्ति।
ततोऽतिसृष्टं प्रतिबद्धमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसनम्।
तत्र श्वासवत् साधनम्॥
श्लोक 16
उदकवाहिनां तलु मूलं क्लोम च।
तान्यामभयातिपानोष्ण शुष्कान्नकषायतृण्निग्रहादिभिर्दुष्यन्ति।
ततोऽतितृष्णा मुखशोषः कर्णक्ष्वेडनं तमोदर्शनं च।
तत्र तृष्णोक्तमौषधम्॥
श्लोक 17
अन्नवाहिनामामाशयो मूलं वामपार्श्वं च।
तेषा दुष्टौ सर्वं मात्राशितीयोक्तमवगच्छेत्॥
श्लोक 18
रसवाहिनां हृदयं मूलं दश धमन्यश्च।
रक्तवाहिनां यकृत् प्लीहा च।
मांसवाहिनां स्नावानि त्वक् च।
भेदोवाहिनां वृक्कौ मांसं च।
अस्थिवाहिना जघनं मेदश्च।
मज्जवाहिनां पर्वाण्यस्थीनि च।
शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च।
मूत्रवाहिनां बस्तिर्वङ्क्षैणा च।
शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च।
स्वेदवाहिनां मेदो रोमकूपाश्च।
तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् पृथक् पृथक् साधनं दोषादिविज्ञानीयाद्यथास्वं वृद्धिक्षयलक्षणेन लक्षयेत्॥
श्लोक 19
व्यधे तु स्रोतसां भ्रममोहकम्पप्रलापाध्मानशूलारुचितृट्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीषरोधा मरणं च।
तस्मात्स्रोतोविद्धं प्रत्याख्यायोपाचरेत्।
उद्धृतशल्यं च सद्योव्रणविधानेन॥
श्लोक 20
तत्र स्रोतसामेव विशेषाः सिराधमन्यः।
अन्ये त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम्।
केवलं परस्परसन्निकर्षात् सदृशकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव लक्ष्यते॥
श्लोक 21
अपरे पुनराहुः।
स्रोतांसि सिराधमन्यो रसवाहिन्यो नाड्यः पन्थानोऽयनानि गार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानान्याशयाः क्षयानिकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति॥
श्लोक 22
ते चावकाशाः प्रकुपिताः स्थानस्थान्मार्गस्थांश्च धातून् प्रकोपयन्ति।
तेऽपि कुपितास्तानि स्रोतांसि।
स्रोतांसि च स्रोतांसि।
धातवश्च धातून्।
तेषां सर्वेषामेव दूषयितारो दुष्टा दोषाः।
ते च प्रायशो दुष्यन्त्यग्निदोषात्।
तस्मात्तन्निमित्तान्यायुरारोग्यबलोपचयवर्णौजांसि।
तत्प्रतिबद्धान्येव च रञ्जकादीनि भूताग्नयो धात्वग्नयश्च।
तथान्नमपि तैनैव पक्वममृततां यात्यपक्वं च विषताम्॥
श्लोक 23
तत्र पित्तविशेषः पाचकसंज्ञोऽग्निरिति प्रागभिहितः।
अन्ये पुनराचक्षते दोषधातुमलसन्निपातजनितोऽन्तरूष्मा यथानिर्दिष्टाधिष्ठानकर्माग्निरिति॥
श्लोक 24
स खलु विधिवदभ्यवहृतमन्नजातं प्राणेन वायुना कोष्ठमाकृष्टं द्रवैर्विभिन्नसङ्घातं स्नेहेन मृदूकृतमभिसन्धुक्षितः समानेनामाशयस्थं स्थालीस्थमिवाम्बुतण्डुलमग्निरन्तरग्निः पचति॥
श्लोक 25
तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनीभूतमुदीरयति।
ततो विदग्धमम्लीभूतमामाशयात् च्यवमानमच्छं पित्तम्।
प्राप्य च पक्वाशयं कटुकीभूतमनिलम्॥
श्लोक 26
ततश्चैवं विक्लिन्न आहारे पञ्च पञ्चात्मका महाभूताग्नयो वायुना व्यस्तान् यथास्वं पञ्चैव भूतगुणानाहारस्थान् पचन्ति।
ते पक्वाः पुनर्यथास्वमेव देहाश्रितांश्च स्वविकारभूतान् भूतगुणानाप्याययन्ति॥
श्लोक 27
एवं च पक्वादाहाराद्विविधौषधगर्भादिव स्नेहादच्छः सारभूतो रसाख्यः किट्टाख्यश्च मलोऽभिनिर्वर्तते।
ताभ्यां च सारमलाभ्यां तदात्मकानामेव शरीरगुणानां धात्वाख्यानां यथास्वं स्रोतांसि पारम्पर्येणाविच्छिन्नसन्तानमापूर्यन्ते।
स्रोतोभ्यश्च यथाविभागं यथायथमेव धातवः पुष्यन्ति।
उत्तरोत्तरानुप्रवेशेऽपि च पूर्वेषां स्रोतसां यथाकालं सम्यगाहारोपयोगेन परिणामवताप्याय्यमानानां नापचयो भवति।
ततश्च धात्वाख्याः प्रसादमलाः स्वं स्वमेव मानमनुवर्तन्ते।
यथावयश्शरीरम्॥
श्लोक 28
तत्राहाररसो व्यानीवक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात् पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्खलितबलप्रमाणो देहमूर्जयित्वा धातून् धातुमलांच पुष्णाति॥
श्लोक 29
अथान्नकिट्टमच्छं मूत्रं घनं शकृत्।
रसस्य सारो रक्तं मलः कफो लसीका च।
रक्तस्य सारो मांसं कण्डरास्सिराश्च मलः पित्तम्।
मांसस्य सारो मेदस्त्वचो वसा च किट्टं कर्णाक्षिनासिकास्यरोमकूपप्रजननमलाः।
मेदसः सारोऽस्थिस्नायुसन्धयः किट्टं स्वेदः।
अस्थ्नः सारो मज्जा किट्टं केशरोमनखाः।
मज्ज्ञस्तु सारः शुक्रं मलोक्षिविट्त्वचां स्नेहः।
शुक्रस्य सारमोजः।
अत्यन्तशुद्धतयास्य मलाभावः।
अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्।
अपरे पुनः शुक्रसारं गर्भमेवामनन्ति॥
श्लोक 30
वायुः पुनरग्नेराहारस्य च बह्वल्पतया तस्मात्तस्मान्मूर्च्छनाविशेषादमूर्तः शब्दवानीषच्छब्दः प्रचुरोऽल्पो वा पञ्चात्मा कोष्ठे प्रादुर्भवति।
एवं च कृत्वान्नमया एव देहे सर्वे भावाः।
तेनैव चेदमेवं चिरेण व्याप्तमन्तर्बहिः शरीरयन्त्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं यावत्कर्मोपादानं याप्यते।
अन्यथा त्वन्नरसोत्क्षेपणाद्विबद्धस्रोतसा वा यथावदनभिसन्धीयमानधातुप्रवाहमन्तरा व्यवच्छिद्यते।
व्याधिभाजनं वा भवति॥
श्लोक 31
अन्ये तु वर्णयन्ति।
अभ्यवहृत्मात्रस्याहारस्य कण्ठनाडीप्रलुठितस्य महानिम्रमवतीर्णस्य यो य एवांशः कायाग्निनावलीढः पाकमुपनीयते तस्य तस्यैव प्रसादाख्यो रसलेशोऽभिनिर्वृत्तिसमनन्तरं समं समस्तधातुषु संवृतासंवृतैः प्रविसृतो विवृतमुखेष्वासन्नेषु स्रोतस्सु भूयान् प्रथमतरं चान्वेति पर्यायेणेतरेष्वपि।
एवमन्नरस एव साक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति।
न पुनर्धातवो धात्वन्तरतां स्वरूपोपमर्देन प्रतिपद्यन्त इति॥
श्लोक 32
अग्निस्तु बलभेदेन चतुर्विधो भवति।
समो विषमस्तीक्ष्णो मन्दश्च।
तत्र समो यः सम्यगेवोपयुक्तमन्नं सम्यक् पचति।
विषमोऽसम्यगप्युपयुक्तं पचति सम्यगपि च न पचति।
तीक्ष्णोऽसम्यगप्युपयुक्तमाशु पचति।
स एव वर्धमानोऽत्यग्निर्भवति।
मन्दस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविबन्धाटोपान्त्रकूजनमुखशोषवायुस्तम्भादीन्यामलिङ्गानि दर्शयित्वा चिरात् पचति।
बाह्येनापि च ज्वालाङ्गारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति।
किमुतान्तराश्रयेणोष्णात्मना समेनापि।
तस्मात्तं प्रयत्नतो रक्षेत्।
तत्र प्रवरेण सात्म्येन समं यथास्वमपरेणेतरान् क्रमशः सात्म्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणीयोक्तेन च वातादिसाधनेन ग्रहणीरोगविहितैश्चौषधव्यायामयोगैरिति।
भवति चात्र॥
श्लोक 33
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च।
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च॥
श्लोक 34
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः।
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः॥
श्लोक 35
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा।
विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्॥
श्लोक 36
बिसानामिव सूक्ष्माणि दूरं विप्रसृतानि च।
द्वाराणि स्रोतसां देहे रसो यैरुपचीयते॥
श्लोक 37
केचिदाहुरहोरात्रात् षडहादपरे परे।
मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिभिः॥
श्लोक 38
वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते।
प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम्॥
श्लोक 39
कफः पित्तं मलः खेषु प्रस्वेदो नखरोम च।
स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः॥
श्लोक 40
समः समाने स्थानस्थे विषमोऽग्निर्विमार्गगे।
पित्ताभिमूर्छिते तीक्ष्णो मन्दोस्मिन्कफपीडिते॥
श्लोक 41
शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः।
रोगी स्याद्विकृते तस्मात्तं प्रयत्नेन पालयेत्॥