अष्टाङ्गसंग्रहः सूत्रस्थानम् द्वात्रिंशोऽध्यायः

श्लोक 1

अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः।
नानाद्रव्यकल्पनया च रागाश्रुघर्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम्।
अव्यकेतेस्वेवंगुणमेव पक्ष्मपरिहारेणाक्षिकेशालेपनम्।
तञ्च पुनर्बिडालकसंज्ञम्॥

श्लोक 3

तयोरकालो रात्रिः।
कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा।
निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्त्यवसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत्।
एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते।
आश्च्योतितं च मृदुना चैलेन शोधयेत्।
अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत्।
आश्च्योतनं च तयोः कोष्णम्।
सुशीतं पित्तरक्तविषेषु।
तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत्।
अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति।
अतिशीतं स्तम्भाश्रुघर्षनिस्तोदान्।
अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वघर्षान्।
ऊनप्रमाणं न रोगशान्तिम्।
अपरिस्रुतमश्रुघर्षवेदनाः॥

श्लोक 4

नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम्॥

श्लोक 5

यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाघनत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छएदैः पक्वलिङ्गमुपलक्षितं भवति।
तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम्।
न दोषवेगोदये।
न चानिर्हृतदोषे।
तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च॥

श्लोक 6

तत्तु लेखनं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति।
तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेखनम्॥

श्लोक 7

तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम्॥

श्लोक 8

सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम्॥

श्लोक 9

स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतांपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम्॥

श्लोक 10

प्रसादन एव चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते।
षड्विधं वा प्रतिरसभेदादञ्जनम्।
द्विविधमेव वा तीक्ष्णं मृदु च॥

श्लोक 11

कल्पना तु त्रिविधा।
पिण्डो रसक्रिया चूर्णश्च।
यथापूर्वं ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषुक्रमात्तान् प्रयोजयेत्।
तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य।
रसक्रिया विडङ्गमात्रा।
तद्द्विगुणा मृदोः।
चूर्णो द्विशलाकः।
मृदोस्त्रिशलाकः॥

श्लोक 12

पात्रे तु कुर्यात् सौवर्णे मधुरम्।
राजतेऽम्लम्।
मेषशृङ्गमये लवणम्।
कांस्ये तिक्तम्।
वैदूर्यमयेऽश्ममये वा कटुकम्।
ताम्रमय आयसे वा कषायम्।
नलप्लक्षपद्मस्फटिकशङ्खाद्यन्यतमे शीतम्।
एवमव्यापन्नगुणं भवति।
वर्तिघर्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायता त्र्यङ्गुलविस्तीर्णा॥

श्लोक 13

शलाकाः पञ्च कनकरजतताम्रलोहोद्भवा अङ्गुली च।
तत्राद्ये प्रसादनेऽञ्जने स्नेहने च।
मध्या लेखने।
अन्त्ये रोपणे।
मृदुत्वादङ्गुल्यत्र प्रधानतमा।
अतः सरुजेऽक्ष्णि सैव प्रयोज्या।
शेषा दशाङ्गुला राजमाषस्थूलाः।
सुश्लक्ष्णास्तनुमध्या मुखयोर्मुकुलाकाराः कलायपरिमण्डलाश्च॥

श्लोक 14

अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम्।
तथा सततं नैव वा॥

श्लोक 15

सरुजे चाक्ष्णि प्राक् पश्चादितरस्मिन्।
अन्यथाञ्जनोद्वेगसङ्कुचितेऽन्तः सम्यगौषधं नानुप्रविशेत्।
ततैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः॥

श्लोक 16

न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदत्तनस्यरात्रिजागरितवेगितरुदितपिपासित ज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु।
एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृछ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत्॥

श्लोक 17

अथ समसुखोपविष्टस्योपविष्टो वामांगुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधःकनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितक्ष्णिमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमघट्टितमनात्रान्तं च।
चूर्णे तु गतागतं कुर्यात्।
अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः।
ततोऽञ्जनानुगमनायानुन्मीलयन् शनैश्शनैरन्तश्चक्षुः सञ्चारयेत्।
एवमक्ष्यनुगच्छति।
वर्त्मनी किञ्चिच्चालयेत्।
न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्।
बाष्पोत्क्लिष्टदोषस्तम्भभयात्।
अपि च॥

श्लोक 18

अपेतौषधसंरम्भं निर्वृतं नयनं यदा।
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥

श्लोक 19

सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम्।
ऊर्ध्ववर्त्मनि सङ्गृह्य शनैः शोध्यं समन्ततः॥

श्लोक 20

दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यं च लोचनम्।
वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा॥

श्लोक 21

तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत्।
यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः।
तस्य तीक्ष्णमञ्जनं धूमं वा पुनरवचारयेत्।
एतदेव दुर्विरिक्ताक्षिलक्षणं साधनं च।
अतिविरेकात् सन्तापनिस्तोदशूलस्तम्भघर्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि।
तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा।
सम्यग्विरेकाद्यथास्वमामयोपशमः।
सुखोन्मीलननिमीलनवातातपसहत्वानि चेति।
भवति चात्र॥
रोपणादिष्वपि तथा योगादीननुचिन्तयेत्।
दोषोदयानुसारेण प्रतिकुर्वीत तेषु च॥
इति द्वात्रिंशोऽध्यायः॥