श्लोक 1
अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
चतुर्विधो भवति गण्डूषः।
स्नैहिकः शमनः शोधनो रोपणश्च।
तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामयघ्नाः।
रोपणस्त्वास्यव्रणघ्नः।
शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः॥
श्लोक 3
तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः।
तिक्तकषायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथासितोदकक्षौद्रक्षीरेक्षुरस घृतादिभिः शमनः।
कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः।
रोपणस्तु कषायमधुरशीतैर्यथास्वं चोपदिष्टैः॥
श्लोक 4
अपि च।
दन्तहर्षे दन्तचाले मुखरोगे च वातिके।
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्॥
श्लोक 5
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा।
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे॥
श्लोक 6
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा।
वैशद्यं जनयत्यास्ये सन्दधाति मुखे व्रणान्॥
श्लोक 7
दाहतृष्णाप्रामनं मधुगण्डूषधारणम्।
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाश्नम्॥
श्लोक 8
तदेवालवणं शीतं मुखशोषहरं परम्।
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्॥
श्लोक 9
अथ निवाते सातपे सुखोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्योऽनभ्यवहरन् धारयेत्।
कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्।
अयमेव च कवलगण्डूषयोर्विशेषः॥
श्लोक 10
मुखे सञ्चार्यते या तु सा मात्रा कवलः स्मृतः।
असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः॥
श्लोक 11
पुनश्च स्वेदमर्दनान्याचरेत्।
एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते।
तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्घ्राणनेत्रता भेषजस्य वानुपहतिः कफेन।
एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्।
यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः।
तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं, मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्।
तेषां यथास्वं प्रतिकुर्वीत॥
श्लोक 12
प्रतिसारणं तु त्रिविधम्।
गण्डूषोदितानां द्रव्याणाम्।
रसक्रिया कल्कश्चूर्णश्च।
तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्।
अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति॥
श्लोक 13
मुखालेपोऽपि त्रिविधो दोषघ्नो विषघ्नो वर्ण्यश्च।
त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः।
न चालिप्तमुखोऽतिभाष्यहास्यक्रोधशोकरोदनखादनाग्न्यातपदिवास्वप्नान् सेवेत।
कण्डूत्वक्शोषपीनसदृष्ट्युपघातभयात्।
न च शुष्यन्नुपेक्षितव्यः।
शुष्को हि छविं दूषयति।
तमार्दयित्वापनयेत्।
आलेपान्ते च मुखमभ्यज्यात्॥
श्लोक 14
न तु योज्यो रात्रिजागरितानीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम्।
सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति।
स्वस्थस्य तु दृष्टिबलं पुण्ड्द्रीककान्तवक्त्रतां च करोति॥
श्लोक 15
मूर्धतैलं पुनश्चतुर्धा भिद्यते।
अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति।
यथोत्तरं ते बलिनः तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः॥
श्लोक 16
शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुखं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात्।
अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुखाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्।
ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुखोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम्।
तावच्च धार्यो यावत् कर्णमुखनासास्रुतिर्वेदनोपशमो वा भवति।
विशेषतो वातजेषु विकारेषु दशमात्रासहस्राणि।
पित्तरक्तजेष्वष्टौ।
षट् कफजेषु।
सहस्रमरोगकर्मणि।
ततोऽपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुखं मर्दयेत्।
उष्णाम्बुना स्नातं यथार्हं भोजयेत्।
स्नेहोक्तं चास्याचारमादिशेत्।
एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति।
भवति चात्र॥
श्लोक 17
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु।
अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु॥
श्लोक 18
परिषेकः पिचुः केशशातस्फुटनधूपने।
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे।
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे॥
श्लोक 19
कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान्।
जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्॥
श्लोक 20
धारयेत् पूरणं कर्णे कर्णमूलं विमर्दयन्।
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने॥
श्लोक 21
यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्।
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता॥
इति एकत्रिंशोऽध्यायः॥