श्लोक 1
अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः।
एकस्सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः।
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ॥
श्लोक 3
बृंहणं यत् बृहत्वाय लङ्घनं लाघवाय यत्।
देहस्यं भवतः प्रायो भौमापमितरच्च ते॥
श्लोक 4
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत्।
भूतानां तदपि द्वैध्यात् द्वितयं नातिवर्तते॥
श्लोक 5
शोधनं शमनञ्चेति द्विधा तत्रापि लङ्घनम्।
यदीरयेत् बहिर्दोषान् पञ्चधा शोधनञ्च तत्॥
श्लोक 6
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः।
न शोधयति यद्दोषान् समान्नोदीरयत्यपि॥
श्लोक 7
समीकरोति विषमान् शमनं तच्च सप्तधा।
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः।
बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च॥
श्लोक 8
बृंहयेद् व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्।
भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्॥
श्लोक 9
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानप्पि।
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥
श्लोक 10
स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः।
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः।
विसर्पविद्रधिप्लीहशिरःकण्ठाक्षिरोगिणः॥
श्लोक 11
स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि।
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्।
आमदोषज्वरच्छर्दिरतीसारहृदामयैः॥
श्लोक 12
विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्।
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥
श्लोक 13
एभिरेवमयैरार्तान् हीनस्थौल्यबलादिकान्।
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान्॥
श्लोक 14
समीरणातपायासैः किमुताल्पबलैर्नरान्।
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्।
युक्त्या वा देशकालादिबलतस्तानुपाचरेत्॥
श्लोक 15
बृंहिते स्यात् बलं पुष्टिस्तत्साध्यामयसंङ्क्षयः।
विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः॥
श्लोक 16
क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता।
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घते॥
श्लोक 17
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते।
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः।
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घते॥
श्लोक 18
तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रगुदाहृताः।
गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः॥
श्लोक 19
आम एव श्लथीकुर्वन् धातून् स्ह्तौल्यमुपानयेत्।
अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः॥
श्लोक 20
आयासाक्षमता जाड्यमल्पायुर्बलवेगता।
दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोतिपुष्टितः॥
श्लोक 21
स्रोतस्तु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः।
चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततोऽधिकम्॥
श्लोक 22
स्थूलं कोटरवद्वृद्धौ दहतोऽग्न्यनिलौ च तम्।
स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि।
मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता॥
श्लोक 23
कोष्ठ एव विपक्वेऽस्य संरुद्धस्रोतसो रसे।
सर्वत्रालब्धवृत्तित्वात् प्रयो मेदः प्रचीयते॥
श्लोक 24
तच्छेषोऽल्परसोऽल्पत्वान्नालं रक्तादिपुष्टये।
तुल्येपि वाय्वादिचये प्राक्चितं चीयतेतराम्।
मेदस्तेनासमस्तेन धातूनां विदधाति तत्॥
श्लोक 25
श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्।
मेहोरुस्तम्भपिटकाविद्रधिप्रभृतीन् गदान्॥
श्लोक 26
अयथोपचयोत्साहश्चलस्फिगुदरस्तनः।
अतिस्थूलः स्मृतो योज्यं तत्रान्नं मारुतापहम्॥
श्लोक 27
श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः।
जूर्णश्यामाकमुद्गाद्याः पानेऽरिष्टं मधूदकम्॥
श्लोक 28
मस्तु तक्रं च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम्।
चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत्॥
श्लोक 29
देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च।
मधुना त्रिफलां लिह्यात् गुडूचीमभयां घनम्।
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः॥
श्लोक 30
शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः।
विडङ्गं नागरं क्षारः काललोहरजो मधु॥
श्लोक 31
यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्।
मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम्॥
श्लोक 32
सपाठारग्वधं पीतमतिबृंहणरोगजित्।
तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्॥
श्लोक 33
समुस्तपाठाखदिरत्रिफलानिम्बगोक्षुरम्।
मदनादीनि चालेपः स्ननादिष्वपि योजयेत्॥
श्लोक 34
हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्।
एलावृक्षकषड्ग्रन्थाखराश्वोपलभेदकम्॥
श्लोक 35
तक्रेण दधिमण्डेन पीतं कोलरसेन वा।
मूत्रकृछ्रं कृमीन् मेहं स्थूलतां च व्यपोहति॥
श्लोक 36
कृमिघ्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः।
लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्॥
श्लोक 37
व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः।
हिङ्गुसौचर्चलाजाजीयवानीधान्यचित्रकाः॥
श्लोक 38
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्॥
श्लोक 39
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्।
अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्।
हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्॥
श्लोक 40
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्।
योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि॥
श्लोक 41
अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः।
स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः॥
श्लोक 42
बस्तिहृन्मूर्द्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः।
प्रलापोर्ध्वानिलग्लानिः छर्द्दिः पर्वास्थिभेदनम्॥
श्लोक 43
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्।
अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः॥
श्लोक 44
तृप्तिव्याध्यौषधमनान् सहतेऽल्पबलत्वतः।
श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः॥
श्लोक 45
कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः।
कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम्।
बृंहणं लङ्घनं नालमतिमेदोऽग्निवातजित्॥
श्लोक 46
मधुरस्निग्धसौहित्यैर्यत् सौख्येन च नश्यति।
क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः॥
श्लोक 47
शुष्कस्फिगुदरग्रीवाः स्थूलपर्वा सिराततः।
उच्यतेऽतिकृशस्तत्नप्रागुक्तो बृंहणो विधिः॥
श्लोक 48
अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः।
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च॥
श्लोक 49
स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति।
लङ्घनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्।
यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये॥
श्लोक 50
सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते।
चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च॥
श्लोक 51
बृंहणं देहमात्राग्निबलादीन् वीक्ष्य योजयेत्।
न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्।
मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः॥
श्लोक 52
क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लघून्।
वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्।
रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः॥
श्लोक 53
युञ्ज्यात् कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्।
तृष्यतामूध्ववातानां मूढमारुतवर्चसाम्॥
श्लोक 54
समैः कृष्णासितातैलक्षौद्राद्यैद्र्व्यंशतर्पणैः।
मन्थस्तद्वत् सिताक्षौद्रमदिरासक्तुयोजितः॥
श्लोक 55
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्।
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं परम्॥
श्लोक 56
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः।
परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्॥
श्लोक 57
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा।
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः॥
श्लोक 58
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे।
यवगोधूममुभयोस्तद्योग्याहितकल्पनम्॥
श्लोक 59
स्यौल्यकार्श्ये प्रकृत्यापि स्यातां तत्राप्ययं विधिः।
सततं व्याधिततया सदा योज्यो विभज्य च॥
श्लोक 60
मात्रादियुक्ते सेवेत यस्तु लङ्घनबृंहणे।
समधात्वग्निदेहोऽसौ समसंहननो भवेत्॥
श्लोक 61
दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते।
दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः।
उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव॥
इति चतुर्विंशोऽध्यायः॥