अष्टाङ्गसंग्रहः सूत्रस्थानम् षोडशोऽध्यायः

श्लोक 1

अथातो विविधद्रव्यगणसङ्ग्रहमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

विदारिपञ्चाड्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः।
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी॥

श्लोक 3

विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा।
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः॥

श्लोक 4

सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्।
यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्॥

श्लोक 5

पद्मकपुण्ड्रौ वृद्धितुगर्ध्यः शृङ्ग्यमृता दश जीवनसंज्ञाः।
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः॥

श्लोक 6

परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्।
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्।
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्।
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्॥

श्लोक 7

पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्।
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्॥

श्लोक 8

गुडूचीपद्मकारिष्टधानका रक्तचन्दनम्।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्॥

श्लोक 9

आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठाः। भूनिम्बसैर्यकपटोलकरञ्जयुग्मसप्तच्छदाग्निसुषवीफलबाणघोण्टाः॥

श्लोक 10

आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्।
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः॥

श्लोक 11

असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः।
त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः॥

श्लोक 12

असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्।
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः॥

श्लोक 13

वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः।
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः॥

श्लोक 14

वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति।
आढ्यवातं शिरश्शूलं गुल्मं चान्तः सविद्रधिम्॥

श्लोक 15

ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्।
सशिलाजतु कृच्छ्राश्मगुल्ममेदः कफापहम्॥

श्लोक 16

भवन्ति चात्र वीरतरारणिकौ नगगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम्।
मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च॥

श्लोक 17

वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः॥

श्लोक 18

लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः।
कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः॥

श्लोक 19

एष लोध्रादिको नाम मेदःकफहरोगणः।
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः॥

श्लोक 20

अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या।
प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः॥

श्लोक 21

अयमर्कादिको वर्गः कफमेदोविषापहः।
कृमिकुष्ठप्रशमनो विशेषात् व्रणशोधनः॥

श्लोक 22

सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः।
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी॥

श्लोक 23

सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः।
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः॥

श्लोक 24

मुष्ककस्नुग्वराद्वीपीपलाशधवशिंशपाः।
गुल्ममेहाश्मरीपाण्डुमेदोऽर्शःकफशुक्रजित्॥

श्लोक 25

वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः।
रोहिणीस्थपनिहिंगुभार्ङ्गयः शूलघाति दशकं घुणप्रिया॥

श्लोक 26

वत्सकाद्योऽनिलश्लेष्ममेदोऽरोचकपीनसान्।
शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः॥

श्लोक 27

वचाजलददेवाह्वनागरातिविषाभयाः।
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः॥

श्लोक 28

वचाहरिद्रादिगणावामातीसारनाशनौ।
मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ॥

श्लोक 29

प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता।
सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः॥

श्लोक 30

अम्बष्ठामधुकनमस्करीनन्दीवृक्षपलाशकच्छुराः।
लोध्रं घातकिविल्वपेशिका वटवङ्गः कमलोद्भवं रजः॥

श्लोक 31

गणौ प्रियङ्ग्वम्बष्ठादी पक्वतीसारनाशनौ।
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ॥

श्लोक 32

मुस्तावचाग्निद्विनिशाद्वितिक्ताभल्लातपाठात्रिफलाविषाख्याः।
कुष्ठं त्रुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च॥

श्लोक 33

न्यग्रोधपिप्पलसदाफललोध्रयुग्मजम्बूद्वयार्जुनकपीतनसोमवल्काः।
प्लक्षास्रवञ्जुलप्रियालपलाशनन्दीकोलीकदम्बविरलामधुकं मधूकम्॥

श्लोक 34

न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः॥

श्लोक 35

एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकस्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः।
शुक्तिव्याघ्रनखौ सुराह्वमगरुःश्रीवासकःकुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराःपुन्नागनागाह्वयम्॥

श्लोक 36

एलादिको वातकफौ विषं च विनियच्छति।
वर्णप्रसादनः कण्डूपिटकाकोठनाशनः॥

श्लोक 37

श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्णक्षीरिगवाक्षीशिखरिरजनिका छिन्नरोहा करञ्जः।
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृछ्रम्॥

श्लोक 38

पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गुहिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति॥

श्लोक 39

पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः।
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः॥

श्लोक 40

पञ्चविंशीतरित्युक्ता वर्गास्तेषु त्वलाभतः।
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्॥

श्लोक 41

एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः।
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृछ्रान्॥
इति षोडशोऽध्यायः।