श्लोक 1
अथातो महाकषायसङ्ग्रहमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
आनन्त्यादौषधानामामयानां चानन्ता एव कषायाः।
ये तु सुतरामुपयोगवन्तः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः।
प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते।
तत्प्रतिपत्यर्थमेव मन्दबुद्धीनाम्।
बुद्धिमतामुदाहरणामात्रप्रदर्शनार्थम्।
शक्यं हि बुद्धिमद्भिः स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाक्षोडविदारीकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम्।
यथोक्तानुसरणमेव तु श्रेयो मन्दबुद्धेरिति।
व्यस्ताश्च ते चत्वारि पञ्चाशदधिकानि तदभिधानान्येव।
यद्यपि तानि तान्येव द्रव्याणीति द्रव्यसङ्करः कषायेषु तथापि न संज्ञाविरोधः।
एकस्यापि बहुकार्यनिर्वर्तनात्।
तत्र लवणवर्ज्या रसाः कल्पनायां कषाया इत्युचयन्ते।
तद्योनित्वात्।
लवणस्य यतो निर्यासादिकल्पनानामसम्भवः।
पृथगुपयोगोपकाररहितत्वाच्च नैरथक्यमिति॥
श्लोक 3
भवति चात्र।
जीवन्तीकाकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च।
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः॥
श्लोक 4
वाट्या बला पयस्याकाकोल्याविक्षुवाजिगन्धे च।
क्षीरिणिराजक्षवके भारद्वाजी च बृंहणीयोऽयम्॥
श्लोक 5
हैमवती चिरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च।
चित्रककटुकातिविषा वर्गोयं लेखनीयाख्यः॥
श्लोक 6
अर्कैरण्डौ चित्रा चित्रकचिरिबिल्वशङ्खिनीसरला।
हेमक्षीरी कटुका वह्निमुखी भेदनीयोऽयम्॥
श्लोक 7
मधुमधुकपृश्निपर्णीकट्फललोध्रप्रियङ्गुधातक्यः।
अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानः॥
श्लोक 8
हिङ्गुमरिचाम्लवेतस दीप्यकभल्लातकास्थिसंयोगात्।
वर्गः सपञ्चकोलो निर्दिष्टो दीपनीयोऽयम्॥
श्लोक 9
ऐन्द्र्यतिरसा पयस्या ऋष्यप्रोक्ता स्थिरा बलातिबला।
इति बल्यो दशकोऽयं हयगन्धा रोहिणी ऋषभः॥
श्लोक 10
चन्दनतुङ्गपयस्या सितालतामधुकपद्मकोशरिम्।
वर्ण्यो गणोयमुदितो मञ्जिष्ठासारिवासहितः॥
श्लोक 11
हंसपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि।
कैडर्यमधुककृष्णाः सविदार्यः कण्ठजननानि॥
श्लोक 12
वृक्षाम्लबदरदाडिमकुवलाम्राम्रातालिकुचकरमर्दम्।
हृद्यं समातुलुङ्गाम्लवेतसं विद्धि वर्गमिमम्॥
श्लोक 13
नागरचविकाचित्रकविडङ्गमूर्वामृतावचामुस्ताः।
सहपिप्पलीपटोलास्तृप्तिघ्नोऽयं गणः प्रथितः॥
श्लोक 14
कुटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः।
धन्वयवासं पथ्या दारुहरिद्रागणोऽयमर्शोघ्नः॥
श्लोक 15
खदिरामलकारुष्करनिशाभयासप्तपर्णकरवीराः।
कुष्ठाघ्नाश्चतुङ्गुलविडङ्गजातिप्रवालाश्च॥
श्लोक 16
नलदकृतमालचन्दनसर्षपघननिम्बकुटजमधुकानि।
कण्डूं दारुहरिद्रासनक्तमालानि निघ्नन्ति॥
श्लोक 17
अक्षीवमरिचकेबुकविडङ्गगण्डीरकिणिहिनिर्गुण्ड्यः।
घ्नन्ति क्रिमीन् श्वदंष्ट्राविषाखुपर्ण्यस्तथा न चिरात्॥
श्लोक 18
मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः।
सैलाचन्दनकत्काः ससिन्दुवारा विषं घ्नन्ति॥
श्लोक 19
शालिकुशकाशषष्टिकवीरणदर्भेक्षुवालिकेक्षूणाम्।
तद्वद् गुन्द्रोत्कटयोर्मूलमलं स्तन्यजननाय॥
श्लोक 20
पाठानागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः।
कटुकाकिराततिक्तं वर्गोऽयं स्तन्यशुद्धिकरः॥
श्लोक 21
मेदाकाकोलीद्वयवृक्षरुहाजीवकर्षभकुलिङ्गाः।
शुक्रजननो गणोऽयं सह जटिलाशूर्पपर्णीभिः॥
श्लोक 22
कुष्ठैलवालुककट्फलकाण्डेक्ष्विक्ष्वब्धिफेनकोशीरैः।
वसुकेक्षुरकैः शुक्रं शुध्येत् सकदम्बनिर्यासैः॥
श्लोक 23
द्राक्षाकाकोलीद्वय मधुपर्णीमधुकजीवकविदार्यः।
स्नेहोपगाः समेदा जीवन्तीशालिपर्णीकाः॥
श्लोक 24
सौभञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि।
स्वेदोपगानि विद्यात् सयवतिलार्कोरुपूगानि॥
श्लोक 25
लाजाम्रबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि।
जम्ब्वाम्रपल्लवानि च वमिनिग्रहणानि मृत्सा च॥
श्लोक 26
नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः।
भूनिम्बघनपटोली कुस्तुम्बर्यस्तृषं घ्नन्ति॥
श्लोक 27
बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृङ्ग्यः।
हिध्मां निघ्नन्ति शटी दुरालभा बदरबीजं च॥
श्लोक 28
शामानन्ता पद्मा कट्वङ्गः पद्मकेसरं लोध्रम्।
धातकिकुसुमसमङ्गामोचरसाम्रास्थि विड्ग्रहणम्॥
श्लोक 29
जम्बूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्र्याह्वम्।
भृष्टा च मृत् पयस्या सशाल्मली विड्विरजनानि॥
श्लोक 30
जम्ब्वाम्रोदुम्बरवटकपीतनप्लक्षपिप्पलाश्मन्तम्।
भल्लातसोमवल्कं मूत्रग्रहणाय् निर्दिष्टम्॥
श्लोक 31
कमलनलिनकुमुद मधुकसौगन्धिकधातकीलताकुसुमम् मूत्रं नयति विरागं सोत्पलशतपत्रपुण्डरीकं च॥
श्लोक 32
वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशिरकुशकाशाः।
मूत्रं विरेचयेयुर्गुन्द्रा पाषाणभेदश्च॥
श्लोक 33
द्राक्षामलकपुनर्नबवृश्चीवदुरालभाभयाकृष्णाः।
कासं घ्नन्ति सशृङ्गी तामलकी कण्टकारी च॥
श्लोक 34
चण्डाम्लवेतसशटी तामलकीसुरसहिङ्गुजीवन्त्यः।
पुष्करमूलैलागुरुवर्गोऽयं श्वासशमनाय॥
श्लोक 35
द्राक्षापीलुपरूषकमञ्जिष्ठासारिवामृतापाठाः।
त्रिफला चेति गणोऽयं ज्वरस्य शमनाय् निर्दिष्टः॥
श्लोक 36
दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि।
श्रमनाशनानि विद्याद् द्राक्षाखर्ज्जूरसहितानि॥
श्लोक 37
पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदीच्यम्।
काश्मर्यफलं चन्दनमेष गणो दाहहा प्रोक्तः॥
श्लोक 38
नतनागरागुरुवचाधान्यकभूतीकपिप्पलीव्याघ्रयः।
शीतं शमयन्त्यचिरात् स्योनाकः साग्निमन्थश्च॥
श्लोक 39
तिन्दुकप्रियालवीजकसप्तच्छदखदिरकदरबदराणि।
अरिमेदवाजिकर्णौ ककुभश्चोदर्दशमनानि॥
श्लोक 40
काकोल्येला सेव्यं निदिग्धिके शालिपृश्निपर्ण्यौ च।
घ्नन्त्यङ्गमर्दमचिराचन्दनमधुकोरुबूकं च॥
श्लोक 41
दीप्यकमरिचाजाजीगण्डीरं साजगन्धमथ शूलम्।
शमयति सपञ्चकोलं शोफं दशमूलमाद्यं च॥
श्लोक 42
मधुमधुकलाजगैरिकफलिनीमोचरसमृत्कपालानि।
संस्थापयन्ति रुधिरं रुधिरं च सशर्करं लोध्रम्॥
श्लोक 43
शैलैलवालुकट्फलमोचरसाशोकपद्मकशिरीषम्।
स्थापयति वेदनामथ सहतुङ्गकदम्बविदुलं च॥
श्लोक 44
कैडर्यहिङ्गुचोरकपलङ्कषाशोकरोहिणिवयस्थाः।
पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः॥
श्लोक 45
ऐन्द्री दूर्वामोघाविष्वक्सेना व्यथा शिवारिष्टा।
ब्राह्मी सवाट्यपुष्पी शतवीर्या स्थापयेद् गर्भम्॥
श्लोक 46
अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरायुक्ता।
मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः॥
श्लोक 47
इति नानाविधव्याधिविघातार्थमुदाहृताः।
योगा रोगातुरवशात् कल्पयेत्तान् यथायथम्॥
इति पञ्चदशोऽध्यायः।