अष्टाङ्गसंग्रहः सूत्रस्थानम् अथैकाअदशोऽध्यायः 11

श्लोक 1

अथातो मात्राशितीयं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्त्रेयादयो महर्षयः॥

श्लोक 2

मात्राशी स्यात्।
मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी।
कुक्षेरप्रतिपीडनमाहारेण हृदयस्यासंरोधः पार्श्वयोरविपाटनमनतिगौरवमुदरस्य प्रीणनमिन्द्रियाणां क्षुत्पिपासोपरतिः स्थानासनशयनगमनोच्छ्वासप्रश्वासभाष्यसङ्कथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं चेति मात्राया लक्षणम्॥

श्लोक 3

त्रिभागसौहित्यमर्द्धसौहित्यं वा गुरूणामुपदिश्यते।
लघूनामपि नातिसौहित्यम्।
अनिलानलगुणबहुलानि हि लघूनि तुल्यगुणत्वादग्निसन्धुक्षणान्यविधिना चाल्पदोषाणि।
इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाग्निबलात्।
अमात्रा पुनरशनस्य हीनताधिक्यं च।
तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धीन्द्रियोपघातकरं विबन्धकृदवृष्यमनौजस्यं सारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनम्।
अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः।
तेन हि प्रपीड्यमाना वातादयो युगपत्प्रकुपिताः कुक्ष्यैकदेशस्थास्तदेवापरिपक्वमाविश्य विष्टम्भयन्तोऽलसकमभिनिर्वर्तयन्ति।
सहसा वाधरोत्तराभ्यां मार्गाभ्यां प्रत्त्यावयन्तो विषूचिकाम्॥

श्लोक 4

अपि च।
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते।
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः॥

श्लोक 5

विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः।
सूचीभिरिव गात्राणि विध्यतीति विषूचिका॥

श्लोक 6

तत्र वातः शूलानाहाङ्गमर्दमुखशोषप्रलापकम्पमूर्च्छभ्रमजृम्भोद्वेष्टनाक्षिप्रवेशशिरोहृदयातिरुक्सिरा कुञ्चनस्तम्भनानि करोति।
पित्तं पुनर्ज्वरातिसारान्तर्दाहवैवर्ण्यतृष्णामदभ्रमप्रलयानि।
श्लेष्मा तु छर्द्यरोचकप्रसेकाङ्गसादाविपाकशीतज्वरगात्रगौरवाणि विशेषतस्तु दुर्बलस्याल्पवह्नेर्बहुश्लेष्मणोवातमूत्रपुरीषवेगविधारिणोऽन्नपानमनिलप्रपीडितं श्लेष्मणाविबद्धमार्गमलसत्वादबहिर्मुखीभवत् छर्द्यतीसारवर्ज्यानि यथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि।
सोऽलसः।
अतिमात्रदुष्टास्तु दोषाः शरीरं दण्डवत् स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते॥

श्लोक 7

विरुद्धाध्यशनाजीर्णशीलिनः पुनरामदोषमामविषमामनन्ति।
विषसदृशलिङ्गत्वात्।
तत्परमसाध्यानाम्।
अशुकारितया विरुद्धोपक्रमत्वाच्च।
न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुं शक्यं स्वभावादीनां भिन्नफलत्वात्॥

श्लोक 8

तथा हि।
गुरुरूक्षशुष्कशीतद्विष्टविष्टम्भिविदाअह्यशुचिविरुद्धात्यम्बुपानद्रवमकाले काले वा कामक्रोधलोभेर्ष्याद्व्रीशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति॥

श्लोक 9

तत्र साध्यमानं दुष्टमलसीभूतमुल्लिखेत् पाययित्वा सलवणमुष्णं वारि।
तथात्वच्छर्दयन्तमतिलीनदोषं कृष्णानागदन्तीकल्कयुक्तं पाययेत्।
मदनफलकषायं वा पिप्पलीसिद्धार्थकल्कयुक्तम्।
दन्तीमागधिकावचूर्णितं वा कोशातकीरसम्।
अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि।
ततः स्वेदवर्त्तिप्रणिधानाभ्यामुपाचरेत्॥

श्लोक 10

अपि च।
सद्यः सम्यग्विशुद्धस्य शाम्यन्ति तदुपद्रवाः।
शूले निरन्नकोष्ठेऽद्भिः कोष्णाभिश्चूर्णिताः पिबेत्॥

श्लोक 11

हिङ्गुप्रतिविषाव्योषसौवर्चलवचाभयाः।
अथवा पिप्पलीमूलं त्रिवृतादारुसैन्धवम्॥

श्लोक 12

शुण्ठीः सक्षीरलवणपिप्पलीमरिचानि च।
पाठाम्लवेतसक्षारयवानीपौष्कराणि वा॥

श्लोक 13

द्विरुत्तरं हिङ्गुवचाग्निकुष्ठ सुवर्चिकाक्षारबिडाजमोजम्।
शूलोदरानाहविषूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥

श्लोक 14

मुस्ताजमोजपूजीकवचाशुण्ठ्यग्निधान्यकैः।
सवालकशठीबिल्वैः क्वाथं तृट्च्छूलवान् पिबेत्॥

श्लोक 15

रास्नाकट्फलषङ्ग्रन्थाबृहतीद्वयजोङ्गकैः।
गुग्गुल्वतिविषाकुष्ठपत्रत्र्याघ्रनखाम्बुदैः।
कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्त्तनधूपनम्॥

श्लोक 16

सरुक्चानद्धमुदरमम्लपिष्टैः प्रलेपयेत्।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥

श्लोक 17

यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित् परम्।
योजयेत्सैन्धवान्तैश्च वर्तिं विण्मूत्रसङ्ग्रहे॥

श्लोक 18

नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्।
विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते॥

श्लोक 19

द्विक्षारजीर्णपिण्याककुष्ठारुष्करचित्रकैः।
सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम्॥

श्लोक 20

सुच्छर्दितविरिक्तस्य गात्रायामेऽतिदारुणे।
भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः।
घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमम्॥

श्लोक 21

त्वक्पत्ररास्नागरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः।
उद्वर्त्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि॥

श्लोक 22

तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्।
सामान्येनेति सिद्धोक्ता विषूच्यलसकक्रिया॥

श्लोक 23

आमदोषेषु त्वन्नकाले जीर्णाहारं दोषोपलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधं वह्निसन्धुक्षणार्थं च।
अजीर्णाहारं पुनर्न पाययेत्।
यत आमदोषदुर्बलो ह्यग्निर्युगपदामदोषमौषधमाहारजातं चाशक्तः पक्तुम्॥

श्लोक 24

अपि चैषा विभ्रमोऽतिबलत्वादुपरतानलबलमातुरं सहसैवातिपातत्येत्।
आमदोषजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति॥

श्लोक 25

तत्तु त्रिविधम्।
लङ्घनं लङ्घनपाचनमवसेचनं च।
तत्र लङ्घनमल्पदोषाणाम्।
तेन ह्यनिलानलवृध्या वातातपपरीत इवाल्पः सलिलाशयोऽल्पदोषः प्रशोषमापद्यते।
लङ्घनपाचनाभ्यां मध्यदोषे वातातपाभ्यां पांसुभस्मावकिरणैरिव चानतिमहान् सलिलाशयः।
बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्।
न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति॥

श्लोक 26

तस्मात्सन्तर्पणनिमित्तानां नान्तरेणापतर्पणमस्ति शान्तिः।
अपतर्पणनिमित्तानां च नान्तरेण सन्तर्पणमिति।
एवमन्येषामपि व्याधीनां यथास्वं निदानविपरीतमौषधमेवावचारयेत्।
सति त्वनुबन्धे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा।
विमुक्तामदोषस्य पुनः परिपक्वामदोषशेषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विविधस्नेहपानं च युक्त्या प्रयोज्यम्।
प्रसमीक्ष्य दोषौषधादीनामवस्थान्तराणि।
भवन्ति चात्र॥

श्लोक 27

यः श्यावदन्तौष्ठनखोऽल्पसंज्ञः छर्द्यर्दितोऽन्तर्गतताम्रनेत्रः।
क्षामस्वरः स्रस्तसमस्तसन्धिर्यायान्नरोऽसौ पुनरागमाय॥

श्लोक 28

व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः।
छयाविशुष्का गुलिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन॥

श्लोक 29

शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामाअर्गफलैश्च वर्त्तिः।
बस्तस्य मूत्रेण विषूचिकाघ्नी प्रलेपधूपाञ्जननस्ययोगैः॥

श्लोक 30

अजीर्णं च कफादामं विष्टब्धमनिलाद्भवेत्।
विदग्धं पित्तकोपेन त्रिप्रकारमिति स्मृतम्॥

श्लोक 31

तत्रामे गुरुतोत्क्लेदः शोफो गण्डाक्षिकूटयोः।
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते॥

श्लोक 32

विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः।
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम्॥

श्लोक 33

विदग्धे भ्रमतृण्मूर्छाः पित्तच्च विविधा रुजाः।
उद्गारश्च साधूमाम्लः स्वेदो दाहश्च जायते॥

श्लोक 34

लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम्।
विदग्धे वमनं यद्वा यथावस्थं हितं भवेत्॥

श्लोक 35

रगीयसो भवेल्लीनादामादेव विलम्बिका।
कफवातानुविद्धामलिङ्गा तत्समसाधना॥

श्लोक 36

रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे।
तत्राभुक्त्वा दिवस्वप्यात् क्षुद्वानद्याल्लघुप्रति॥

श्लोक 37

यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे।
पाकोऽग्नौयुक्तयोर्द्राक्च तीक्ष्णे मन्दे पुनश्चिरात्॥

श्लोक 38

सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्।
पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम्॥

श्लोक 39

प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति।
अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति॥

श्लोक 40

दिवा प्रबोध्यतेऽर्केण हृदयं पुण्डरीकवत्।
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥

श्लोक 41

व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः।
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥

श्लोक 42

अक्लिन्नेष्वन्नमासिक्तमत्यन्तेन न दुष्यति।
अविदग्धेष्विव पयस्स्वन्यत्संमिश्रितं पयः॥

श्लोक 43

रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च।
यान्ति कोष्ठे परिक्लेदं संवृते सर्वधातवः॥

श्लोक 44

क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति।
विदग्धेषु पयस्स्वन्यात् पयस्तप्तेष्विवापितम्।
नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्॥

श्लोक 45

उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः।
लघुता क्षुत्पिपास च जीर्णाहारस्य लक्षणम्॥

श्लोक 46

प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते।
नृणामशनलुब्धानां विशेषेण विषूचिका॥

श्लोक 47

दोषोपनद्धं यदि लीनमन्नं पित्तोल्बणरयावृणुयान्न वह्निम्।
जायेत दुष्टा तु ततो बुधुक्षा या मन्दबुद्धीन् विषवन्निहन्ति॥
इति एकादशोऽध्यायः॥