
श्लोक 59
अथ शुक्लपक्षे पुण्येऽहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थंस्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत्।
तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः।
तत्सर्वं मूषायां प्रक्षिप्य बलिमङ्गलपूर्वकमग्निमुपसामाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिगोमयैर्वा प्रज्वालयेत्।
ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रदित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्यसुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनोऽक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वावृद्धवैद्यब्रह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातं ध्मातमावृत्य पृथक्पृथङ्निषेचयेत्।
गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुर-सेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाशृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कु-मोदकेषु।
ततः शुक्ले वाससि बध्वा द्वादशरात्र मान्तरिक्षेऽम्भासि वासयेत्।
ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालनुसार्याप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्यया दृषदि पेषयित्वासुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवयशृङ्गवैडूर्यस्फटिकमेषशृङ्ग्यसनसारान्यतमघट्टितायामञ्जनिकायां निधापयेत्।
अथ पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्ववित् द्विजन्मा विधिवत्तदभिसंस्कुर्यात्।
ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वनैर्द्विजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्।
अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत्॥
श्लोक 60
अथ मन्त्रः नमश्चक्षुःपरिशोधनराजाय तथागतायर्हते सम्यक्सम्बुद्धाय तद्यथा औं चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा॥
श्लोक 61
ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः पत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्।
तस्मोदतद्राज्ञां राजमहामात्राणां च महीं विजगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक्प्रकल्पयेदिति।
भवन्ति चात्र श्लोकाः॥
श्लोक 62
अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः शिवाः।
यान् सेवमानो नृपतिः शत्रुभ्यो नैति पज्चताम्॥
श्लोक 63
बिल्वाढकीयवक्षारपाटलीबाल्हिकोषणाः।
श्रीपर्णीसल्लकीयुक्ता निष्क्वाथः प्रोक्षणः परम्॥
श्लोक 64
सविषं प्रोक्षितं तेन सद्यो भवति निर्विसम्।
यवसेन्धनपानीयशस्त्रशय्यासनोदकम्॥
श्लोक 65
कवचाभरणच्छत्रबालव्यजनवेश्म च।
शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम्॥
श्लोक 66
समङ्गावृषमूलत्वक्कपित्थवृषशोणितम्।
सहदन्तशठं तद्वत् प्रोक्षणं विषनाशनम्॥
श्लोक 67
लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गालहरेणुकाः।
यष्ट्याह्वमधुसंयुक्ता बब्रुपित्तेन कल्किताः॥
श्लोक 68
निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत्॥
श्लोक 69
संस्पृष्टं सविषं तेन सद्यो भवति निर्विषम्।
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः॥
श्लोक 70
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः।
शुनो गोःकपिलायाश्च सौम्याख्योऽयं वरोऽगदः॥
श्लोक 71
विषजित्परमं कार्यो मणिरत्नं च पूर्ववत्। मूषिकाजरुहा वापि हस्तबद्धा विषापहाः॥
श्लोक 72
हरेणुमांसीमञ्जिष्ठारजनीमधुकं मधु।
अक्षत्वक्सुरसं लाक्षा श्वपित्तं पूर्ववन्मणिः॥
श्लोक 73
वादित्राणि पताकाश्च पिष्टैरोभिश्च लेखिताः।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषम्॥
श्लोक 74
त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम्।
सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारुणीम्॥
श्लोक 75
मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्।
तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं विनियोजयेत्॥
श्लोक 76
विषं भुक्तं जरां याति निर्विषेऽपि न दोषकृत्।
जतुसर्जरसोशीरसर्षपा पत्रवालकैः॥
श्लोक 77
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च।
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्॥
श्लोक 78
न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः।
न कृत्या कर्षणा(कार्मणा)द्याश्च धूपोऽयं यत्र दह्यते॥
श्लोक 79
शिखिपिञ्छं बलाकास्थि सर्षपाश्चन्दनं घृतम्।
धूपो विषघ्नः शयनवसनासनगेहगः॥
श्लोक 80
विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम्।
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्॥
श्लोक 81
गोशृङ्गे निहितं योज्यं स्नानीयेऽम्भसि भूपतेः।
पूर्वोकतत्र्यूषणादिं च स्नानीयेऽम्भसि योजयेत्॥
श्लोक 82
क्वाथोऽथवार्ककुसुमश्वेतापामार्गसर्षपैः।
सदध्याज्यः कृतो युक्तैः कतकानाकुलीद्वयैः॥
श्लोक 83
कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः।
मूर्वैलावालुसुरसनाकुलीतण्डुलीयकैः॥
श्लोक 84
क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्हितः।
रोचनापत्ननैपालीकुङ्कुमैस्तिलकान् वहन्॥
श्लोक 85
विषैर्न बाध्यते स्याच्च नारीनरनृपप्रियः।
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः॥
श्लोक 86
दिग्धं निर्विषतामेति गात्रमित्याह गौतमः।
नस्यपानाञ्जनालेपैर्युञ्ज्यात् सञ्जीवनात्मकान्॥
श्लोक 87
अगदान् विषभुक्तस्य तीक्ष्णानि वमनानि च।
पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह॥
श्लोक 88
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्।
विरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि॥
श्लोक 89
हृदयावरणं कार्यं प्रागेवामित्रमध्यतः।
पिबेद्घृतमजेयाख्यममृतं वाप्यभुक्तवान्॥
श्लोक 90
सर्पिः क्षौद्रं दधि क्षीरमन्ततः शीतलं जलम्।
सितामधुकपालिन्दीकल्कवन्मांसमिष्यते॥
श्लोक 91
गोधाहरिणबभ्रूणां सकणाशुण्ठिपार्षतम्।
सनागरं सातिविषं शिखिनः ससितोपलम्॥
श्लोक 92
सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः।
विषपीताय दद्याच्च शुद्धायोर्ध्वमधस्तथा॥
श्लोक 93
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्।
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्॥
श्लोक 94
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्।
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः॥
श्लोक 95
इत्थं गरविषादिभ्यो रक्षेद्वैद्यो नरेश्चरम्।
स्यादुच्छेदस्तदुच्छेदात्प्रजानां सर्वकर्मणाम्॥
श्लोक 96
आज्ञाधैर्यक्षमात्यागा मानुषत्वेऽप्यमानुषाः।
यद्राज्ञः कर्मभिस्तस्मादाराध्योऽसावतीन्द्रियैः॥
श्लोक 97
यत्र साक्षन्नृपस्तत्र विज्ञातः प्रविशोद्भिषक्।
न सम्मतोऽप्यनुचितं यानस्थानासनं भजेत्॥
श्लोक 98
उचिते पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत्।
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह॥
श्लोक 99
देशे काले परार्थं च वदेद्धर्मार्थसंहितम्।
नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम्॥
श्लोक 100
नाचरेदहितेनैनं मूलच्छेदकरं हि तत्।
अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः॥
श्लोक 101
उदारैः सान्त्वयन् वाक्यैर्दोषश्चेत्तदुपेक्षया।
तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद्वेष्यसङ्कथाम्॥
श्लोक 102
विपश्चिदप्यचित्तज्ञो बालिशोऽपि तु भाववित्।
अतिप्रियोऽपि द्वेष्योऽपि यात्याशु विपरीतताम्॥
श्लोक 103
निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि।
न यायान्न चिरं तिष्ठेत् कोशस्थानावरोधयोः॥
श्लोक 104
स्वल्पेऽपि दर्शयेत्तुष्टिं लाभेऽनुद्धतमानसः।
मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम्॥
श्लोक 105
वस्त्रादि राज्ञा सदृशं राजलीलां च वर्जयेत्।
दत्तं यत्तु नृपेणव तद्धार्यं तुष्टिवृद्धये॥
श्लोक 106
हसितव्ये सिमतं कुर्यात् प्रभोरेवानुवृत्तितः।
उच्यमानेऽवलम्बेत परमर्माणि मूकताम्॥
श्लोक 107
स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवान्।
अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम्॥
श्लोक 108
पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा।
आसन्नसेवा नृपतेः क्रीडाशस्त्राहिपावकैः॥
श्लोक 109
कौशलेनातिमहता विनीतैः सा निरुध्यते।
प्राप्य दुष्प्नापमैश्वर्यं बहुमानं च भूपतेः॥
श्लोक 110
यथोपभुञ्जीत चिरं तथा स्यादप्रमादवान्।
विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रिताम्॥
श्लोक 111
रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम्।
रक्षाशक्तिं तथोच्छीर्षे सयवाङ्कुरयावकाम्॥
श्लोक 112
सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम्।
उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च॥
श्लोक 113
एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिना शुचेः।
आयुस्यं पौष्टिकं भूतविषकार्मणपाप्मजित्॥
श्लोक 114
सङ्क्षेप एष विषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरे तु।
आलोच्य सम्यगखिलं मतिपूर्वकारी युञ्जीत तं परिविकल्प्य विकारचिह्नम्॥
श्लोक 115
इति विषगररक्षोरक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः।
निजपररिपुवृन्दैरप्रधृष्यो महात्मा जनयति जनतायाः क्षेमयोगौ चिराय॥
इति अष्टमोऽध्यायः।