श्लोक 1
अथातोऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवन्ति।
ततस्तत्प्रयुक्ताः समासन्नवर्तिनोऽन्नपानादिषु विषं प्रयच्छन्ति।
स्त्रियश्च तत्प्राणिधिप्रयुक्ताः सौभाग्यलोभेन।
तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकर्मायर्मायपरिग्रहं दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहङ्कृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाम्रायमार्युवेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीयात्।
तमर्थमानाभ्यां यथाकालं गुरुमिव शिषयः पितरमिव पुत्रः पूजयेत्।
प्रतिकूलमपि तद्वचः साम्प्रतं मतमिति प्रतिमन्येत।
न हि भद्रोऽपि गजपतिर्निरङ्कुशः श्लाघनीयो जनस्य।
तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात्।
उपात्तमपि खलु जीवितमुपायबलेन स्वयमधितिष्ठति॥
श्लोक 3
अपि च बहुपरिग्रहा नरपतयः।
सन्ति चाशुकारिणः शूलसन्यासादयः।
प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः।
ते हि प्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिचारकाश्च तस्माद्भिषजो राजा राजगृहासन्ने निवेशनं कारयेत्।
तथा हि सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥
श्लोक 4
स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षाणैः पुरःस्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत्॥
श्लोक 5
भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत्॥
श्लोक 6
तत्र सविषमन्नं स्राव्यमाणमविस्राव्यं भवति, चिरेण पच्यते, पक्वं च सद्यः पर्युषितमिव निरूष्म स्तब्धं च जायते, यथास्ववर्णगन्धरसैर्व्यापद्यते, प्रक्लिद्यते, चन्द्रकाचितं च भवति॥
श्लोक 7
व्यञ्जनानामाशु शुष्कत्वं भवति।
क्वाथः ध्यामता श्यामता हीनातिरिक्तविकृतानां चात्रच्छायानां दर्शनमदर्शनमेव वा, फेनपटलसीमन्तोर्ध्वविविधराजितन्तुबुद्बुदप्रादुर्भावो, विशेषेण लवणोल्बणेषु फेनमाला रसस्य मध्ये नीला राजिः, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः श्यावा, तक्रस्य नीलपीता, मस्तुनः कपोताभा, धान्याम्लस्य कृष्णा, द्रवौषधस्य कपिला, घृतस्य कपिलाभा, क्षौद्रस्य हरिता, तैलस्यारुणा, वसागन्धश्च॥
श्लोक 8
फलानामामानां पाकः, पक्वानां प्रकोथः, दव्याणामार्द्राणां सहसा म्लानत्वमुत्पक्वभावः, शुष्काणां श्यावता वैवर्ण्यं वा, कठिनानां मृदुता, मृदूनां कठिनत्वं, माल्यस्य म्लानता गन्धनाशः स्फुटिताग्रत्वं, आस्तरणप्रावरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च, लोहमणिमयानां पङ्कमलोपदेहः, स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च॥
श्लोक 9
विषदस्तु स्वदोषशङ्कया त्रस्तो, भीतः, स्वेदवेपथुमान्, शुष्कश्याववक्त्रः, समन्तात् सोद्वेगं विलक्षोऽभिवीक्षते।
यत्र चानेन विषं प्रयुक्तं तद्विशेषेण।
तथा स्रस्तोत्तरीयः स्तम्भकुड्यादिभिरात्मानमन्तर्धत्ते।
स्खलितगतिर्दीनो लज्जावानस्थानहासी पृष्टोऽप्यसम्बन्धमुत्तरं ददाति।
नैववा विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, ग्रीवामालभते, शिरः कण्डूयति, औष्ठौ परिलेढि, जृम्भते, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते॥
श्लोक 10
नृपाज्ञात्वरयापि केचिदपराधान्तराद्वाऽनवस्थितसत्त्वाः समाचरन्त्येवम्।
तस्मादग्न्यादिप्वपि परीक्षेत।
वह्निस्तु सविषमन्नं प्राप्यैकावर्तो रूक्षमन्दार्चिरिन्द्रायुधवदनेकवर्णज्वालो भृशं चटचटायते।
कुणपगन्धी धूमश्चास्य मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलतां जनयति॥
श्लोक 11
तत्र नलदकुष्ठलामज्जकैः क्षौद्रद्रुतैर्नस्यमञ्जनं च कुर्यात्।
धूममेव वापामार्गविडङ्गबलाद्वयचित्रकमेषशृङ्गिपुष्पसुमनःक्षारकद्राक्षाघृतगुडकृतं पिबेत्॥
श्लोक 12
स्नेहलवणयोगादपि चाग्निरित्थं स्यात्।
अतो वयोभिः परीक्षेत।
तत्र विषजुष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवन्ति।
मक्षिकाः सविषान्ने न निलीयन्ते।
निलीनाश्च व्यापद्यन्ते।
दृष्ट एव चास्मिंस्तु चकोरस्याक्षिणी विरज्येते।
कोकिलस्य स्वरो विकृतिमेति।
हंसस्य गतिः स्खलति।
कूजति भृङ्गराजः।
माद्यति क्रौञ्चः।
विरौति कृकवाकुः।
विक्रोशति शुकः शारिका च।
छर्दयति चामीकरः।
अन्यतो याति कारण्डवः।
म्रियते जीवञ्जीवको, ग्लायति वा।
हृष्टरोमा भवति नकुलः।
शकृद्विस्र्जति वानरः।
रोदिति पृषतः।
हृष्यति मयूरः।
दर्शनादेव चास्य विषं मन्दतामुपैति॥
श्लोक 13
विषदूषितस्य पुनराहारस्योष्मा मयूरकण्ठाभोऽभ्युदेति। तद्वाष्पेणापि धूमवन्मूर्छादयः।
तेषां तद्वदेव साधनम्।
हस्तेन स्पृष्टमन्नं विषवद्दाहशोफस्वापनखशातान् करोति।
तस्य श्यामेन्द्रगोपसोमोत्पलैर्लेपः॥
श्लोक 14
अभ्यवह्रियमाणं त्वोष्ठचिमिचिमान्तर्वक्त्रदाहजिह्वामूलगौरवहनुस्तम्भदन्तहर्षलालाः करोति रसापरिज्ञानं च।
तत्र धूमोक्तं दन्तकाष्ठोक्तं च कर्म।
आमाशयगतं स्वेदमदमूर्छछर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिन्दुभिश्चाचयमङ्गानां करोति॥
श्लोक 15
तत्र मदमफलालबुबिम्बीकोशातकीफलैर्दाधिमधुयुक्तमाशु वमनं दद्यात्, निष्पावाम्बुभिर्वा।
ततः स्निग्धशरीरं विरेचयत्।
त्रिफलात्रिकटुनागपुष्पमधुकबर्हिणपर्णीबृहतीद्वयचूर्णं सिंहव्याघ्रवृकतरक्षुद्वीपिमार्जारसृगालमृगगोधानामन्यतमपित्तरससंयुक्तं सक्षौद्रं पानमेष जीवनो नामागदः परं सर्वविषौषधम्।
तस्मिन् जीर्णे श्यामाव्योषातिविषासिद्धेन पयसा घृतेन वोपस्तम्भितां मुद्गयूषेण किंचिल्लवणेन ससर्पिष्केण मृद्वोदनं भोजयेत्।
मधुकशिरीषचन्दनैश्चैनमालिम्पेत्॥
श्लोक 16
पक्वाशयगतं तृड्दाहमूर्च्छातीसाराटोपतन्द्रेन्द्रियविकृतिबलभ्रंशकार्श्यपाण्डुत्वोदराणि जनयति।
तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं समाक्षिकं च दूषीविषारिं दध्ना पाययेत्।
दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता तालुदन्तजिह्वोष्ठमांसशोफश्च तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सक्षौद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात्।
दाडिमकरमदर्भव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम्।
अनेन जिह्वानिर्लेखनकवलगण्डूषा व्याख्याताः॥
श्लोक 17
अञ्जनप्रयुक्तेऽश्रुदूषिकोपदेहरागवेदनादृष्टिविभ्रमा भवन्त्यान्ध्यं च।
तत्र सर्पिष्पानं योज्यम्।
शृतेन पयसा सप्तकृत्वः पिप्पलीर्भावयेत्।
ततस्तत्कल्केन सर्पिर्विपक्वं नेत्रतर्पणम्।
कपित्थमेषशृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन वाञ्जनं बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सप्तकृत्वो मधुना भावयेत्।
तच्च स्रोतोऽञ्जनसुवर्णचूर्णयुक्तमञ्जनं देयम्।
नस्यधूमप्रयुक्ते शिरोरुक्काफास्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च।
तत्रातिविषाश्वेताकाकमाचीमदयन्तिकाकल्के क्षीरसिद्धं सर्पिर्न्नस्ये पाने च विदध्यात्॥
अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि।
तत्र शीताम्बुपरिषिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकामृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनम्।
एतान्येव च सकपित्थरसगोमूत्राणि पानम्।
गिरिकर्णिकाश्वेतमूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगोर्वारुकतकमूलानि शेलुक्वाथपिष्टानि प्रलेपः।
अनेनोद्वर्त्तनघर्षणपरिषेकानुलेपनभूषणयानशय्यास्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः॥
श्लोक 18
विशेषतस्त्वाभरणकृते विकारेऽश्वगन्धापामार्गकिणिहीखदिरशिरीषकल्कैर्गोपित्तयुक्तैः प्रदेहः।
पादपीठकृते श्लेष्मातकसर्पसुगन्धाम्रकल्को मधुयुक्तः।
छत्रप्रयुक्ते वेदनास्फोटानां क्षिप्रपाकानां पक्वजाम्बवप्रकाशानां प्रादुर्भावः।
तत्र मधुकपाटलाकशेरुकलोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैः सर्वगात्रप्रदेहः।
अनेन चामरव्यजने व्याख्याते॥
श्लोक 19
शिरोऽभ्यङ्गप्रयुक्ते शिरोवेदना ग्रन्थिजन्म केशच्यवनं च।
तत्र श्यामापालिन्दीतण्डुलीयकचूर्ण घृतर्क्षपित्तैः सुभावितया कृष्णमृदा प्रलेपः।
गोमयमालतीमूषिककर्ण्यन्यतमरसो वागारधूमो वा श्लेष्मातकत्वक्पाटलाशिरीषमधुकहरिद्राद्वयैरजाक्षीरालोडितैः परिषेकः।
अनेन शिरःस्नानोदककङ्कतस्रगुष्णीषा व्याख्याताः॥
श्लोक 20
कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च।
तत्र बहुपत्रास्वरसो घृतक्षौद्रसंयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः।
मुखालेपप्रयुक्ते मुखश्यावता पद्मकण्टका भवन्त्यभ्यङ्गजाश्च विकाराः।
तत्र मधुकपयस्याबन्धुजीवभञ्जीपुनर्नवचन्दनैः सघृतैर्लेपो, मधुसर्पिषी पानम्।
सविषपुष्पाघ्राणाच्छिरोव्यथा साश्रुनेत्रत्वं गन्धाज्ञानं च।
तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति॥
श्लोक 21
भवति चात्र।
फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम्।
भाजनव्यञ्जनानां च तथा कुर्यादतन्द्रितः॥
श्लोक 22
घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृश्य तानपि।
प्रतीवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकाम्॥
श्लोक 23
ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च।
आहारमुपयुञ्जीत यथावद्वसुधाधिपः॥
श्लोक 24
मन्दं तीक्ष्णविषाभ्यासाद्विषमुत्क्षीयते भृशम्।
तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक्॥
श्लोक 25
विषसंधारणं धन्यं रक्षोघ्नं प्रीतिवर्धनम्।
अपि च सापिधानघटीमूटफलकस्थापितौषधम्॥
श्लोक 26
प्रागुदीच्योर्दिशोर्गुप्तं भेषजागारमिष्यते।
उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्॥
श्लोक 27
महानसं सुसंमृष्टं विश्वास्यजनसेवितम्।
सद्द्वास्स्थाधिष्ठितद्वारं कक्ष्यावत्सुवितानकम्॥
श्लोक 28
सुधौतदृठकुम्भादि परिशुद्धजलेन्धनम्।
स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः॥
श्लोक 29
कॢप्तकेशनखाः पित्र्या राज्ञः कृत्यैरसङ्गताः।
तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः॥
श्लोक 30
संविभक्तश्च भक्तश्च शुचिर्वैद्यवशूनुगः।
सर्वेऽपि भूभृदासन्नाः शस्ताः सततमीदृशाः॥
श्लोक 31
मिथो विग्रहसङ्घातरहिता भूभृते हिताः।
तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात्॥
श्लोक 32
भूभृद्देहोपकरणसंरक्षणसमुद्यतः॥
श्लोक 33
अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसज्जौषधशस्त्रयन्त्रः।
तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्॥
श्लोक 34
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्।
दूषयन्त्यरयो यस्मात्तान् विद्याच्छोधयेत च॥
श्लोक 35
प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्।
भूवारितृणकाष्ठाश्ममार्गोन्मार्गवनस्पतीन्॥
श्लोक 36
विषेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते।
प्रम्लानतृणगुल्मादिमृतकीटसरीसृपा॥
श्लोक 37
विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः।
छर्दिर्मूर्छा ज्वरो मोहः शिरोदुःखं च जायते॥
श्लोक 38
तत्र सौभञ्जनान्मूलं सोमवल्लीमुशीरकम्।
मातुलुङ्गरसं हिङ्गुं पाययेद्दधिमात्रया॥
श्लोक 39
मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च।
सर्वगन्धैः समं योज्य पचेत्पक्वे च निक्षिपेत्॥
श्लोक 40
सोमराजीं सुनन्दाख्यां सरलं गन्धनाकुलीम्।
चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम्॥
श्लोक 41
सविषं विरसं तोयं कवोष्णं राजिभिश्चितम्।
फेनिलं गुरु विच्छिन्नं खगैरनाभिनन्दितम्॥
श्लोक 42
मृताकुलितमत्स्यं च स्पर्शाद्रुक्शोफकण्डुमत्।
औदनः साधितस्तेन भुक्तमात्रोऽपि दह्यते॥
श्लोक 43
विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्छाज्वरप्रदः।
दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम्॥
श्लोक 44
तत्र शिग्रेवादिमगदं भूमिदोषोदितं पिबेत्।
अजशृङ्गीं विशालाख्यां विषघ्नीमुत्तमारणीम्॥
श्लोक 45
फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्।
बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्॥
श्लोक 46
कल्कयित्वा प्रतीवापं सरलं रजनीद्वयम्।
एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीअपि॥
श्लोक 47
पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषीभवेत्।
पाटलापारिभद्राश्वकर्णशम्याकसिध्रकान्॥
श्लोक 48
कलशान्तर्गतान् दग्ध्वा प्रक्षिपेत्सविषेऽम्भसि।
शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः॥
श्लोक 49
भ्रममूर्छादिकारी च शिग्र्वादिस्तत्र चेष्यते।
देवदारुनतानन्तामधुकार्जुनगैरिकम्॥
श्लोक 50
वज्रकन्दं लतां लोध्नं विकिरेच्छ्लक्ष्णचूर्णितम्।
वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च॥
श्लोक 51
सर्वतश्चूर्णसंपर्कान्निर्विषो जायतेऽनिलः।
विकृता भवति छाया पादपे विषदूषिते॥
श्लोक 52
निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम्।
कुर्यात् फलपलशादि कण्डूपाकातिसारकृत्॥
श्लोक 53
भूमिमुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र चेष्यते।
न च कन्यामविदितां संस्पृशेदपरीक्षिताम्॥
श्लोक 54
विविधान् कुर्वते योगान् कुशलाः खलु मानवाः।
आजन्मविषसंयोगात् कन्या विषमयीकृता॥
श्लोक 55
स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम्।
तद्धस्तकेशसंस्पर्शान्म्लायते पुष्पपल्लवैः॥
श्लोक 56
शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि।
जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत्॥
श्लोक 57
नाप्रोक्षितं नाविदितं भिषजा नानवेक्षितम्।
नाप्राशितं च सूदाद्यैः किञ्चिदप्याहरेन्नृपः॥
श्लोक 58
धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम्।
परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यतेऽञ्जनम्॥