अष्टाङ्गसंग्रहः सूत्रस्थानम् पञ्चमोऽध्यायः

श्लोक 1

अथातो रोगानुत्पादनीयं नामाध्ययं व्याख्यास्यामः।
इतिहस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

वेगान् नधारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम्।
निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्॥

श्लोक 3

अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः।
वातमूत्रशकृत्सङ्गद्दष्ट्यग्निवधहृद्गदाः॥

श्लोक 4

शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः।
ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्॥

श्लोक 5

मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः।
अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः॥

श्लोक 6

मूत्रस्य रोधात् पूर्वे च प्रायो रोगाः तदौषधम्।
वर्त्यभ्यङ्गवगाहाश्च स्वेदनं बस्तिकर्म च॥

श्लोक 7

अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु।
मूत्रजेषु तु पाने च प्राग्भक्तं शस्येत घृतम्॥

श्लोक 8

जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्।
अवपीडकमेतच्च संज्ञितं धारणात् पुनः॥

श्लोक 9

उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः।
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्॥

श्लोक 10

शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः।
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥

श्लोक 11

प्रवर्तयेत् क्षुतिं सक्तां स्वेदाभ्यङ्गौ च शीलयेत्।
योज्यं वातघ्नमन्नं च घृतं चौत्तरभक्तिकम्॥

श्लोक 12

शोषाङ्गसादबधिर्यसम्मोहभ्रमहृद्गदाः।
तृप्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः॥

श्लोक 13

अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः।
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्॥

श्लोक 14

निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः।
अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च॥

श्लोक 15

कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः।
शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः॥

श्लोक 16

गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्।
हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः॥

श्लोक 17

जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः।
पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः॥

श्लोक 18

सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः।
विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः॥

श्लोक 19

सकासश्वसहृल्लासव्यङ्गश्वयथवो वमेः।
गण्डूषधूमानाहारं रुक्षं भुक्त्वा तदुद्वमः॥

श्लोक 20

व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्।
सक्षारलवणं तैलमभ्यङ्गार्थे च शस्यते॥

श्लोक 21

शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः।
हृद्व्यथा मूत्रसङ्गाङ्गभङ्गवर्ध्माश्मषण्ढताः॥

श्लोक 22

तास्रचूडसुराशलिबस्त्यभ्यङ्गावगाहनम्।
बस्तिशुद्धिकरैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः॥

श्लोक 23

तत्र सेवेत सर्वं च वर्जयेद्वेगधारिणम्।
विड्वामिनं परिक्लिष्टं क्षीणं तृट्छूलपीडितम्॥

श्लोक 24

रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति॥

श्लोक 25

ततश्चानेकधा प्रायः पवनो यत् प्रकुप्यति।
अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्॥

श्लोक 26

क्रमादपामपि मणौ पङ्कोऽवश्यंभवत्यतः।
उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति॥

श्लोक 27

चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः।
प्रायशः सुचिरेणापि भेषजद्वेषिणोगदान्॥

श्लोक 28

अतिस्थौल्याग्निसदनमेहकुष्ठहृतौजसः।
स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपाण्डुताः॥

श्लोक 29

आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान्।
च्छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम्॥

श्लोक 30

कण्ठामयान् मूर्द्धरुजं प्रणाशं बुद्धिनिद्रयोः।
तेजोवर्णबलानां च तृप्यतो बृंहणैरपि॥

श्लोक 31

उचितैरपि चाहारैर्यस्मादस्य वहन्ति न।
दोषोपलिप्तवदना रसं रसवहाः सिराः॥

श्लोक 32

वमनादीनतो युञ्ज्यात् स्वस्थस्थैव यथाविधि।
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः॥

श्लोक 33

ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः।
यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्॥

श्लोक 34

रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्।
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्॥

श्लोक 35

शालिषष्टिकगोधूममांसक्षीरघृतादिभिः।
हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः॥

श्लोक 36

साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः।
तथा स लभते शर्म सर्वपावकपाटवम्॥

श्लोक 37

धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः।
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः॥

श्लोक 38

कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः।
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः॥

श्लोक 39

देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्।
अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्॥

श्लोक 40

भूताद्यस्यर्शनोपायो निर्दिष्टश्च पृथक् पृथक्।
अनुत्पत्यै समासेन विधिरेष प्रदर्शितः॥

श्लोक 41

निजागन्तुविकाराणामुत्पन्नानां च शान्तये॥

श्लोक 42

शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले।
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान् न जातु॥

श्लोक 43

नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥

श्लोक 44

अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमपायवत्सु।
जितेन्द्रियं नानुपतान्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्॥

श्लोक 45

कालेऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुखानुबन्धि।
सत्त्वं विधेयं विशदा च बुद्धिर्भवन्ति धीरस्य सदा सुखाय॥
इति पञ्चमोऽध्यायः