अष्टाङ्गसंग्रहः सूत्रस्थानम् तृतीयोऽध्यायः contd.

श्लोक 65

अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते।
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसं॥

श्लोक 66

गजं सिंह इव+आकर्षन् भजन्नति विनश्यति।
उद्वर्त्तनं कफहरं मेदसः प्रविलायनम्॥

श्लोक 67

स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्।
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्॥

श्लोक 68

कण्डूमलश्रमस्वेदतन्द्रातृङ्दाहपाप्मजित्।
उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः॥

श्लोक 69

तेनैव तूत्तमाङ्गस्य बलहृत् केशचक्षुषाम्।
नाऽनाप्लुत्य शिरः स्नायान्न जलेऽल्पे न शीतले॥

श्लोक 70

नोदकावतरणस्वप्नान् नग्नो न च+आचरेत्।
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि॥

श्लोक 71

नात्मानमीक्षेत जले न तटस्थो जलाशयम्।
न प्रतिस्फालयेदम्बु पाणिना चरणेन वा॥

श्लोक 72

स्नात्वा न मृज्यात् गात्राणि धुनुयान्न शिरोरुहान्।
निवसीताऽर्द्र एव+आशु सोष्णीषे धौतवाससी॥

श्लोक 73

न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्।
वासोऽन्यदन्यच्छयने निर्गमे देवतार्च्चने॥

श्लोक 74

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥

श्लोक 75

अन्नपानविधानेन भुञ्जीतान्नं विनाऽत्ययात्।
अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः॥

श्लोक 76

पाकं सजलमेकान्ते यथासुखमितिश्रुवन्।
प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्नाऽन्नमात्मने॥

श्लोक 77

नाऽन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनां।
स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणां॥

श्लोक 78

गणारिगणिकासत्रधूर्त्तान्नापणिकञ्च न।
नोत्सङ्गे भक्षयेत् भक्ष्यान् जलं नाञ्जलिना पिबेत्॥

श्लोक 79

सर्वञ्च तिलसम्बद्धं नाऽद्यादस्तमिते रवौ।
न भुक्तमात्र आस्येन्न निषिद्धं भजेत्सुखं॥

श्लोक 80

धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः।
मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्॥

श्लोक 81

न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः।
कलिवैररुचिर्न स्यात् धीरः सम्पद्विपत्तिषु॥

श्लोक 82

श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली।
क्षान्तिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत्॥

श्लोक 83

ह्रीमान् धीमान् महोत्साहः संविभागी प्रियातिथिः।
अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः॥

श्लोक 84

दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः।
अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः॥

श्लोक 85

आश्वासकारी भीतानां क्रुद्धानामनुनायकः।
पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः॥

श्लोक 86

वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्।
आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्॥

श्लोक 87

सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्।
धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः॥

श्लोक 88

ना+आत्मानमवजानीयान्न स्तूयान्न च पीडयेत्।
न हीनानवमन्येत् वृत्तार्थाङ्गबलश्रुतैः॥

श्लोक 89

नाऽरुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नोऽपतापवान्।
हेतावीर्ष्येन्न तु फले पापं पापेऽपि नाचरेत्॥

श्लोक 90

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत्।
अन्यत्रपुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः॥

श्लोक 91

नृत्यवादित्रगीतादि नोल्बणामाचरेत् क्रियाम्।
प्रसिद्धकेशवाग्वेषशमसान्त्वपरायणः॥

श्लोक 92

ऊर्ध्वं नाभेः शरीरस्य स्पृशोन्नाऽधरवाससा।
न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्॥

श्लोक 93

नाऽसंवृतमुखो हास्यक्षवोत्गारविजृम्भणम्।
पाणिद्वयेन युगपत् कण्डूयेन्नात्मनः शिरः॥

श्लोक 94

वहेन्न भारं शिरसा युगपच्चाग्निवाहिणी।
नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्॥

श्लोक 95

कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम्।
पादं पादेन नाऽक्रामेन्न कण्डूयेन्न शौचयेत्॥

श्लोक 96

न कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत्।
अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्॥

श्लोक 97

नाऽसमिद्धमुपासीत हुताशं नैव चाशुचिः।
नाऽनुवातं न विवृतो न क्लान्तो नाऽन्यमानसः॥

श्लोक 98

धमेन्नाऽस्येन न स्कन्देन्नाऽधः कुर्यान्न पादतः।
सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च॥

श्लोक 99

नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्।
उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्॥

श्लोक 100

उपरक्तं च भास्वन्तं वाससा वा तिरोहितम्।
नाऽन्यदप्यतितेजस्वि न क्रुद्धभ्य गुरोर्मुखम्॥

श्लोक 101

स्त्रियं स्त्रवन्तीं नोदक्यां न नग्नां नाऽन्यसङ्गताम्।
न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने॥

श्लोक 102

शयीत नैकशयने न चाश्नीयास्तया सह।
तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्॥

श्लोक 103

नोच्छिष्टस्तारकाराहुतुहिनाशुदिवाकरान्।
पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेछिरः॥

श्लोक 104

पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्।
अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च॥

श्लोक 105

नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत्॥

श्लोक 106

न+आत्मनो जन्मलग्नर्क्षधनसारं गृहे मलम्।
प्रकाशयेन्नावमानं न च निःस्नेअतां प्रभोः॥

श्लोक 107

पुरोवातातपरजस्तुषारपरुषानिलान्।
अनृजुः क्षवथूद्रारकासस्वप्नान्नमैथुनम्॥

श्लोक 108

सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम्।
कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः॥

श्लोक 109

हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः।
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्॥

श्लोक 110

आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम्।
तोयाग्नि पूज्यमध्येन यानं धूमं शवाश्रयम्॥

श्लोक 111

मद्यातिसक्तिं विस्त्रंभस्वातन्त्र्ये स्त्रीषु च त्यजेत्।
नैकाहमप्यधिवसेद्वास्तु तच्छास्त्रगर्हितम्॥

श्लोक 112

न देशं व्याधिबहुलं नावैद्यं नाप्यनायकम्।
नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्॥

श्लोक 113

वसेत् प्राज्याम्बुभैषज्यसमित् पुष्पतृणेन्धने।
सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे॥

श्लोक 114

नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः।
आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च॥

श्लोक 115

दश कर्मपतान्रक्षन् जयन्नभ्यन्तरानरीन्।
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम्॥

श्लोक 116

संभिन्नलापं व्यापादमभिध्यां दृग्विपर्ययम्।
पापं कर्मेतिदशधा कायवाङ्मानसैस्त्ययेत्॥

श्लोक 117

परोपघातक्रियया वर्जयेदार्जनं श्रियः।
अर्थानां धर्मलब्धानामदाताऽपिह्यसम्भवात्॥

श्लोक 118

स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति।
सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः॥

श्लोक 119

शास्तारमनुसंस्मृत्य स्वचर्यां चाथ संविशेत्।
देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः॥

श्लोक 120

युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्।
जानुतुल्यं मृदु शुभं सेवेत शयनासनम्॥

श्लोक 121

प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति।
पूर्वापरदिशो भागे धर्ममेवानुचिन्तयन्॥

श्लोक 122

आददीत सदा देहादित्थं सारमसारतः।
बिभ्यत् प्रतिक्षणं मृत्योरयथातथचेष्टितात्॥

श्लोक 123

आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः।
सुखमायुर्हितं चोक्तं विपरीतं विपर्यये॥

श्लोक 124

सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि।
अदूषयन्मनस्तस्मात् भक्तिमांस्तमुपाचरेत्॥

श्लोक 125

पर्यस्तिकोपाश्रयकोपहासविवादनिष्ठीवनजृम्भणानि।
सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्सन्निधाने परिवर्जयेत्तु॥

श्लोक 126

सत्वाद्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्या+आत्महितं विदध्यात्।
अन्योऽपि यः कश्चिदिहाऽस्ति मार्गो हितोपदेशेषु भजेत तं च॥

श्लोक 127

इति चरितमुपेतः सर्वजीवोपजीव्यं प्रथितपृथुगुणौधो रक्षितो देवताभिः।
समधिकशतजीवी निर्वृतः पुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदेऽपि तुष्टिम्॥
इति तृतीयोऽध्यायः