अष्टाङ्गसंग्रहः सूत्रस्थानम् द्वितीयोऽध्यायः

श्लोक 1

अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

गुरुभक्तोऽभियुक्तोऽतियुक्तो धीस्मृतिपाटवैः।
ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः॥

श्लोक 3

ब्रह्मचारी जितद्वन्द्वो धीरः सुचरितः स्थिरः।
षण्मासानुषितः शक्लो लज्जाशौचकुलान्वितः॥

श्लोक 4

शिष्योऽध्याप्यो गतो यावदन्तं तन्त्रार्थकर्मणाम्।
नाऽकालविद्युत्स्तनिते भूकम्पे राहुदर्शने॥

श्लोक 5

पञ्चदश्यामचन्द्रायां परोक्षे वा गुरोः पठेत्।
नातिच्छिन्नपदं नातिमन्दं नात्युच्चनीचकैः॥

श्लोक 6

हीनान्यवेष आचार्यं पर्युपासीत राजवत्।
शयीत सुप्त एवास्मिन्नुत्तिष्ठेतास्य पूर्वतः॥

श्लोक 7

न ब्रूयात् केवलं नाम नाऽसाध्वपि विनाटयेत्।
अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः॥

श्लोक 8

बहुश्रुतः कालवेदी ज्ञातग्रन्थोऽर्थशास्त्रवित्।
अनाथान् रोगिणो यश्च पुत्रवत् समुपाचरेत्॥

श्लोक 9

गुरुणा समनुज्ञातः स भिषक्छब्दमश्नुते।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः॥

श्लोक 10

स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम्।
यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्ज्जितः॥

श्लोक 11

स सत्सु गर्हामाप्नेति वधं चर्च्छति राजतः।
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे॥

श्लोक 12

ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः।
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये॥

श्लोक 13

पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्।
प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः॥

श्लोक 14

ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति।
आहूत एव यो याति सुवेषः सुनिमित्ततः॥

श्लोक 15

गत्वाऽतुरार्थादन्यत्र न निधत्ते मनः क्वचित्।
व्याधीन् परीक्षते सम्यङ्निदानादिविशेषतः॥

श्लोक 16

ह्रेपणीयां च तद्वाअर्त्तां न प्रकाशयते बहिः।
सहसा न च तस्यापि क्रियाकालमहापयन्॥

श्लोक 17

जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते।
नाददीताऽमिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे॥

श्लोक 18

ताभिश्च रहसि स्थानं परिहासं च वर्जयेत्।
आर्त्तं च नृपसद्वैद्यैर्द्विष्टं तद्वेषिणं द्विषम्॥

श्लोक 19

चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्।
हीनोपकरणं व्यग्रमविधेयं गतायुषम्॥

श्लोक 20

जिजीविषुर्व्याधितोऽपि पूर्वोक्तगुणवर्जितान्।
क्रियाविक्रयिणो वैद्यान् मृत्योरग्रेसरा हि ते॥

श्लोक 21

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्।
चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्॥

श्लोक 22

दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्।
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्॥

श्लोक 23

अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः।
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्ववानपि॥

श्लोक 24

यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः।
स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्॥

श्लोक 25

चिकित्सायास्तमेवातः प्रधानं कारणं विदुः।
साध्योऽसाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा॥

श्लोक 26

सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः।
सर्वौषधमे देहे यूनः पुंसो जितात्मनः॥

श्लोक 27

अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः।
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि॥

श्लोक 28

ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः।
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते॥

श्लोक 29

कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च।
असाध्यलिङ्गसङ्कीर्णस्तथा शस्त्रादिसाधनः॥

श्लोक 30

शेषत्वादायुषः पथ्यैर्याप्यः प्रायो विपर्यये।
दत्वाऽल्पं सुखमल्पेन हेतुना स प्रतन्यते॥

श्लोक 31

याति नाशेषतां रोगः कर्मणो नियतायुषः।
प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः॥

श्लोक 32

परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते।
तस्मादुपेक्ष्य एवासौ स्थितोऽत्यन्तविपर्यये॥

श्लोक 33

भ्रममोहारतिकरो दृष्टरिष्टोऽक्षनाशनः।
व्याधीन् पुरा परीक्ष्यैवमारभेत ततः क्रियाम्॥

श्लोक 34

स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्।
साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यताम्॥

श्लोक 35

विद्यादसाध्यमेवातः साध्यासाध्यसमागमम्।
नासाध्यः साध्यतां याति साध्यो यातित्वसाध्यताम्॥

श्लोक 36

पादापचाराद्दैवाच्च यान्त्यवस्थान्तरं गदाः।
वरमाशीविषविषं दीप्तमग्निमयोऽपि वा॥

श्लोक 37

उपयुञ्जीत न त्वार्त्तादामिषं कृपणाज्जनात्।
वरो भूतदया धर्म इत्यार्त्तेषु भिषग्वरः॥

श्लोक 38

वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते॥
इति द्वितीयोऽध्यायः