श्लोक 1
वाजी-करणम् अन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिर् अपत्यं च गुण-वत् तत्र संश्रितम् ॥ १ ॥
श्लोक 2
अपत्य-संतान-करं यत् सद्यः संप्रहर्षणम् ।
वाजीवाति-बलो येन यात्य् अ-प्रतिहतो ऽङ्गनाः ॥ २ ॥
श्लोक 3
भवत्य् अति-प्रियः स्त्रीणां येन येनोपचीयते ।
तद् वाजी-करणं तद् धि देहस्योर्जस्-करं परम् ॥ ३ ॥
श्लोक 4
देहस्यौजस्-करं परम् धर्म्यं यशस्यम् आयुष्यं लोक-द्वय-रसायनम् ।
अनुमोदामहे ब्रह्म-चर्यम् एकान्त-निर्मलम् ॥ ४ ॥
श्लोक 5
धन्यं यशस्यम् आयुष्यं लोक-द्वय-सुखावहम् लोक-द्वय-हितावहम् अल्प-सत्-त्वस्य तु क्लेशैर् बाध्यमानस्य रागिणः ।
शरीर-क्षय-रक्षार्थं वाजी-करणम् उच्यते ॥ ५ ॥
श्लोक 6
अल्प-सत्-त्वस्य च क्लेशैर् अल्प-सत्-त्वस्य चोत्क्लेशैर् बाध्यमानस्य रोगिणः कल्यस्योदग्र-वयसो वाजी-करण-सेविनः ।
सर्वेष्व् ऋतुष्व् अहर् अहर् व्यवायो न निवार्यते ॥ ६ ॥
श्लोक 7
कल्पस्योदग्र-वयसो अथ स्निग्ध-विशुद्धानां निरूहान् सानुवासनान् ।
घृत-तैल-रस-क्षीर-शर्करा-क्षौद्र-संयुतान् ॥ ७ ॥
श्लोक 8
योग-विद् योजयेत् पूर्वं क्षीर-मांस-रसाशिनाम् ।
ततो वाजी-करान् योगान् शुक्रापत्य-बल-प्रदान् ॥ ८ ॥
श्लोक 9
शुक्रापत्य-विवर्धनान् अ-च्छायः पूति-कुसुमः फलेन रहितो द्रुमः ।
यथैकश् चैक-शाखश् च निर्-अपत्यस् तथा नरः ॥ ९ ॥
श्लोक 10
स्खलद्-गमनम् अ-व्यक्त-वचनं धूलि-धूसरम् ।
अपि लालाविल-मुखं हृदयाह्लाद-कारकम् ॥ १० ॥
श्लोक 11
हृदयाह्लाद-कारिणम् अपत्यं तुल्य-तां केन दर्शन-स्पर्शनादिषु ।
किं पुनर् यद् यशो-धर्म-मान-श्री-कुल-वर्धनम् ॥ ११ ॥
श्लोक 12
अपत्यं तुल्य-ता केन किं पुनर् यो यशो-धर्म- मान-श्री-कुल-वर्धनः -मान-श्री-कुल-वर्धनात् शुद्ध-काये यथा-शक्ति वृष्य-योगान् प्रयोजयेत् ।
शरेक्षु-कुश-काशानां विदार्या वीरणस्य च ॥ १२ ॥
श्लोक 13
शुद्धे काये यथा-शक्ति मूलानि कण्टकार्याश् च जीवकर्षभकौ बलाम् ।
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥ १३ ॥
श्लोक 14
अश्वगन्धाम् अतिबलां आत्मगुप्तां पुनर्नवाम् ।
वीरां पयस्यां जीवन्तीम् ऋद्धिं रास्नां त्रिकण्टकम् ॥ १४ ॥
श्लोक 15
मधुकं शालिपर्णीं च भागांस् त्रि-पलिकान् पृथक् ।
माषाणाम् आढकं चैतद् द्वि-द्रोणे साधयेद् अपाम् ॥ १५ ॥
श्लोक 16
रसेनाढक-शेषेण पचेत् तेन घृताढकम् ।
दत्त्वा विदारी-धात्रीक्षु-रसानाम् आढकाढकम् ॥ १६ ॥
श्लोक 17
घृताच् चतुर्-गुणं क्षीरं पेष्याणीमानि चावपेत् ।
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम् ॥ १७ ॥
श्लोक 18
यष्टिकं गज-पिप्पलीम् द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् ।
तत् सिद्ध-पूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥ १८ ॥
श्लोक 19
शर्करायास् तुगायाश् च पिप्पल्याः कुडवेन च ।
मरिचस्य प्रकुञ्चेन पृथग् अर्ध-पलोन्मितैः ॥ १९ ॥
श्लोक 20
त्वग्-एला-केसरैः श्लक्ष्णैः क्षौद्र-द्वि-कुडवेन च ।
पल-मात्रं ततः खादेत् प्रत्य्-अहं रस-दुग्ध-भुक् ॥ २० ॥
श्लोक 21
क्षौद्राद् द्वि-कुडवेन च प्रत्य्-अहं मधु-दुग्ध-भुक् तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।
विदारी-पिप्पली-शालि-प्रियालेक्षुरकाद् रजः ॥ २१ ॥
श्लोक 22
पृथक् स्वगुप्ता-मूलाच् च कुडवांशं तथा मधु ।
तुलार्धं शर्करा-चूर्णात् प्रस्थार्धं नव-सर्पिषः ॥ २२ ॥
श्लोक 23
सो ऽक्ष-मात्रम् अतः खादेत् यस्य रामा-शतं गृहे ।
सात्मगुप्ता-फलान् क्षीरे गोधूमान् साधितान् हिमान् ॥ २३ ॥
श्लोक 24
यस्य कान्ता-शतं गृहे माषान् वा स-घृत-क्षौद्रान् खादन् गृष्टि-पयो-ऽनुपः ।
जागर्ति रात्रिं सकलाम् अ-खिन्नः खेदयन् स्त्रियः ॥ २४ ॥
श्लोक 25
बस्ताण्ड-सिद्धे पयसि भावितान् अ-सकृत् तिलान् ।
यः खादेत् स-सितान् गच्छेत् स स्त्री-शतम् अ-पूर्व-वत् ॥ २५ ॥
श्लोक 26
भावितान् बहु-शस् तिलान् चूर्णं विदार्या बहु-शः स्व-रसेनैव भावितम् ।
क्षौद्र-सर्पिर्-युतं लीढ्वा प्रमदा-शतम् ऋच्छति ॥ २६ ॥
श्लोक 27
प्रमदा दश गच्छति कृष्णा-धात्री-फल-रजः स्व-रसेन सु-भावितम् ।
शर्करा-मधु-सर्पिर्भिर् लीढ्वा यो ऽनु पयः पिबेत् ॥ २७ ॥
श्लोक 28
कृष्ण-धात्री-फल-रजः स नरो ऽशीति-वर्षो ऽपि युवेव परिहृष्यति ।
कर्षं मधुक-चूर्णस्य घृत-क्षौद्र-समन्वितम् ॥ २८ ॥
श्लोक 29
घृत-क्षौद्र-समांशकम् पयो-ऽनु-पानं यो लिह्यान् नित्य-वेगः स ना भवेत् ।
कुलीरशृङ्ग्या यः कल्कम् आलोड्य पयसा पिबेत् ॥ २९ ॥
श्लोक 30
सिता-घृत-पयो-ऽन्नाशी स नारीषु वृषायते ।
यः पयस्यां पयः-सिद्धां खादेन् मधु-घृतान्विताम् ॥ ३० ॥
श्लोक 31
पिबेद् बाष्कयणं चानु क्षीरं न क्षयम् एति सः ।
स्वयङ्गुप्तेक्षुरकयोर् बीज-चूर्णं स-शर्करम् ॥ ३१ ॥
श्लोक 32
पिबेद् बाष्कयिणं चानु धारोष्णेन नरः पीत्वा पयसा रासभायते ।
उच्चटा-चूर्णम् अप्य् एवं शतावर्याश् च योजयेत् ॥ ३२ ॥
श्लोक 33
चन्द्र-शुभ्रं दधि-सरं स-सिता-षष्टिकौदनम् ।
पटे सु-मार्जितं भुक्त्वा वृद्धो ऽपि तरुणायते ॥ ३३ ॥
श्लोक 34
पटे सु-भावितं भुक्त्वा श्वदंष्ट्रेक्षुर-माषात्मगुप्ता-बीज-शतावरीः ।
पिबन् क्षीरेण जीर्णो ऽपि गच्छति प्रमदा-शतम् ॥ ३४ ॥
श्लोक 35
पिबेत् क्षीरेण जीर्णो ऽपि यत् किञ्-चिन् मधुरं स्निग्धं बृंहणं बल-वर्धनम् ।
मनसो हर्षणं यच् च तत् सर्वं वृष्यम् उच्यते ॥ ३५ ॥
श्लोक 36
द्रव्यैर् एवं-विधैस् तस्माद् दर्पितः प्रमदां व्रजेत् ।
आत्म-वेगेन चोदीर्णः स्त्री-गुणैश् च प्रहर्षितः ॥ ३६ ॥
श्लोक 37
भावितः प्रमदां व्रजेत् सेव्याः सर्वेन्द्रिय-सुखा धर्म-कल्प-द्रुमाङ्कुराः ।
विषयातिशयाः पञ्च शराः कुसुम-धन्वनः ॥ ३७ ॥
श्लोक 38
शराः कुसुम-धन्विनः इष्टा ह्य् एकैक-शो ऽप्य् अर्था हर्ष-प्रीति-कराः परम् ।
किं पुनः स्त्री-शरीरे ये संघातेन प्रतिष्ठिताः ॥ ३८ ॥
श्लोक 39
किं पुनः स्त्री-शरीरेषु नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिर् अन्-आप्त-पूर्वा ।
सर्वेन्द्रियाकर्षण-पाश-भूता कान्तानुवृत्ति-व्रत-दीक्षिता या ॥ ३९ ॥
श्लोक 40
यां पश्यतस् तृप्तिर् अन्-आप्त-पूर्वा कला-विलासाङ्ग-वयो-विभूषा शुचिः स-लज्जा रहसि प्रगल्भा ।
प्रियं-वदा तुल्य-मनः-शया या सा स्त्री वृष्य-त्वाय परं नरस्य ॥ ४० ॥
श्लोक 41
प्रियं-वदा तुल्य-मनः-स्व-भावा आचरेच् च सकलां रति-चर्यां काम-सूत्र-विहिताम् अन्-अ-वद्याम् ।
देश-काल-बल-शक्त्य्-अनुरोधाद् वैद्य-तन्त्र-समयोक्त्य्-अ-विरुद्धाम् ॥ ४१ ॥
श्लोक 42
काम-शास्त्र-विहिताम् अन्-अ-वद्याम् अभ्यञ्जनोद्वर्तन-सेक-गन्ध-स्रक्-चित्र-वस्त्राभरण-प्रकाराः ।
गान्धर्व-काव्यादि-कथा-प्रवीणाः सम-स्व-भावा वश-गा वयस्याः ॥ ४२ ॥
श्लोक 43
स्रग्-अन्न-वस्त्राभरण-प्रकाराः गन्धर्व-कन्यादि-कथा-प्रवीणाः दीर्घिका स्व-भवनान्त-निविष्टा पद्म-रेणु-मधु-मत्त-विहङ्गा ।
नील-सानु-गिरि-कूट-नितम्बे काननानि पुर-कण्ठ-गतानि ॥ ४३ ॥
श्लोक 44
दीर्घिकाः स्व-भवनान्त-निविष्टाः पद्म-रेणु-मधु-मत्त-विहङ्गाः नील-सानु-गिरि-कूट-नितम्बाः दृष्टि-सुखा विविधा तरु-जातिः श्रोत्र-सुखः कल-कोकिल-नादः ।
अङ्ग-सुखर्तु-वशेन विभूषा चित्त-सुखः सकलः परिवारः ॥ ४४ ॥
श्लोक 45
श्रोत्र-सुखाः कल-कोकिल-नादाः अङ्ग-सुखर्तु विशेष-विभूषा ताम्बूलम् अच्छ-मदिरा कान्ता कान्ता निशा शशाङ्काङ्का ।
यद् यच् च किञ्-चिद् इष्टं मनसो वाजी-करं तत् तत् ॥ ४५ ॥
श्लोक 46
कान्ताः कान्ता निशाः शशाङ्काङ्काः मनसो वाजी-करं हि तत् मधु मुखम् इव सोत्पलं प्रियायाः कल-रणना परिवादिनी प्रियेव ।
कुसुम-चय-मनो-रमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ ४६ ॥
श्लोक 47
कल-रणना प्रिय-वादिनी प्रियेव कुसुम-चय-मनो-हरा च शय्या देशे शरीरे च न का-चिद् अर्तिर् अर्थेषु नाल्पो ऽपि मनो-विधानः ।
वाजी-कराः संनिहिताश् च योगाः कामस्य कामं परिपूरयन्ति ॥ ४७ ॥
श्लोक 48
देशे शरीरे न कदा-चिद् अर्तिर् अर्थेषु नाल्पो ऽपि मनो-ऽभिघातः मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्-भृष्ट-लोष्टोद्भवं ॥ ४८अ ॥
लाजाश् छर्दिषु वस्ति-जेषु गिरिजं मेहेषु धात्री-निशे ॥ ४८ब् ॥
पाण्डौ श्रेष्ठम् अयो ऽभयानिल-कफे प्लीहामये पिप्पली ॥ ४८च् ॥
संधाने कृमिजा विषे शुकतरुर् मेदो-ऽनिले गुग्गुलुः ॥ ४८द् ॥
श्लोक 49
वृषो ऽस्र-पित्ते कुटजो ऽतिसारे भल्लातको ऽर्शःसु गरेषु हेम ।
स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छाग-पयो ऽथ मांसम् ॥ ४९ ॥
श्लोक 50
भल्लातम् अर्शःसु गरेषु हेम अक्ष्य्-आमयेषु त्रि-फला गुडूची वातास्र-रोगे मथितं ग्रहण्याम् ।
कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च ॥ ५० ॥
श्लोक 51
उन्मादं घृतम् अ-नवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी ।
निद्रा-नाशं क्षीरं जयति रसाला प्रतिश्यायम् ॥ ५१ ॥
श्लोक 52
शोकं मद्यं विसंस्मृतिं ब्राह्मी मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्ध-गात्र-तां स्वेदः ।
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांस-बाहु-रुजम् ॥ ५२ ॥
श्लोक 53
नस्यं स्कन्धांस-बाहु-रुजम् नव-नीत-खण्ड-मर्दितम् औष्ट्रं मूत्रं पयश् च हन्त्य् उदरम् ।
नस्यं मूर्ध-विकारान् विद्रधिम् अ-चिरोत्थितम् अस्र-विस्रावः ॥ ५३ ॥
श्लोक 54
औष्ट्री-मूत्रं पयश् च हन्त्य् उदरम् नस्यं चोर्ध्व-विकारान् नस्यं मूर्ध्नि विकारान् नस्यं कवडो मुख-जान् नस्याञ्जन-तर्पणानि नेत्र-रुजः ।
वृद्धस्य क्षीर-घृते मूर्छां शीताम्बु-मारुत-च्छायाः ॥ ५४ ॥
श्लोक 55
नस्यं कवडं मुख-गदान् नस्यं केवलं मुख-गदान् नस्यं कवडं मुख-जान् सम-शुक्तार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् ।
दुःख-सह-त्वे स्थैर्ये व्यायामो गोक्षुरुर् हितः कृच्छ्रे ॥ ५५ ॥
श्लोक 56
सम-शुष्कार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा-पानम् दुःख-सह-त्वं स्थैर्ये दुःख-सह-त्वं स्थौल्ये कासे निदिग्धिका पार्श्व-शूले पुष्कर-जा जटा ।
वयसः स्थापने धात्री त्रि-फला गुग्गुलुर् व्रणे ॥ ५६ ॥
श्लोक 57
कासे निदिग्धिका-पानं पार्श्व-शूले च पौष्करम् वयः-संस्थापने धात्री वस्तिर् वात-विकारान् पैत्तान् रेकः कफोद्भवान् वमनम् ।
क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम् ॥ ५७ ॥
श्लोक 58
इत्य् अग्र्यं यत् प्रोक्तं रोगाणाम् औषधं शमायालम् ।
तद् देश-काल-बलतो विकल्पनीयं यथा-योगम् ॥ ५८ ॥
श्लोक 59
इत्य् आत्रेयाद् आगमय्यार्थ-सूत्रं तत्-सूक्तानां पेशलानाम् अ-तृप्तः ।
भेडादीनां संमतो भक्ति-नम्रः पप्रच्छेदं संशयानो ऽग्निवेशः ॥ ५९ ॥
श्लोक 60
इत्य् आत्रेयाद् आगमाद् आर्थ-सूक्ष्मं इत्य् आत्रेयाद् आगमय्यार्थ-सूक्ष्मं तत्-सूक्तीनां पेशलानाम् अ-तृप्तः दृश्यन्ते भग-वन् के-चिद् आत्म-वन्तो ऽपि रोगिणः ।
द्रव्योपस्थातृ-संपन्ना वृद्ध-वैद्य-मतानुगाः ॥ ६० ॥
श्लोक 61
क्षीयमाणामय-प्राणा विपरीतास् तथा ऽपरे ।
हिता-हित-विभागस्य फलं तस्माद् अ-निश्चितम् ॥ ६१ ॥
श्लोक 62
किं शास्ति शास्त्रम् अस्मिन् इति कल्पयतो ऽग्निवेश-मुख्यस्य ।
शिष्य-गणस्य पुनर्वसुर् आचख्यौ कार्त्स्न्यतस् तत्-त्वम् ॥ ६२ ॥
श्लोक 63
आचक्षे कार्त्स्न्यतस् तत्-त्वम् न चिकित्सा-चिकित्सा च तुल्या भवितुम् अर्हति ।
विनापि क्रियया स्वास्थ्यं गच्छतां षो-डशांशया ॥ ६३ ॥
श्लोक 64
आतङ्क-पङ्क-मग्नानां हस्तालम्बो भिषग्-जितम् ।
जीवितं म्रियमाणानां सर्वेषाम् एव नौषधात् ॥ ६४ ॥
श्लोक 65
सर्वेषाम् एव नौषधम् न ह्य् उपायम् अपेक्षन्ते सर्वे रोगा न चान्य-था ।
उपाय-साध्याः सिध्यन्ति ना-हेतुर् हेतु-मान् यतः ॥ ६५ ॥
श्लोक 66
नो ऽ-हेतुर् हेतु-मांस् ततः यद् उक्तं सर्व-संपत्ति-युक्तयापि चिकित्सया ।
मृत्युर् भवति तन् नैवं नोपाये ऽस्त्य् अन्-उपाय-ता ॥ ६६ ॥
श्लोक 67
नोपायेष्व् अन्-उपाय-ता अपि चोपाय-युक्तस्य धी-मतो जातु चित् क्रिया ।
न सिध्येद् दैव-वैगुण्यान् न त्व् इयं षो-डशात्मिका ॥ ६७ ॥
श्लोक 68
अप्य् एवोपाय-युक्तस्य न सिद्धिर् दैव-वैगुण्यान् न न्व् इयं षो-डशात्मिका कस्या-सिद्धो ऽग्नि-तोयादिः स्वेद-स्तम्भादि-कर्मणि ।
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ॥ ६८ ॥
श्लोक 69
न प्रीणनं कर्शनं वा कस्य क्षीर-गवेधुकम् कस्य माषात्मगुप्तादौ वृष्य-त्वे नास्ति निश्चयः ।
विण्-मूत्र-करणाक्षेपौ कस्य संशयितौ यवे ॥ ६९ ॥
श्लोक 70
कस्य माषात्मगुप्ताद्यैर् वृष-त्वे नास्ति निश्चयः विषं कस्य जरां याति मन्त्र-तन्त्र-विवर्जितम् ।
कः प्राप्तः कल्य-तां पथ्याद् ऋते रोहिणिकादिषु ॥ ७० ॥
श्लोक 71
कः प्राप्तः कल्प-तां पथ्याद् अपि चा-काल-मरणं सर्व-सिद्धान्त-निश्चितम् ।
महतापि प्रयत्नेन वार्यतां कथम् अन्य-था ॥ ७१ ॥
श्लोक 72
चन्दनाद्य् अपि दाहादौ रूढम् आगम-पूर्वकम् ।
शास्त्राद् एव गतं सिद्धिं ज्वरे लङ्घन-बृंहणम् ॥ ७२ ॥
श्लोक 73
चतुष्-पाद्-गुण-संपन्ने सम्यग् आलोच्य योजिते ।
मा कृथा व्याधि-निर्घातं विचिकित्सां चिकित्सिते ॥ ७३ ॥
श्लोक 74
चतुष्-पाद्-गुण-संपूर्णे मा कृथा व्याधि-निर्घाते एतद् धि मृत्यु-पाशानाम् अ-काण्डे छेदनं दृढम् ।
रोगोत्त्रासित-भीतानां रक्षा-सूत्रम् अ-सूत्रकम् ॥ ७४ ॥
श्लोक 75
एतत् तद् अमृतं साक्षाज् जगद्-आयास-वर्जितम् ।
याति हालाहल-त्वं तु सद्यो दुर्-भाजन-स्थितम् ॥ ७५ ॥
श्लोक 76
एतद् वेदामृतं साक्षाज् जगत्य् आयास-वर्जितम् याति हालाहल-त्वं च अ-ज्ञात-शास्त्र-सद्-भावाञ् छास्त्र-मात्र-परायणान् ।
त्यजेद् दूराद् भिषक्-पाशान् पाशान् वैवस्वतान् इव ॥ ७६ ॥
श्लोक 77
विवर्जयेद् भिषक्-पाशान् भिषजां साधु-वृत्तानां भद्रम् आगम-शालिनाम् ।
अभ्यस्त-कर्मणां भद्रं भद्रं भद्राभिलाषिणाम् ॥ ७७ ॥
श्लोक 78
बहु-धागम-शालिनाम् भद्रम् आगम-शीलिनाम् अभ्यस्त-कर्मणां सिद्धिर् इति तन्त्र-गुणैर् युक्तं तन्त्र-दोषैर् विवर्जितम् ।
चिकित्सा-शास्त्रम् अ-खिलं व्याप्य यत् परितः स्थितम् ॥ ७८ ॥
श्लोक 79
तन्त्र-दोष-विवर्जितम् व्यापठ्य परितः स्थितम् विपुला-मल-विज्ञान-महा-मुनि-मतानुगम् ।
महा-सागर-गम्भीर-संग्रहार्थोपलक्षणम् ॥ ७९ ॥
श्लोक 80
विपुला-मल-विज्ञानं महा-सागर-गम्भीरं महा-मुनि-मतानुगम् संग्रहार्थोपलक्षणम् संग्रहार्थोपलक्षकम् अष्टाङ्ग-वैद्यक-महोदधि-मन्थनेन यो ऽष्टाङ्ग-संग्रह-महामृत-राशिर् आप्तः ।
तस्माद् अन्-अल्प-फलम् अल्प-समुद्यमानां प्रीत्य्-अर्थम् एतद् उदितं पृथग् एव तन्त्रम् ॥ ८० ॥
श्लोक 81
यो ऽष्टाङ्ग-संग्रह-महामृत-सार-तुल्यः प्रीत्य्-अर्थम् एवम् उदितं पृथग् एव तन्त्रम् इदम् आगम-सिद्ध-त्वात् प्रत्यक्ष-फल-दर्शनात् ।
मन्त्र-वत् संप्रयोक्तव्यं न मीमांस्यं कथञ्-च-न ॥ ८१ ॥
श्लोक 82
इदम् आगम-शुद्ध-त्वात् न मीमांस्यं कदा-च-न दीर्घ-जीवितम् आरोग्यं धर्मम् अर्थं सुखं यशः ।
पाठावबोधानुष्ठानैर् अधिगच्छत्य् अतो ध्रुवम् ॥ ८२ ॥
श्लोक 83
दीर्घं जीवितम् आरोग्यं एतत् पठन् संग्रह-बोध-शक्तः स्व्-अभ्यस्त-कर्मा भिषग् अ-प्रकम्प्यः ।
आकम्पयत्य् अन्य-विशाल-तन्त्र-कृताभियोगान् यदि तन् न चित्रम् ॥ ८३ ॥
श्लोक 84
यः कम्पयत्य् अन्य-विशाल-तन्त्र- यदि चरकम् अधीते तद् ध्रुवं सुश्रुतादि-प्रणिगदित-गदानां नाम-मात्रे ऽपि बाह्यः ।
अथ चरक-विहीनः प्रक्रियायाम् अ-क्लिन्नः किम् इव खलु करोतु व्याधितानां वराकः ॥८४ ॥
श्लोक 85
प्रणिगदित-गदानां नाम-मात्रेण बाह्यः प्रतिगदित-गदानां नाम-मात्रे ऽपि बाह्यः किम् इह खलु करोतु व्याधितानां वराकः अभिनिवेश-वशाद् अभियुज्यते सु-भणिते ऽपि न यो दृढ-मूढकः ।
पठतु यत्न-परः पुरुषायुषं स खलु वैद्यकम् आद्यम् अ-निर्विदः ॥ ८५ ॥
श्लोक 86
वाते पित्ते श्लेष्म-शान्तौ च पथ्यं तैलं सर्पिर् माक्षिकं च क्रमेण ।
एतद् ब्रह्मा भाषतां ब्रह्म-जो वा का निर्-मन्त्रे वक्तृ-भेदोक्ति-शक्तिः ॥ ८६ ॥
श्लोक 87
एतद् ब्रह्मा भाषते ब्रह्म-जो वा अभिधातृ-वशात् किं वा द्रव्य-शक्तिर् विशिष्यते ।
अतो मत्सरम् उत्सृज्य माध्यस्थ्यम् अवलम्ब्यताम् ॥ ८७ ॥
श्लोक 88
अभिधातुर् वशात् किञ्-चिद् ऋषि-प्रणीते प्रीतिश् चेन् मुक्त्वा चरक-सुश्रुतौ ।
भेडाद्याः किं न पठ्यन्ते तस्माद् ग्राह्यं सु-भाषितम् ॥ ८८ ॥
श्लोक 89
हृदयम् इव हृदयम् एतत् सर्वायुर्-वेद-वाङ्-मय-पयो-धेः ।
कृत्वा यच् छुभम् आप्तं शुभम् अस्तु परं ततो जगतः ॥ ८९ ॥