अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 39 contd.

श्लोक 65

तैलेन लीढो मासेन वातान् हन्ति सु-दुस्-तरान् ।
मूत्रेण श्वित्र-कुष्ठानि पीतस् तक्रेण पायु-जान् ॥ ६५ ॥

श्लोक 66

वातान् हन्ति सु-दारुणान् भल्लातकानि पुष्टानि धान्य-राशौ निधापयेत् ।
ग्रीष्मे संगृह्य हेमन्ते स्वादु-स्निग्ध-हिमैर् वपुः ॥ ६६ ॥

श्लोक 67

स्वादु-स्निग्ध-हिमैः पुनः संस्कृत्य तान्य् अष्ट-गुणे सलिले ऽष्टौ विपाचयेत् ।
अष्टांश-शिष्टं तत्-क्वाथं स-क्षीरं शीतलं पिबेत् ॥ ६७ ॥

श्लोक 68

अष्टांश-शिष्टं तं क्वाथं वर्धयेत् प्रत्य्-अहं चानु तत्रैकैकम् अरुष्करम् ।
सप्त-रात्र-त्रयं यावत् त्रीणि त्रीणि ततः परम् ॥ ६८ ॥

श्लोक 69

आ-चत्वारिंशतस् तानि ह्रासयेद् वृद्धि-वत् ततः ।
सहस्रम् उपयुञ्जीत सप्ताहैर् इति सप्तभिः ॥ ६९ ॥

श्लोक 70

सप्ताहैर् अपि सप्तभिः यन्त्रितात्मा घृत-क्षीर-शालि-षष्टिक-भोजनः ।
तद्-वत् त्रि-गुणितं कालं प्रयोगान्ते ऽपि चाचरेत् ॥ ७० ॥

श्लोक 71

प्रयोगान्ते ऽप्य् उपाचरेत् आशिषो लभते ऽ-पूर्वा वह्नेर् दीप्तिं विशेषतः ।
प्रमेह-कृमि-कुष्ठार्शो-मेदो-दोष-विवर्जितः ॥ ७१ ॥

श्लोक 72

आशिषो लभते पूर्वा पिष्ट-स्वेदनम् अ-रुजैः पूर्णं भल्लातकैर् विजर्जरितैः ।
भूमि-निखाते कुम्भे प्रतिष्ठितं कृष्ण-मृल्-लिप्तम् ॥ ७२ ॥

श्लोक 73

पूर्णं भल्लातकैः सु-जर्जरितैः परिवारितं समन्तात् पचेत् ततो गो-मयाग्निना मृदुना ।
तत्-स्व-रसो यश् च्यवते गृह्णीयात् तं दिने ऽन्यस्मिन् ॥ ७३ ॥

श्लोक 74

पचेत् तद् गो-मयाग्निना मृदुना अमुम् उपयुज्य स्व-रसं मध्व्-अष्टम-भागिकं द्वि-गुण-सर्पिः ।
पूर्व-विधि-यन्त्रितात्मा प्राप्नोति गुणान् स तान् एव ॥ ७४ ॥

श्लोक 75

अमुम् उपयुञ्ज्यात् स्व-रसं पुष्टानि पाकेन परिच्युतानि भल्लातकान्य् आढक-संमितानि ।
घृष्ट्वेष्टिका-चूर्ण-कणैर् जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥ ७५ ॥

श्लोक 76

जर्जराणि विपचेज् जल-कुम्भे पाद-शेष-घृत-गालित-शीतम् ।
तद्-रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थे ॥ ७६ ॥

श्लोक 77

पाद-शेष-घृत-गालित-शेषम् पाद-शेष-घृत-गालित-शीते पाद-शेषम् अवतारित-शीतम् तं रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थम् सर्पिः पक्वं तत्र तुल्य-प्रमाणं युञ्ज्यात् स्वेच्छं शर्करया रजोभिः ।
एकी-भूतं तत् खज-क्षोभणेन स्थाप्यं धान्ये सप्त-रात्रं सु-गुप्तम् ॥ ७७ ॥

श्लोक 78

सर्पिः पक्वं तेन तुल्य-प्रमाणं युञ्ज्यात् प्रस्थं शर्करया रजोभिः युञ्ज्यात् स्वच्छं शर्करया रजोभिः एकी-भूतं तं खज-क्षोभणेन तम् अमृत-रस-पाकं यः प्रगे प्राशम् अश्नन्न् अनुपिबति यथेष्टं वारि दुग्धं रसं वा ।
स्मृति-मति-बल-मेधा-सत्-त्व-सारैर् उपेतः कनक-निचय-गौरः सो ऽश्नुते दीर्घम् आयुः ॥ ७८ ॥

श्लोक 79

द्रोणे ऽम्भसो व्रणकृतां त्रि-शताद् विपक्वात् क्वाथाढके पल-समैस् तिल-तैल-पात्रम् ।
तिक्ता-विषा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः सिद्धं परं निखिल-कुष्ठ-निबर्हणाय ॥७९ ॥

श्लोक 80

द्रोणे ऽम्भसो व्रणकृतां त्रि-शतानि पक्त्वा तिक्ता-निशा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः तिक्ता-निशा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः तिक्ता-विषा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः तिक्ता-विषा-द्वय-वरा-गिरिजात-तार्क्ष्यैः सहामलक-शुक्तिभिर् दधि-सरेण तैलेन वा ॥ ८०अ ॥
गुडेन पयसा घृतेन यव-सक्तुभिर् वा सह ॥ ८०ब् ॥
तिलेन सह माक्षिकेण पललेन सूपेन वा ॥ ८०च् ॥
वपुष्-करम् अरुष्करं परम-मेध्यम् आयुष्-करम् ॥ ८०द् ॥

श्लोक 81

भल्लातकानि तीक्ष्णानि पाकीन्य् अग्नि-समानि च ।
भवन्त्य् अमृत-कल्पानि प्रयुक्तानि यथा-विधि ॥ ८१ ॥

श्लोक 82

कल्पितानि यथा-विधि कफ-जो न स रोगो ऽस्ति न विबन्धो ऽस्ति कश्-च-न ।
यं न भल्लातकं हन्याच् छीघ्रम् अग्नि-बल-प्रदम् ॥ ८२ ॥

श्लोक 83

छीघ्रं वह्नि-बल-प्रदम् वातातप-विधाने ऽपि विशेषेण विवर्जयेत् ।
कुलत्थ-दधि-शुक्तानि तैलाभ्यङ्गाग्नि-सेवनम् ॥ ८३ ॥

श्लोक 84

वृक्षास् तुबरका नाम पश्चिमार्णव-तीर-जाः ।
वीची-तरङ्ग-विक्षोभ-मारुतोद्धूत-पल्लवाः ॥ ८४ ॥

श्लोक 85

तेभ्यः फलान्य् आददीत सु-पक्वान्य् अम्बु-दागमे ।
मज्ज्ञः फलेभ्यश् चादाय शोषयित्वावचूर्ण्य च ॥ ८५ ॥

श्लोक 86

मज्जां फलेभ्यश् चादाय मज्जाः फलेभ्यश् चादाय शोषयित्वा विचूर्ण्य च तिल-वत् पीडयेद् द्रोण्यां क्वाथयेद् वा कुसुम्भ-वत् ।
तत्-तैलं संभृतं भूयः पचेद् आ-सलिल-क्षयात् ॥ ८६ ॥

श्लोक 87

तत्-तैलं स-घृतं भूयः तत्-तैलं संसृतं भूयः तत्-तैलं संहृतं भूयः अवतार्य करीषे च पक्ष-मात्रं निधापयेत् ।
स्निग्ध-स्विन्नो हृत-मलः पक्षाद् उद्धृत्य तत् ततः ॥ ८७ ॥

श्लोक 88

पक्षाद् उद्धृत्य यत्न-वान् चतुर्थ-भक्तान्तरितः प्रातः पाणि-तलं पिबेत् ।
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥ ८८ ॥

श्लोक 89

मज्ज-सार महा-वीर्य सर्वान् धातून् विशोधय ।
शङ्ख-चक्र-गदा-पाणिस् त्वाम् आज्ञापयते ऽ-च्युतः ॥ ८९ ॥

श्लोक 90

मज्जा-सार महा-वीर्य त्वाम् आज्ञापयते ऽ-च्युत तेनास्योर्ध्वम् अधस्-ताच् च दोषा यान्त्य् अ-सकृत् ततः ।
सायम् अ-स्नेह-लवणां यवागूं शीतलां पिबेत् ॥ ९० ॥

श्लोक 91

दोषा यान्त्य् अ-सकृत्-सकृत् पञ्चाहानि पिबेत् तैलम् इत्थं वर्ज्यान् विवर्जयन् ।
पक्षं मुद्ग-रसान्नाशी सर्व-कुष्ठैर् विमुच्यते ॥ ९१ ॥

श्लोक 92

इत्थं वर्ज्यानि वर्जयेत् तद् एव खदिर-क्वाथे त्रि-गुणे साधु साधितम् ।
निहितं पूर्व-वत् पक्षं पिबेन् मासं सु-यन्त्रितः ॥ ९२ ॥

श्लोक 93

तेनाभ्यक्त-शरीरश् च कुर्वन्न् आहारम् ईरितम् ।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ ९३ ॥

श्लोक

भिन्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमि-भक्षितम् ॥ ९३.१+(१)अब् ॥

श्लोक 94

भग्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमिभिश् चितम् सर्पिर्-मधु-युतं पीतं तद् एव खदिराद् विना ।
पक्षं मांस-रसाहारं करोति द्वि-शतायुषम् ॥ ९४ ॥

श्लोक 95

पक्व-मांस-रसाहारं पक्वं मांस-रसाहारं तद् एव नस्ये पञ्चाशद् दिवसान् उपयोजितम् ।
वपुष्-मतं श्रुत-धरं करोति त्रि-शतायुषम् ॥ ९५ ॥

श्लोक

वपुष्-मतं श्रुति-धरं वली-पलित-निर्मुक्तं स्थिर-स्मृति-कच-द्वि-जम् ॥ ९५.१+(१)अब् ॥

श्लोक 96

पञ्चाष्टौ सप्त दश वा पिप्पलीर् मधु-सर्पिषा ।
रसायन-गुणान्वेषी समाम् एकां प्रयोजयेत् ॥ ९६ ॥

श्लोक 97

मासम् एकं प्रयोजयेत् तिस्रस् तिस्रस् तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुक-क्षार-भाविता घृत-भर्जिताः ॥ ९७ ॥

श्लोक 98

भुक्त्वाग्रे भोजनस्य तु प्रयोज्या मधु-संमिश्रा रसायन-गुणैषिणा ।
क्रम-वृद्ध्या दशाहानि दश-पैप्पलिकं दिनम् ॥ ९८ ॥

श्लोक 99

दश-वृद्ध्या दशाहानि दश-पिप्पलिकं दिनम् वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ।
जीर्णौषधश् च भुञ्जीत षष्टिकं क्षीर-सर्पिषा ॥ ९९ ॥

श्लोक 100

पिप्पलीनां सहस्रस्य प्रयोगो ऽयं रसायनम् ।
पिष्टास् ता बलिभिः पेयाः शृता मध्य-बलैर् नरैः ॥ १०० ॥

श्लोक

शीती-कृता हीन-बलैर् वीक्ष्य दोषामयान् प्रति ॥ १००+(१)अब् ॥

श्लोक 101

अव् शीती-कृता क्षीण-बलैर् वीक्ष्य दोषान् प्रयोजयेत् तद्-वच् च च्छाग-दुग्धेन द्वे सहस्रे प्रयोजयेत् ।
एभिः प्रयोगैः पिप्पल्यः कास-श्वास-गल-ग्रहान् ॥ १०१ ॥

श्लोक 102

यक्ष्म-मेह-ग्रहण्य्-अर्शः-पाण्डु-त्व-विषम-ज्वरान् ।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वात-शोणितम् ॥ १०२ ॥

श्लोक 103

बिल्वार्ध-मात्रेण च पिप्पलीनां पात्रं प्रलिम्पेद् अयसो निशायाम् ।
प्रातः पिबेत् तत् सलिलाञ्जलिभ्यां वर्षं यथेष्टाशन-पान-चेष्टः ॥ १०३ ॥

श्लोक 104

शुण्ठी-विडङ्ग-त्रि-फला-गुडूची- यष्टी-हरिद्रातिबला-बलाश् च ।
मुस्ता-सुराह्वागुरु-चित्रकाश् च सौगन्धिकं पङ्क-जम् उत्पलानि ॥ १०४ ॥

श्लोक 105

मुस्ता-शताह्वागुरु-चित्रकाश् च धवाश्वकर्णासन-बालपत्त्र-सारास् तथा पिप्पलि-वत् प्रयोज्याः ।
लोहोपलिप्ताः पृथग् एव जीवेत् समाः शतं व्याधि-जरा-विमुक्तः ॥ १०५ ॥

श्लोक 106

सारास् तथा पिप्पलि-वत् प्रयुञ्ज्याः लोह-प्रलेपात् पृथग् एव जीवेत् लोहोपलेपात् पृथग् एव जीवेत् क्षीराञ्जलिभ्यां च रसायनानि युक्तान्य् अमून्य् आयस-लेपनानि ।
कुर्वन्ति पूर्वोक्त-गुण-प्रकर्षम् आयुः-प्रकर्षं द्वि-गुणं ततश् च ॥ १०६ ॥

श्लोक 107

असन-खदिर-यूषैर् भावितां सोमराजीं मधु-घृत-शिखि-पथ्या-लोह-चूर्णैर् उपेताम् ।
शरदम् अवलिहानः पारिणामान् विकारांस् त्यजति मित-हिताशी तद्-वद् आहार-जातान् ॥ १०७ ॥

श्लोक 108

मधु-घृत-गद-पथ्या-लोह-चूर्णैर् उपेताम् तीव्रेण कुष्ठेन परीत-मूर्तिर् यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्ण-तिल-द्वितीयां स सोमराजीं वपुषातिशेते ॥ १०८ ॥

श्लोक 109

ये सोमराज्या वि-तुषी-कृतायाश् चूर्णैर् उपेतात् पयसः सु-जातात् ।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तद् एवानुपिबन्ति चान्ते ॥ १०९ ॥

श्लोक 110

कुष्ठिनः शीर्यमाणाङ्गास् ते जाताङ्गुलि-नासिकाः ।
भान्ति वृक्षा इव पुनः प्ररूढ-नव-पल्लवाः ॥ ११० ॥

श्लोक

कुष्ठिनः कुथ्यमानाङ्गास् शीत-वात-हिम-दग्ध-तनूनां स्तब्ध-भग्न-कुटिल-व्यथितास्थ्नाम् ।
भेषजस्य पवनोपहतानां वक्ष्यते विधिर् अतो लशुनस्य ॥ ११०+(१)  ॥

श्लोक 111

अव् शीत-वात-परिदग्ध-तनूनां ब्व् स्तब्ध-भुग्न-कुटिल-व्यथितास्थ्नाम् च्व् भेषजं च पवनोपहतानां राहोर् अमृत-चौर्येण लूनाद् ये पतिता गलात् ।
अमृतस्य कणा भूमौ ते लशुन-त्वम् आगताः ॥ १११ ॥

श्लोक 112

राहोर् अच्युत-चक्रेण द्वि-जा नाश्नन्ति तम् अतो दैत्य-देह-समुद्भवम् ।
साक्षाद् अमृत-संभूतेर् ग्रामणीः स रसायनम् ॥ ११२ ॥

श्लोक 113

शीलयेल् लशुनं शीते वसन्ते ऽपि कफोल्बणः ।
घनोदये ऽपि वातार्तः सदा वा ग्रीष्म-लीलया ॥ ११३ ॥

श्लोक 114

वसन्ते च कफोल्बणः स्निग्ध-शुद्ध-तनुः शीत-मधुरोपस्कृताशयः ।
तद्-उत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥ ११४ ॥

श्लोक 115

तस्य कन्दान् वसन्तान्ते हिमवच्-छक-देश-जान् ।
अपनीत-त्वचो रात्रौ तिमयेन् मदिरादिभिः ॥ ११५ ॥

श्लोक 116

अपनीय त्वचो रात्रौ तीमयेन् मदिरादिभिः पेषयेन् मदिरादिभिः तत्-कल्क-स्व-रसं प्रातः शुचि-तान्तव-पीडितम् ।
मदिरायाः सु-रूढायास् त्रि-भागेन समन्वितम् ॥ ११६ ॥

श्लोक 117

मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा ।
तत्-काल एव वा युक्तं युक्तम् आलोच्य मात्रया ॥ ११७ ॥

श्लोक 118

मद्यस्यान्यस्य तैलस्य तैल-सर्पिर्-वसा-मज्ज-क्षीर-मांस-रसैः पृथक् ।
क्वाथेन वा यथा-व्याधि रसं केवलम् एव वा ॥ ११८ ॥

श्लोक 119

क्षीर-सर्पिर्-वसा-मज्ज- धन्व-मांस-रसैः पृथक् धन्व-मांसैः पृथक् पृथक् पिबेद् गण्डूष-मात्रं प्राक् कण्ठ-नाली-विशुद्धये ।
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ॥ ११९ ॥

श्लोक 120

प्रततं स्वेदनं चात्र शीताम्बु-सेकः सहसा वमि-मूर्छाययोर् मुखे ।
शेषं पिबेत् क्लमापाये स्थिर-तां गत ओजसि ॥ १२० ॥

श्लोक 121

विदाह-परिहाराय परं शीतानुलेपनः ।
धारयेत् साम्बु-कणिका मुक्ता-कर्पूर-मालिकाः ॥ १२१ ॥

श्लोक 122

धारयेत् साम्बु-कणिकां मुक्तां कर्पूर-मालिकाम् मुक्ता-कर्पूर-मालिकाम् कुडवो ऽस्य परा मात्रा तद्-अर्धं केवलस्य तु ।
पलं पिष्टस्य तन्-मज्ज्ञः स-भक्तं प्राक् च शीलयेत् ॥ १२२ ॥

श्लोक 123

जीर्ण-शाल्य्-ओदनं जीर्णे शङ्ख-कुन्देन्दु-पाण्डुरम् ।
भुञ्जीत यूषैर् पयसा रसैर् वा धन्व-चारिणाम् ॥ १२३ ॥

श्लोक 124

मद्यम् एकं पिबेत् तत्र तृट्-प्रबन्धे जलान्वितम् ।
अ-मद्य-पस् त्व् आरनालं फलाम्बु परिसिक्थकाम् ॥ १२४ ॥