अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 39

श्लोक 1

दीर्घम् आयुः स्मृतिं मेधाम् आरोग्यं तरुणं वयः ।
प्रभा-वर्ण-स्वरौदार्यं देहेन्द्रिय-बलोदयम् ॥ १ ॥

श्लोक 2

वाक्-सिद्धिं वृष-तां कान्तिम् अवाप्नोति रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ २ ॥

श्लोक 3

लाभोपायो हि सप्तानां पूर्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुत-रक्तस्य विशुद्धस्य च सर्व-था ॥ ३ ॥

श्लोक 4

अ-विशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
वाजी-करो वा मलिने वस्त्रे रङ्ग इवा-फलः ॥ ४ ॥

श्लोक 5

वस्त्रे राग इवा-फलः रसायनानां द्वि-विधं प्रयोगम् ऋषयो विदुः ।
कुटी-प्रावेशिकं मुख्यं वातातपिकम् अन्य-था ॥ ५ ॥

श्लोक 6

पुरे प्राप्योपकरणे हर्म्य-निर्-वात-निर्-भये ।
दिश्य् उदीच्यां शुभे देशे त्रि-गर्भां सूक्ष्म-लोचनाम् ॥ ६ ॥

श्लोक 7

निर्-वाते निर्-भये धर्म्ये निर्-वाते निर्-भये हर्म्ये प्राप्योपकरणे पुरे दिश्य् ऐशान्यां शुभे देशे धूमातप-रजो-व्याल-स्त्री-मूर्खाद्य-विलङ्घिताम् ।
सज्ज-वैद्योपकरणां सु-मृष्टां कारयेत् कुटीम् ॥ ७ ॥

श्लोक 8

अथ पुण्ये ऽह्नि संपूज्य पूज्यांस् तां प्रविशेच् छुचिः ।
तत्र संशोधनैः शुद्धः सुखी जात-बलः पुनः ॥ ८ ॥

श्लोक 9

ब्रह्म-चारी धृति-युतः श्रद्-दधानो जितेन्द्रियः ।
दान-शील-दया-सत्य-व्रत-धर्म-परायणः ॥ ९ ॥

श्लोक 10

देवतानुस्मृतौ युक्तो युक्त-स्वप्न-प्रजागरः ।
प्रियौषधः पेशल-वाग् आरभेत रसायनम् ॥ १० ॥

श्लोक 11

प्रियौषधः पेशल-वाक् प्रारभेत रसायनम् हरीतकीम् आमलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ॥ ११ ॥

श्लोक 12

स्निग्ध-स्विन्नो नरः पूर्वं तेन साधु विरिच्यते ।
ततः शुद्ध-शरीराय कृत-संसर्जनाय च ॥ १२ ॥

श्लोक 13

स्निग्धः स्विन्नो नरः पूर्वं तेन साधु विशुध्यति त्रि-रात्रं पञ्च-रात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्याद् यावकम् आ-शुद्धेः पुराण-शकृतो ऽथ-वा ॥ १३ ॥

श्लोक 14

इत्थं संस्कृत-कोष्ठस्य रसायनम् उपाहरेत् ।
यस्य यद् यौगिकं पश्येत् सर्वम् आलोच्य सात्म्य-वित् ॥ १४ ॥

श्लोक 15

पथ्या-सहस्रं त्रि-गुण-धात्री-फल-समन्वितम् ।
पञ्चानां पञ्च-मूलानां सार्धं पल-शत-द्वयम् ॥ १५ ॥

श्लोक 16

जले दश-गुणे पक्त्वा दश-भाग-स्थिते रसे ।
आपोथ्य कृत्वा व्य्-अस्थीनि विजयामलकान्य् अथ ॥ १६ ॥

श्लोक 17

विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् ।
त्वग्-एला-मुस्त-रजनी-पिप्पल्य्-अगुरु-चन्दनम् ॥ १७ ॥

श्लोक 18

मण्डूकपर्णी-कनक-शङ्खपुष्पी-वचा-प्लवम् ।
यष्ट्य्-आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥ १८ ॥

श्लोक 19

सितोपलार्ध-भारं च पात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत् सर्वं तद् अग्नौ लेह-तां गतम् ॥ १९ ॥

श्लोक 20

अवतीर्णं हिमं युञ्ज्याद् विंशैः क्षौद्र-शतैस् त्रिभिः ।
ततः खजेन मथितं निदध्याद् घृत-भाजने ॥ २० ॥

श्लोक 21

या नोपरुन्ध्याद् आहारम् एकं मात्रास्य सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनम् इष्यते ॥ २१ ॥

श्लोक 22

एका मात्रास्य सा स्मृता वैखानसा बालखिल्यास् तथा चान्ये तपो-धनाः ।
ब्रह्मणा विहितं धन्यम् इदं प्राश्य रसायनम् ॥ २२ ॥

श्लोक 23

वैखानसा बालिखिल्यास् तन्द्रा-श्रम-क्लम-वली-पलितामय-वर्जिताः ।
मेधा-स्मृति-बलोपेता बभूवुर् अ-मितायुषः ॥ २३ ॥

श्लोक 24

अभयामलक-सहस्रं निर्-आमयं पिप्पली-सहस्र-युतम् ।
तरुण-पलाश-क्षार-द्रवी-कृतं स्थापयेद् भाण्डे ॥ २४ ॥

श्लोक 25

उपयुक्ते च क्षारे छाया-संशुष्क-चूर्णितं योज्यम् ।
पादांशेन सितायाश् चतुर्-गुणाभ्यां मधु-घृताभ्याम् ॥ २५ ॥

श्लोक 26

उपयुक्ते च क्वाथे तद् घृत-कुम्भे भूमौ निधाय षण्-मास-संस्थम् उद्धृत्य ।
प्राह्णे प्राश्य यथानलम् उचिताहारो भवेत् सततम् ॥ २६ ॥

श्लोक 27

निखाय षण्-मास-संस्थम् उद्धृत्य प्राह्णे प्राश्य यथा-बलम् इत्य् उपयुञ्ज्या-शेषं वर्ष-शतम् अन्-आमयो जरा-रहितः ।
जीवति बल-पुष्टि-वपुः-स्मृति-मेधाद्य्-अन्वितो विशेषेण ॥ २७ ॥

श्लोक 28

इत्य् उपयोज्या-शेषं नी-रुजार्द्र-पलाशस्य च्छिन्ने शिरसि तत् क्षतम् ।
अन्तर् द्वि-हस्तं गम्भीरं पूर्यम् आमलकैर् नवैः ॥ २८ ॥

श्लोक 29

च्छिन्ने शिरसि तक्षितम् आ-मूलं वेष्टितं दर्भैः पद्मिनी-पङ्क-लेपितम् ।
आदीप्य गो-मयैर् वन्यैर् निर्-वाते स्वेदयेत् ततः ॥ २९ ॥

श्लोक 30

स्विन्नानि तान्य् आमलकानि तृप्त्या खादेन् नरः क्षौद्र-घृतान्वितानि ।
क्षीरं शृतं चानु पिबेत् प्र-कामं तेनैव वर्तेत च मासम् एकम् ॥ ३० ॥

श्लोक 31

वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनापि ।
एका-दशाहे ऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश् च ॥ ३१ ॥

श्लोक 32

स्पृशेन् न शीताम्बु च पाणिनापि अथाल्पकैर् एव दिनैः सु-रूपः स्त्रीष्व् अ-क्षयः कुञ्जर-तुल्य-वीर्यः ।
विशिष्ट-मेधा-बल-बुद्धि-सत्-त्वो भवत्य् असौ वर्ष-सहस्र-जीवी ॥ ३२ ॥

श्लोक 33

दश-मूल-बला-मुस्त-जीवकर्षभकोत्पलम् ।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी ॥ ३३ ॥

श्लोक 34

जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी ।
पुनर्नवर्द्धि-काकोली-काकनासामृता-द्वयम् ॥ ३४ ॥

श्लोक 35

पुनर्नवा-द्वि-काकोली- काकनासामृताह्वयाः विदारी वृष-मूलं च तद् ऐकध्यं पलोन्मितम् ।
जल-द्रोणे पचेत् पञ्च धात्री-फल-शतानि च ॥ ३५ ॥

श्लोक 36

पाद-शेषं रसं तस्माद् व्य्-अस्थीन्य् आमलकानि च ।
गृहीत्वा भर्जयेत् तैल-घृताद् द्वा-दशभिः पलैः ॥ ३६ ॥

श्लोक 37

पाद-शेषे रसे तस्मिन् मत्स्यण्डिका-तुलार्धेन युक्तं तल् लेह-वत् पचेत् ।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश् चतुः-पलम् ॥ ३७ ॥

श्लोक 38

स्नेहार्धं मधुनः शीते पिप्पल्या द्वि-पलं दद्याच् चतुर्-जातं कणार्धितम् ।
अतो ऽवलेहयेन् मात्रां कुटी-स्थः पथ्य-भोजनः ॥ ३८ ॥

श्लोक 39

चतुर्-जातं कणार्धिकम् चतुर्-जातं कणार्धकम् कुटी-स्थं पथ्य-भोजिनम् इत्य् एष च्यवन-प्राशो यं प्राश्य च्यवनो मुनिः ।
जरा-जर्जरितो ऽप्य् आसीन् नारी-नयन-नन्दनः ॥ ३९ ॥

श्लोक 40

कासं श्वासं ज्वरं शोषं हृद्-रोगं वात-शोणितम् ।
मूत्र-शुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ॥ ४० ॥

श्लोक 41

बाल-वृद्ध-क्षत-क्षीण-कृशानाम् अङ्ग-वर्धनः ॥ ४१अब् ॥
मेधां स्मृतिं कान्तिम् अन्-आमय-त्वम् आयुः-प्रकर्षं पवनानुलोम्यम् ॥ ४१च्द् ॥
स्त्रीषु प्रहर्षं बलम् इन्द्रियाणाम् अग्नेश् च कुर्याद् विधिनोपयुक्तः ॥ ४१एf ॥

श्लोक 42

मधुकेन तवक्षीर्या पिप्पल्या सिन्धु-जन्मना ।
पृथग् लोहैः सुवर्णेन वचया मधु-सर्पिषा ॥ ४२ ॥

श्लोक 43

सितया वा समा युक्ता समायुक्ता रसायनम् ।
त्रि-फला सर्व-रोग-घ्नी मेधायुः-स्मृति-बुद्धि-दा ॥ ४३ ॥

श्लोक 44

सितयाथ समायुक्ता रौप्य-युक्ता रसायनी मण्डूकपर्ण्याः स्व-रसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसं गुडूच्यास् सह-मूल-पुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥ ४४ ॥

श्लोक 45

आयुः-प्रदान्य् आमय-नाशनानि बलाग्नि-वर्ण-स्वर-वर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ ४५ ॥

श्लोक 46

मेध्या विशेषेण च शङ्खपुष्पी नलदं कटु-रोहिणी पयस्या मधुकं चन्दन-शारिवोग्रगन्धाः ।
त्रि-फला कटुक-त्रयं हरिद्रे स-पटोलं लवणं च तैः सु-पिष्टैः ॥ ४६ ॥

श्लोक 47

त्रि-गुणेन रसेन शङ्खपुष्प्याः स-पयस्कं घृत-नल्वणं विपक्वम् ।
उपयुज्य भवेज् जडो ऽपि वाङ्मी श्रुत-धारी प्रतिभान-वान् अ-रोगः ॥ ४७ ॥

श्लोक 48

श्रुति-धारी प्रतिभान-वान् अ-रोगः श्रुति-धारी प्रतिभान-वान् अ-रोगी पेष्यैर् मृणाल-बिस-केसर-पत्त्र-बीजैः सिद्धं स-हेम-शकलं पयसा च सर्पिः ।
पञ्चारविन्दम् इति तत् प्रथितं पृथिव्यां प्रभ्रष्ट-पौरुष-बल-प्रतिभैर् निषेव्यम् ॥४८ ॥

श्लोक 49

पञ्चारविन्दम् इति सर्पिर् उदार-वीर्यं यन् नाल-कन्द-दल-केसर-वद् विपक्वं नीलोत्पलस्य तद् अपि प्रथितं द्वितीयम् ।
सर्पिश् चतुष्-कुवलयं स-हिरण्य-पत्त्रं मेध्यं गवाम् अपि भवेत् किम् उ मानुषाणाम् ॥ ४९ ॥

श्लोक 50

ब्राह्मी-वचा-सैन्धव-शङ्खपुष्पी-मत्स्याक्षक-ब्रह्मसुवर्चलैन्द्र्यः ।
वैदेहिका च त्रि-यवाः पृथक् स्युर् यवौ सुवर्णस्य तिलो विषस्य ॥ ५० ॥

श्लोक 51

सर्पिषश् च पलम् एकत एतद् योजयेत् परिणते च घृताढ्यम् ।
भोजनं स-मधु वत्सरम् एवं शीलयन्न् अधिक-धी-स्मृति-मेधः ॥ ५१ ॥

श्लोक 52

शीलयन्न् अधिक-धी-स्मृति-वेषः अतिक्रान्त-जरा-व्याधि-तन्द्रालस्य-श्रम-क्लमः ।
जीवत्य् अब्द-शतं पूर्णं श्री-तेजः-कान्ति-दीप्ति-मान् ॥ ५२ ॥

श्लोक 53

श्री-तेजः-कान्ति-मूर्ति-मान् विशेषतः कुष्ठ-किलास-गुल्म-विष-ज्वरोन्माद-गरोदराणि ।
अथर्व-मन्त्रादि-कृताश् च कृत्याः शाम्यन्त्य् अनेनाति-बलाश् च वाताः ॥ ५३ ॥

श्लोक 54

शरन्-मुखे नागबलां पुष्य-योगे समुद्धरेत् ।
अक्ष-मात्रं ततो मूलाच् चूर्णितात् पयसा पिबेत् ॥ ५४ ॥

श्लोक 55

अक्ष-मात्रं ततो मूलं चूर्णितं पयसा पिबेत् लिह्यान् मधु-घृताभ्यां वा क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एवं वर्ष-प्रयोगेन जीवेद् वर्ष-शतं बली ॥ ५५ ॥

श्लोक 56

फलोन्-मुखो गोक्षुरकः स-मूलश् छाया-विशुष्कः सु-विचूर्णिताङ्गः ।
सु-भावितः स्वेन रसेन तस्मान् मात्रां परां प्रासृतिकीं पिबेद् यः ॥ ५६ ॥

श्लोक 57

मात्रां परं प्रासृतिकीं पिबेद् यः क्षीरेण तेनैव च शालिम् अश्नन् जीर्णे भवेत् स द्वि-तुलोपयोगात् ।
शक्तः सु-रूपः सु-भगः शतायुः कामी ककुद्-मान् इव गो-कुल-स्थः ॥ ५७ ॥

श्लोक 58

वाराही-कन्दम् आर्द्रार्द्रं क्षीरेण क्षीर-पः पिबेत् ।
मासं निर्-अन्नो मासं च क्षीरान्नादो जरां जयेत् ॥ ५८ ॥

श्लोक 59

तत्-कन्द-श्लक्ष्ण-चूर्णं वा स्व-रसेन सु-भावितम् ।
घृत-क्षौद्र-प्लुतं लिह्यात् तत्-पक्वं वा घृतं पिबेत् ॥ ५९ ॥

श्लोक 60

घृत-क्षौद्र-युतं लिह्यात् तद्-वद् विदार्य्-अतिबला-बला-मधुक-वायसीः ।
श्रेयसी-श्रेयसी-युक्ता-पथ्या-धात्री-स्थिरामृताः ॥ ६० ॥

श्लोक 61

जीवन्ती-श्रेयसी-युक्ता- मण्डूकी-शङ्खकुसुमा-वाजिगन्धा-शतावरीः ।
उपयुञ्जीत मेधा-धी-वयः-स्थैर्य-बल-प्रदाः ॥ ६१ ॥

श्लोक 62

उपयुञ्जीत धी-मेधा- उपयुञ्जीत मेधावी वयः-स्थैर्य-बल-प्रदाः यथा-स्वं चित्रकः पुष्पैर् ज्ञेयः पीत-सितासितैः ।
यथोत्तरं स गुण-वान् विधिना च रसायनम् ॥ ६२ ॥

श्लोक 63

छाया-शुष्कं ततो मूलं मासं चूर्णी-कृतं लिहन् ।
सर्पिषा मधु-सर्पिर्भ्यां पिबन् वा पयसा यतिः ॥ ६३ ॥

श्लोक 64

अम्भसा वा हितान्नाशी शतं जीवति नी-रुजः ।
मेधावी बल-वान् कान्तो वपुष्-मान् दीप्त-पावकः ॥ ६४ ॥