श्लोक 1
सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः ।
दोषैर् व्यस्तैः समस्तैश् च युक्ताः कीटाश् चतुर्-विधाः ॥ १ ॥
श्लोक 2
दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः ।
आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान् ॥ २ ॥
श्लोक 3
पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा ।
कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः ॥ ३ ॥
श्लोक 4
स्रावाढ्यः सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः ।
वेगाश् च सर्प-वच् छोफो वर्धिष्णुर् विस्र-रक्त-ता ॥ ४ ॥
श्लोक 5
विवर्ज्यः सांनिपातिकः शिरो-ऽक्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना ।
सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् अ-रोचकः ॥ ५ ॥
श्लोक 6
भ्रमः श्वासो ऽति-वेदनाः वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् ।
ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति ॥ ६ ॥
श्लोक 7
दंशे पश्चाच् च तिष्ठति दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च ।
ते गवादि-शकृत्-कोथाद् दिग्ध-दष्टादि-कोथतः ॥ ७ ॥
श्लोक 8
सर्प-कोथाच् च संभूता मन्द-मध्य-महा-विषाः ।
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः ॥ ८ ॥
श्लोक 9
रूक्ष-कर्बुर-मेचकाः रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः ।
धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः ॥ ९ ॥
श्लोक 10
पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः ।
अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः ॥ १० ॥
श्लोक 11
तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः ।
खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् अ-संविदन् ॥ ११ ॥
श्लोक 12
स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः ।
विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून् ॥ १२ ॥
श्लोक 13
उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः ।
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम् ॥ १३ ॥
श्लोक 14
उच्चिटङ्गस् तु वक्त्रेण सो ऽधमो वृश्चिकात् स्तम्भं करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च ।
उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच् च रात्रिकः ॥ १४ ॥
श्लोक 15
दंशे शीताम्बुनेव च वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः ॥ १५ ॥
श्लोक 16
यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तस्य तस्यौषधैः कुर्याद् विपरीत-गुणैः क्रियाम् ॥ १६ ॥
श्लोक 17
लिङ्गाधिक्यं प्रवर्तयेत् हृत्-पीडोर्ध्वानिल-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् ।
घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे ॥ १७ ॥
श्लोक 18
संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता ।
मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके ॥ १८ ॥
श्लोक 19
रक्तः पीतश् च पैत्तिके छर्द्य्-अ-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः ।
स-शैत्य-मुख-माधुर्यैर् विद्याच् छ्लेष्माधिकं विषम् ॥ १९ ॥
श्लोक 20
पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके ।
स्वेदो नाडी-पुलाकाद्यैर् बृंहणश् च विधिर् हितः ॥ २० ॥
श्लोक 21
पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः ।
लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत् ॥ २१ ॥
श्लोक 22
कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता ।
स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत् ॥ २२ ॥
श्लोक 23
त्रैविध्येन क्रिया हिताः कवोष्णान् प्रविचारयेत् अन्य-त्र मूर्छिताद् दंश-पाकतः कोथतो ऽथ-वा ।
नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम् ॥ २३ ॥
श्लोक 24
विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् ।
विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥ २४ ॥
श्लोक 25
कश्यपः परम् अब्रवीत् साधयेत् सर्प-वद् दष्टान् विषोग्रैः कीट-वृश्चिकैः ।
तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥ २५ ॥
श्लोक 26
याति कीट-विषैः कम्पं न कैलास इवानिलैः ।
क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः ॥ २६ ॥
श्लोक 27
मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् ।
वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली ॥ २७ ॥
श्लोक 28
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ।
दशाङ्गम् अ-गदं पीत्वा सर्व-कीट-विषं जयेत् ॥ २८ ॥
श्लोक 29
सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् ।
विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा ॥ २९ ॥
श्लोक 30
लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा ॥ ३० ॥
श्लोक 31
स-क्षार-लवणेन वा उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः ।
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥ ३१ ॥
श्लोक 32
उपनाहे घृत-भृष्टः उपनाहो घृत-भृष्टः रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः ।
मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम् ॥ ३२ ॥
श्लोक 33
मातुलुङ्गं तु गो-मूत्र- पिष्टः स-सुरसार्जकः लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा ।
पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम् ॥ ३३ ॥
श्लोक 34
पिण्याको गो-मयेन वा पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् ।
बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः ॥ ३४ ॥
श्लोक 35
परमो वृश्चिके ऽ-गदः परमो वृश्चिको ऽ-गदः स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् ।
हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च ॥ ३५ ॥
श्लोक 36
स-सैन्धवोष्ट्र-दंष्ट्रा च मातुलुङ्ग-रसेन वा लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ।
करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च ॥ ३६ ॥
श्लोक 37
शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् ।
यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः ॥ ३७ ॥
श्लोक 38
तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् ।
सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम् ॥ ३८ ॥
श्लोक 39
शलाटु-वृन्तं वार्ताक- सर्व-त्र चोग्रालि-विषे पाययेद् दधि-सर्पिषी ॥ ३९अब् ॥
विध्येत् सिरां विदध्याच् च वमनाञ्जन-नावनम् ॥ ३९च्द् ॥
उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥ ३९एf ॥
श्लोक 40
नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् ।
सैन्धवं च विनिहन्त्य् अ-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु ॥ ४० ॥
श्लोक 41
अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेद् दंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः ॥ ४१ ॥
श्लोक 42
नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन ।
कुर्याद् गुटिकां लेपाद् इयम् अलि-विष-नाशनी श्रेष्ठा ॥ ४२ ॥
श्लोक 43
अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् ।
एषो ऽ-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम् ॥ ४३ ॥
श्लोक 44
शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च ।
एषो ऽ-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन ॥ ४४ ॥
श्लोक 45
शिरीष-बीजं स-करञ्ज-बीजं कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः ।
अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः ॥ ४५ ॥
श्लोक 46
सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः ।
बहूपद्रव-रूपा तु लूतैकैव विषात्मिका ॥ ४६ ॥
श्लोक 47
रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् ।
नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते ॥ ४७ ॥
श्लोक 48
कृच्छ्र-साध्या पृथग्-दोषैर् अ-साध्या निचयेन सा ।
तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान् ॥ ४८ ॥
श्लोक 49
भृशोष्ं रक्त-पीताभः क्लेदी द्राक्षा-फलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः ॥ ४९ ॥
श्लोक 50
भृशोष्ं-रक्त-पीताभः निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः ॥ ५० ॥
श्लोक 51
तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् ।
अ-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः ॥ ५१ ॥
श्लोक 52
श्वास-हिध्मा-शिरो-रुजाः श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः ।
वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता ॥ ५२ ॥
श्लोक 53
श्वेत-पीतासिता-रक्त- पिटिका-श्वयथूद्भवः तृड् आन्ध्यं वक्र-नासिका श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् ।
पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम् ॥ ५३ ॥
श्लोक 54
सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा ।
तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता ॥ ५४ ॥
श्लोक 55
सा त्रि-धा हन्त्य् उपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ।
लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः ॥ ५५ ॥
श्लोक 56
लूता-दंशस् तु सर्वो ऽपि सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः ।
मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः ॥ ५६ ॥
श्लोक 57
सितासितो ऽरुणः पीतः विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः ।
ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः ॥ ५७ ॥
श्लोक 58
क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् ।
श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः ॥ ५८ ॥
श्लोक 59
अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राद् विशेषतः ।
लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः ॥ ५९ ॥
श्लोक 60
अष्टाभिर् उद्वमन्त्य् एता विषं वक्त्रैर् विशेषतः लूता नाभेर् दशन्त्य् ऊर्ध्वम् ऊर्ध्वं वाधश् च कीटकाः ऊर्ध्वं चाधश् च कीटकः अधश् च विष-कीटकाः तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् ।
दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः ॥ ६० ॥
श्लोक 61
सूची-व्यध-वद् आभाति ततो ऽसौ प्रथमे ऽहनि ।
अ-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः ॥ ६१ ॥
श्लोक 62
सूची-विद्ध-वद् आभाति द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः ।
व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः ॥ ६२ ॥
श्लोक 63
द्वितीये ऽत्य्-उन्नतो ऽन्तेषु पिटिकैर् इव चाचितः तृतीये स-ज्वरो रोम-हर्ष-कृद् रक्त-मण्डलः ।
शराव-रूपस् तोदाढ्यो रोम-कूपेषु सास्रवः ॥ ६३ ॥
श्लोक 64
रोम-कूपेषु स-स्रवः महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः ।
विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान् ॥ ६४ ॥
श्लोक 65
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् ।
इति तीक्ष्णं विषं मध्यं हीनं च विभजेद् अतः ॥ ६५ ॥
श्लोक 66
षष्ठे प्राप्नोति मर्माणि एक-विंशति-रात्रेण विषं शाम्यति सर्व-था ।
अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत् ॥ ६६ ॥
श्लोक 67
दंशं शस्त्रेण चोद्धरेत् दहेच् च जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् ।
कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम् ॥ ६७ ॥
श्लोक 68
प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च ।
लेपयेद् दग्धम् अ-गदैर् मधु-सैन्धव-संयुतैः ॥ ६८ ॥
श्लोक 69
न च्छिन्दीत दहेन् न वा सु-शीतैः सेचयेच् चानु कषायैः क्षीरि-वृक्ष-जैः ।
सर्वतो ऽपहरेद् रक्तं शृङ्गाद्यैः सिरयापि वा ॥ ६९ ॥
श्लोक 70
सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः ।
फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः ॥ ७० ॥
श्लोक 71
सेकालेपास् ततः शीता बोधि-श्लेष्मातकाक्षिकैः बोधि-श्लेष्मातकाक्ष-जैः फलिनी-द्वि-निशा-श्रेष्ठा- अ-शेष-लूता-कीटानाम् अ-गदः सार्वकार्मिकः ।
हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः ॥ ७१ ॥
श्लोक 72
स-क्षौद्र-सर्पिः पूर्वस्माद् अधिकश् चम्पकाह्वयः ।
तद्-वद् गो-मय-निष्पीड-शर्करा-घृत-माक्षिकैः ॥ ७२ ॥
श्लोक 73
तद्-वद् गो-मय-निष्पीडा- अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः ।
नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः ॥ ७३ ॥
श्लोक 74
अ-गदो मन्दरो नाम तथान्यो गन्ध-मादनः ।
नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः ॥ ७४ ॥
श्लोक
मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः ।
स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥ ७४+१ ॥
श्लोक 75
विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् ।
यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः ॥ ७५ ॥
श्लोक 76
विष-घ्नैर् बहु-दोषेषु -जालिनी-सिन्धुवारितान् -जालिनी-सिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् ।
शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत् ॥ ७६ ॥
श्लोक 77
फलं चाङ्कोल्ल-मूल-वत् विरेचयेच् च त्रि-फला-नीलिनी-त्रिवृतादिभिः ।
निवृत्ते दाह-शोफादौ कर्णिकां पातयेद् व्रणात् ॥ ७७ ॥
श्लोक 78
फलिनी-त्रिवृतादिभिः कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-विट् ।
त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा ॥ ७८ ॥
श्लोक 79
कुसुम्भ-पुष्प-गो-दन्त- स्वर्णक्षीरी-कपोत-विट् कर्णिका-पातनं परम् मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् ।
तद्-वच् च सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम् ॥ ७९ ॥
श्लोक 80
राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः ।
कर्णिका-पात-समये बृंहयेच् च विषापहैः ॥ ८० ॥
श्लोक 81
किट्टो वा मथितोद्भवः किणो वा मथितोद्भवः बृंहयेत विषापहैः स्नेह-कार्यम् अ-शेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम् ॥ ८१ ॥
श्लोक 82
विषम् आवर्धयेत् तैलम् अग्नेर् इव तृणोलपम् ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि ।
शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम् ॥ ८२ ॥
श्लोक 83
मुस्ता-शमी-चन्दन-तिन्दुकानि रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः ।
वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम् ॥ ८३ ॥
श्लोक 84
वरुणागुरु-बिल्व-पाटला- बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् ।
शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम् ॥ ८४ ॥
श्लोक 85
शुक्ति-शाबरक-पाटलि-भार्गी- सिन्धुवार-करहाट-वराङ्गम् पित्त-कफानिल-लूताः पानाञ्जन-नस्य-लेप-सेकेन ।
अ-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते ॥ ८५ ॥
श्लोक 86
कु-गतीर् इव दारयन्त्य् एते कु-मतीर् इव दारयन्त्य् एते कु-मतीर् इव वारयन्त्य् एते लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच् च रक्तम् ।
कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः ॥ ८६ ॥