श्लोक 1
दर्वी-करा मण्डलिनो राजी-मन्तश् च पन्नगाः ।
त्रि-धा समासतो भौमा भिद्यन्ते ते त्व् अनेक-धा ॥ १ ॥
श्लोक 2
व्यासतो योनि-भेदेन नोच्यन्ते ऽन्-उपयोगिनः ।
विशेषाद् रूक्ष-कटुकम् अम्लोष्णं स्वादु-शीतलम् ॥ २ ॥
श्लोक 3
नोच्यन्ते ऽन्-उपयोगतः विषं दर्वी-करादीनां क्रमाद् वातादि-कोपनम् ।
तारुण्य-मध्य-वृद्ध-त्वे वृष्टि-शीतातपेषु च ॥ ३ ॥
श्लोक 4
विषोल्बणा भवन्त्य् एते व्यन्तरा ऋतु-संधिषु ।
रथाङ्ग-लाङ्गल-च्छत्त्र-स्वस्तिकाङ्कुश-धारिणः ॥ ४ ॥
श्लोक 5
फणिनः शीघ्र-गतयः सर्पा दर्वी-कराः स्मृताः ।
ज्ञेया मण्डलिनो ऽ-भोगा मण्डलैर् विविधैश् चिताः ॥ ५ ॥
श्लोक 6
सर्पा दर्वी-करा मताः प्रांशवो मन्द-गमना राजी-मन्तस् तु राजिभिः ।
स्निग्धा विचित्र-वर्णाभिस् तिर्यग् ऊर्ध्वं च चित्रिताः ॥ ६ ॥
श्लोक 7
राजी-मन्तश् च राजिभिः स्निग्धाभिर् बहु-वर्णाभिस् गोधा-सुतस् तु गौधेरो विषे दर्वी-करैः समः ।
चतुष्-पाद् व्यन्तरान् विद्याद् एतेषाम् एव संकरात् ॥ ७ ॥
श्लोक 8
गोधा-सुतस् तु गौधेयो व्यामिश्र-लक्षणास् ते हि संनिपात-प्रकोपणाः ।
आहारार्थं भयात् पाद-स्पर्शाद् अति-विषात् क्रुधः ॥ ८ ॥
श्लोक 9
पाप-वृत्ति-तया वैराद् देवर्षि-यम-चोदनात् ।
दशन्ति सर्पास् तेषूक्तं विषाधिक्यं यथोत्तरम् ॥ ९ ॥
श्लोक 10
पाप-वृत्त-तया वैराद् देवर्षि-यम-नोदनात् आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद् यथा-यथम् ।
व्यन्तरः पाप-शील-त्वान् मार्गम् आश्रित्य तिष्ठति ॥ १० ॥
श्लोक 11
आविष्टात् कारणं ज्ञात्वा मार्गम् आवृत्य तिष्ठति यत्र लाला-परिक्लेद-मात्रं गात्रे प्रदृश्यते ।
न तु दंष्ट्रा-कृतं दंशं तत् तुण्डाहतम् आदिशेत् ॥ ११ ॥
श्लोक 12
मात्रं गात्रेषु दृश्यते न तु दंष्ट्रा-क्षतं दंशं न तु दंष्ट्रा-क्षतं दंशे तं तुण्डाहतं आदिशेत् एकं दंष्ट्रा-पदं द्वे वा व्यालीढाख्यम् अ-शोणितम् ।
दंष्ट्रा-पदे स-रक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥ १२ ॥
श्लोक 13
व्यालुप्तं त्रीणि तानि च मांस-च्छेदाद् अ-विच्छिन्न-रक्त-वाहीनि दष्टकम् ।
दंष्ट्रा-पदानि चत्वारि तद्-वद् दष्ट-निपीडितम् ॥ १३ ॥
श्लोक 14
निर्-विषं द्वयम् अत्राद्यम् अ-साध्यं पश्चिमं वदेत् ।
विषं नाहेयम् अ-प्राप्य रक्तं दूषयते वपुः ॥ १४ ॥
श्लोक 15
रक्तम् अण्व् अपि तु प्राप्तं वर्धते तैलम् अम्बु-वत् ।
भीरोस् तु सर्प-संस्पर्शाद् भयेन कुपितो ऽनिलः ॥ १५ ॥
श्लोक 16
रक्तम् अण्व् अपि तत् प्राप्तं वर्धते तैल-बिन्दु-वत् कदा-चित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ।
दुर्-गान्ध-कारे विद्धस्य केन-चिद् दष्ट-शङ्कया ॥ १६ ॥
श्लोक 17
दुर्-गे ऽन्धकारे विद्धस्य विषोद्वेगो ज्वरश् छर्दिर् मूर्छा दाहो ऽपि वा भवेत् ।
ग्लानिर् मोहो ऽतिसारो वा तच् छङ्का-विषम् उच्यते ॥ १७ ॥
श्लोक 18
विष-वेगाज् ज्वरश् छर्दिर् विषोद्रेको ज्वरश् छर्दिर् विषोद्वेगाज् ज्वरश् छर्दिर् तुद्यते स-विषो दंशः कण्डू-शोफ-रुजान्वितः ।
दह्यते ग्रथितः किञ्-चिद् विपरीतस् तु निर्-विषः ॥ १८ ॥
श्लोक 19
तुद्यते विष-जो दंशः पूर्वे दर्वी-कृतां वेगे दुष्टं श्यावी-भवत्य् असृक् ।
श्याव-ता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥ १९ ॥
श्लोक 20
दुष्टं श्यावं भवत्य् असृक् श्याव-ता नेत्र-वक्त्रादौ द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् ।
दृग्-रोधो दंश-विक्लेदश् चतुर्थे ष्ठीवनं वमिः ॥ २० ॥
श्लोक 21
तृतीये मूर्ध-गौरवम् दृग्-बाधा दंश-विक्लेदश् चतुर्थे ष्ठेवनं वमिः संधि-विश्लेषणं तन्द्रा पञ्चमे पर्व-भेदनम् ।
दाहो हिध्मा च षष्ठे तु हृत्-पीडा गात्र-गौरवम् ॥ २१ ॥
श्लोक 22
दाहो हिध्मा च षष्ठे च मूर्छा-विपाको ऽतीसारः प्राप्य शुक्रं तु सप्तमे ।
स्कन्ध-पृष्ठ-कटी-भङ्गः सर्व-चेष्टा-निवर्तनम् ॥ २२ ॥
श्लोक 23
प्राप्य शुक्रं च सप्तमे अथ मण्डलि-दष्टस्य दुष्टं पीती-भवत्य् असृक् ।
तेन पीताङ्ग-ता दाहो द्वितीये श्वयथूद्भवः ॥ २३ ॥
श्लोक 24
दुष्टं पीतं भवत्य् असृक् तृतीये दंश-विक्लेदः स्वेदस् तृष्णा च जायते ।
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्व-गात्र-गः ॥ २४ ॥
श्लोक 25
स्वेदस् तृष्णा प्रजायते दष्टस्य राजिलैर् दुष्टं पाण्डु-तां याति शोणितम् ।
पाण्डु-ता तेन गात्राणां द्वितीये गुरु-ताति च ॥ २५ ॥
श्लोक 26
तृतीये दंश-विक्लेदो नासिकाक्षि-मुख-स्रवाः ।
चतुर्थे गरिमा मूर्ध्नो मन्या-स्तम्भश् च पञ्चमे ॥ २६ ॥
श्लोक 27
गात्र-भङ्गो ज्वरः शीतः शेषयोः पूर्व-वद् वदेत् ।
कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥ २७ ॥
श्लोक 28
शेषयोः पूर्व-वद् भवेत् जलाप्लुता रति-क्षीणा भीता नकुल-निर्जिताः ।
शीत-वातातप-व्याधि-क्षुत्-तृष्णा-श्रम-पीडिताः ॥ २८ ॥
श्लोक 29
तूर्णं देशान्तरायाता विमुक्त-विष-कञ्चुकाः ।
कुशौषधि-कण्टक-वद् ये चरन्ति च काननम् ॥ २९ ॥
श्लोक 30
देशं च दिव्याध्युषितं सर्पास् ते ऽल्प-विषा मताः ।
श्मशान-चिति-चैत्यादौ पञ्चमी-पक्ष-संधिषु ॥ ३० ॥
श्लोक 31
देशं च विद्याध्युषितं अष्टमी-नवमी-संध्या-मध्य-रात्रि-दिनेषु च ।
याम्याग्नेय-मघाश्लेषा-विशाखा-पूर्व-नैरृते ॥ ३१ ॥
श्लोक 32
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् ।
दष्ट-मात्रः सितास्याक्षः शीर्यमाण-शिरो-रुहः ॥ ३२ ॥
श्लोक 33
दष्ट-मात्रस् तु ताम्राक्षः स्तब्ध-जिह्वो मुहुर् मूर्छन् शीतोच्छ्वासो न जीवति ।
हिध्मा श्वासो वमिः कासो दष्ट-मात्रस्य देहिनः ॥ ३३ ॥
श्लोक 34
शीतोच्छ्वासी न जीवति जायन्ते युग-पद् यस्य स हृच्-छूली न जीवति ।
फेनं वमति निः-संज्ञः श्याव-पाद-कराननः ॥ ३४ ॥
श्लोक 35
नासावसादो भङ्गो ऽङ्गे विड्-भेदः श्लथ-संधि-ता ।
विष-पीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥ ३५ ॥
श्लोक 36
नासावसादो रुक् वाङ्गे भवन्त्य् एतानि रूपाणि संप्राप्ते जीवित-क्षये ।
न नस्यैश् चेतना तीक्ष्णैर् न क्षतात् क्षत-जागमः ॥ ३६ ॥
श्लोक 37
प्राप्ते जीवित-संक्षये दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् ।
अतो ऽन्य-था तु त्वरया प्रदीप्तागार-वद् भिषक् ॥ ३७ ॥
श्लोक 38
प्रयाति स यमान्तिकम् रक्षन् कण्ठ-गतान् प्राणान् विषम् आशु शमं नयेत् ।
मात्रा-शतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥ ३८ ॥
श्लोक 39
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् ।
एतस्मिन्न् अन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥ ३९ ॥
श्लोक 40
रुधिरादीन् प्रदूषयेत् कुर्यच् छीघ्रं यथा देहे विष-वल्ली न रोहति ।
दष्ट-मात्रो दशेद् आशु तम् एव पवनाशिनम् ॥ ४० ॥
श्लोक 41
तम् एव पवनाशनम् लोष्टं महीं वा दशनैश् छित्त्वा चानु स-संभ्रमम् ।
निष्ठीवेन समालिम्पेद् दंशं कर्ण-मलेन वा ॥ ४१ ॥
श्लोक 42
छित्त्वा चाशु स-संभ्रमम् दंशस्योपरि बध्नीयाद् अरिष्टां चतुर्-अङ्गुले ।
क्षौमादिभिर् वेणिकया सिद्धैर् मन्त्रैश् च मन्त्र-वित् ॥ ४२ ॥
श्लोक 43
अम्बु-वत् सेतु-बन्धेन बन्धेन स्तभ्यते विषम् ।
न वहन्ति सिराश् चास्य विषं बन्धाभिपीडिताः ॥ ४३ ॥
श्लोक 44
न वहन्ति सिरास् तस्य विषं बन्धन-पीडिताः निष्पीड्यानूद्धरेद् दंशं मर्म-संध्य्-अ-गतं तथा ।
न जायते विषाद् वेगो बीज-नाशाद् इवाङ्कुरः ॥ ४४ ॥
श्लोक 45
निष्पीड्य चोद्धरेद् दंशं न जायते विषावेगो दंशं मण्डलिनां मुक्त्वा पित्तल-त्वाद् अथापरम् ।
प्रतप्तैर् हेम-लोहाद्यैर् दहेद् आशूल्मुकेन वा ॥ ४५ ॥
श्लोक 46
करोति भस्म-सात् सद्यो वह्निः किं नाम तु क्षतम् ।
आचूषेत् पूर्ण-वक्त्रो वा मृद्-भस्मा-गद-गो-मयैः ॥ ४६ ॥
श्लोक 47
वह्निः किं नाम न क्षणात् वह्निः किं नाम न क्षणम् प्रच्छायान्तर् अरिष्टायां मांसलं तु विशेषतः ।
अङ्गं सहैव दंशेन लेपयेद् अ-गदैर् मुहुः ॥ ४७ ॥
श्लोक 48
चन्दनोशीर-युक्तेन सलिलेन च सेचयेत् ।
विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया ॥ ४८ ॥
श्लोक 49
रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् ।
दुर्-गन्धं स-विषं रक्तम् अग्नौ चटचटायते ॥ ४९ ॥
श्लोक 50
दुर्-गन्धि स-विषं रक्तम् यथा-दोषं विशुद्धं च पूर्व-वल् लक्षयेद् असृक् ।
सिरास्व् अ-दृश्यमानासु योज्याः शृङ्ग-जलौकसः ॥ ५० ॥
श्लोक 51
शोणितं स्रुत-शेषं च प्रविलीनं विषोष्मणा ।
लेप-सेकैः सु-बहु-शः स्तम्भयेद् भृश-शीतलैः ॥ ५१ ॥
श्लोक 52
अ-स्कन्ने विष-वेगाद् धि मूर्छाय-मद-हृद्-द्रवाः ।
भवन्ति तान् जयेच् छीतैर् वीजेच् चा-रोम-हर्षतः ॥ ५२ ॥
श्लोक 53
वीजयेद् रोम-हर्षतः स्कन्ने तु रुधिरे सद्यो विष-वेगः प्रशाम्यति ।
विषं कर्षति तीक्ष्ण-त्वाद् धृदयं तस्य गुप्तये ॥ ५३ ॥
श्लोक 54
पिबेद् घृतं घृत-क्षौद्रम् अ-गदं वा घृताप्लुतम् ।
हृदयावरणे चास्य श्लेष्मा हृद्य् उपचीयते ॥ ५४ ॥
श्लोक 55
हृदयावरणेनास्य प्रवृत्त-गौरवोत्क्लेश-हृल्-लासं वामयेत् ततः ।
द्रवैः काञ्जिक-कौलत्थ-तैल-मद्यादि-वर्जितैः ॥ ५५ ॥
श्लोक 56
वमनैर् विष-हृद्भिश् च नैवं व्याप्नोति तद् वपुः ।
भुजङ्ग-दोष-प्रकृति-स्थान-वेग-विशेषतः ॥ ५६ ॥
श्लोक 57
सु-सूक्ष्मं सम्यग् आलोच्य विशिष्टां चाचरेत् क्रियाम् ।
सिन्धुवारित-मूलानि श्वेता च गिरिकर्णिका ॥ ५७ ॥
श्लोक 58
विशिष्टां वाचरेत् क्रियाम् पानं दर्वी-करैर् दष्टे नस्यं मधु स-पाकलम् ।
कृष्ण-सर्पेण दष्टस्य लिम्पेद् दंशं हृते ऽसृजि ॥ ५८ ॥
श्लोक 59
नस्यं स-मधु पाकलम् नस्यं स-मधु वालकम् नस्यं मधु स-वालकम् चारटी-नाकुलीभ्यां वा तीक्ष्ण-मूल-विषेण वा ।
पानं च क्षौद्र-मञ्जिष्ठा-गृह-धूम-युतं घृतम् ॥ ५९ ॥
श्लोक 60
पाने च क्षौद्र-मञ्जिष्ठा- तण्डुलीयक-काश्मर्य-किणिही-गिरिकर्णिकाः ।
मातुलुङ्गी सिता शेलुः पान-नस्याञ्जनैर् हितः ॥ ६० ॥
श्लोक 61
मातुलुङ्गैः शिफा शेलुः अ-गदः फणिनां घोरे विषे राजी-मताम् अपि ।
समाः सुगन्धा-मृद्वीका-श्वेताख्या-गजदन्तिकाः ॥ ६१ ॥
श्लोक 62
समाः सुगन्धा मृद्वीका श्वेताख्या गजमृत्तिका श्वेताख्या गजवृत्तिका अर्धांशं सौरसं पत्त्रं कपित्थं बिल्व-दाडिमम् ।
स-क्षौद्रो मण्डलि-विषे विशेषाद् अ-गदो हितः ॥ ६२ ॥
श्लोक 63
पञ्च-वल्क-वरा-यष्टी-नागपुष्पैलवालुकम् ।
जीवकर्षभकौ शीतं सिता पद्मकम् उत्पलम् ॥ ६३ ॥
श्लोक 64
पञ्च-वल्क-बला-यष्टी- पञ्च-वल्क-वचा-यष्टी- जीवकर्षभकोशीरं स-क्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् ।
लेपाच् छ्वयथु-वीसर्प-विस्फोट-ज्वर-दाह-हा ॥ ६४ ॥
श्लोक 65
काश्मर्यं वट-शुङ्गानि जीवकर्षभकौ सिता ।
मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥ ६५ ॥
श्लोक 66
काश्मर्यं वट-शृङ्गानि वंश-त्वग्-बीज-कटुका-पाटली-बीज-नागरम् ।
शिरीष-बीजातिविषे मूलं गावेधुकं वचा ॥ ६६ ॥
श्लोक 67
पाटला-बीज-नागरम् मूलं गावेधुकं वचाम् मूलं श्रीवेष्टकं वचाम् पिष्टो गो-वारिणाष्टाङ्गो हन्ति गोनस-जं विषम् ।
कटुकातिविषा-कुष्ठ-गृह-धूम-हरेणुकाः ॥ ६७ ॥
श्लोक 68
स-क्षौद्र-व्योष-तगरा घ्नन्ति राजी-मतां विषम् ।
निखनेत् काण्ड-चित्राया दंशं याम-द्वयं भुवि ॥ ६८ ॥
श्लोक 69
उद्धृत्य प्रच्छितं सर्पिर्-धान्य-मृद्भ्यां प्रलेपयेत् ।
पिबेत् पुराणं च घृतं वरा-चूर्णावचूर्णितम् ॥ ६९ ॥
श्लोक 70
उद्धृत्य प्रस्थितं सर्पिर्- वरा-चूर्ण-विचूर्णितम् जीर्णे विरिक्तो भुञ्जीत यवान्नं सूप-संस्कृतम् ।
करवीरार्क-कुसुम-मूल-लाङ्गलिका-कणाः ॥ ७० ॥
श्लोक 71
जीर्णे विरिक्ते भुञ्जीत -मूलं लाङ्गलिका कणा कल्कयेद् आरनालेन पाठा-मरिच-संयुताः ।
एष व्यन्तर-दष्टानाम् अ-गदः सार्वकार्मिकः ॥ ७१ ॥
श्लोक 72
शिरीष-पुष्प-स्व-रसे सप्ताह्वं मरिचं सितम् ।
भावितं सर्प-दष्टानां पान-नस्याञ्जने हितम् ॥ ७२ ॥
श्लोक 73
पान-नस्याञ्जनैर् हितम् पाने नस्ये ऽञ्जने हितम् द्वि-पलं नत-कुष्ठाभ्यां घृत-क्षौद्रं चतुः-पलम् ।
अपि तक्षक-दष्टानां पानम् एतत् सुख-प्रदम् ॥ ७३ ॥
श्लोक 74
घृत-क्षौद्र-चतुः-पलम् अपि तार्क्षक-दष्टानां अथ दर्वी-कृतां वेगे पूर्वे विस्राव्य शोणितम् ।
अ-गदं मधु-सर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥ ७४ ॥
श्लोक 75
द्वितीये वमनं कृत्वा तद्-वद् एवा-गदं पिबेत् ।
विषापहे प्रयुञ्जीत तृतीये ऽञ्जन-नावने ॥ ७५ ॥
श्लोक 76
विषापहैः प्रयुञ्जीत पिबेच् चतुर्थे पूर्वोक्तां यवागूं वमने कृते ।
षष्ठ-पञ्चमयोः शीतैर् दिग्धं सिक्तम् अभीक्ष्ण-शः ॥ ७६ ॥
श्लोक 77
पाययेद् वमनं तीक्ष्णं यवागूं च विषापहैः ।
अ-गदं सप्तमे तीक्ष्णं युञ्ज्याद् अञ्जन-नस्ययोः ॥ ७७ ॥
श्लोक 78
कृत्वावगाढं शस्त्रेण मूर्ध्नि काक-पदं ततः ।
मांसं स-रुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥ ७८ ॥
श्लोक 79
तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् ।
अ-तीक्ष्णम् अ-गदं षष्ठे गणं वा पद्मकादिकम् ॥ ७९ ॥
श्लोक 80
तृतीये वामितः पेयां आद्ये ऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः ।
अलाबुना हरेद् रक्तं पूर्व-वच् चा-गदं पिबेत् ॥ ८० ॥
श्लोक 81
षष्ठे ऽञ्जनं तीक्ष्ण-तमम् अवपीडं च योजयेत् ।
अन्-उक्तेषु च वेगेषु क्रियां दर्वी-करोदिताम् ॥ ८१ ॥
श्लोक 82
गर्भिणी-बाल-वृद्धेषु मृदुं विध्येत् सिरां न च ।
त्वङ् मनोह्वा निशे वक्रं रसः शार्दूल-जो नखः ॥ ८२ ॥
श्लोक 83
गुर्विणी-बाल-वृद्धेषु मृदु विध्येत् सिरां न च त्वङ् मनोह्वा निशे वक्त्रं तमालः केसरं शीतं पीतं तण्डुल-वारिणा ।
हन्ति सर्व-विषाण्य् एतद् वज्रं वज्रम् इवासुरान् ॥ ८३ ॥
श्लोक 84
हन्ति सर्व-विषाण्य् एतच् छक्र-वज्रम् इवासुरान् वज्रि-वज्रम् इवासुरान् बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् ।
फल-त्रिकं व्योष-निशा-द्वयं च बस्तस्य मूत्रेण सु-सूक्ष्म-पिष्टम् ॥ ८४ ॥
श्लोक 85
फल-त्रयं व्योष-निशा-द्वयं च भुजङ्ग-लूतोन्दुर-वृश्चिकाद्यैर् विषूचिका-जीर्ण-गर-ज्वरैश् च ।
आर्तान् नरान् भूत-विधर्षितांश् च स्वस्थी-करोत्य् अञ्जन-पान-नस्यैः ॥ ८५ ॥
श्लोक 86
आर्तान् नरान् भूत-विमर्दितांश् च प्रलेपाद्यैश् च निःशेषं दंशाद् अप्य् उद्धरेद् विषम् ।
भूयो वेगाय जायेत शेषं दूषी-विषाय वा ॥ ८६ ॥
श्लोक 87
शेषं दूषी-विषं यथा शेषं दूषी-विषाय च विषापाये ऽनिलं क्रुद्धं स्नेहादिभिर् उपाचरेत् ।
तैल-मद्य-कुलत्थाम्ल-वर्ज्यैः पवन-नाशनैः ॥ ८७ ॥
श्लोक 88
पित्तं पित्त-ज्वर-हरैः कषाय-स्नेह-वस्तिभिः ।
स-माक्षिकेण वर्गेण कफम् आरग्वधादिना ॥ ८८ ॥
श्लोक 89
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु ।
पानं स-मन्त्र-पूताम्बु प्रोक्षणं सान्त्व-हर्षणम् ॥ ८९ ॥
श्लोक 90
सिता वैगन्धको द्राक्षा सर्पाङ्गाभिहते युञ्ज्यात् तथा शङ्का-विषार्दिते ।
कर्केतनं मरकतं वज्रं वारण-मौक्तिकम् ॥ ९० ॥
श्लोक 91
वैडूर्यं गर्दभ-मणिं पिचुकं विष-मूषिकाम् ।
हिमवद्-गिरि-संभूतां सोमराजीं पुनर्नवाम् ॥ ९१ ॥
श्लोक 92
वैडूर्य-गर्दभ-मणिं पिचुकं विष-दूषिकाम् तथा द्रोणां महा-द्रोणां मानसीं सर्प-जं मणिम् ।
विषाणि विष-शान्त्य्-अर्थं वीर्य-वन्ति च धारयेत् ॥ ९२ ॥
श्लोक 93
तथा द्रोणं महा-द्रोणं छत्त्री झर्झर-पाणिश् च चरेद् रात्रौ विशेषतः ।
तच्-छाया-शब्द-वित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥ ९३ ॥
श्लोक
छत्त्री जर्जर-पाणिश् च छत्त्री जर्झर-पाणिश् च छत्त्री झर्जर-पाणिश् च चरेद् रात्रौ च सर्व-दा विद्रवन्ति भुजङ्गमाः वारि-गुञ्जा-फलोशीरं नेत्रयोर् विष-दुष्टयोः ।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥ ९३+१ ॥