अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 29

श्लोक 1

कफ-प्रधानाः कुर्वन्ति मेदो-मांसास्र-गा मलाः ।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर् ग्रथनात् स्मृतः ॥ १ ॥

श्लोक 2

स ग्रन्थिर् ग्रन्थनात् स्मृतः दोषास्र-मांस-मेदो-ऽस्थि-सिरा-व्रण-भवा नव ।
ते तत्र वाताद् आयाम-तोद-भेदान्वितो ऽसितः ॥ २ ॥

श्लोक 3

स्थानात् स्थानान्तर-गतिर् अ-कस्माद् धानि-वृद्धि-मान् ।
मृदुर् वस्तिर् इवानद्धो विभिन्नो ऽच्छं स्रवत्य् असृक् ॥ ३ ॥

श्लोक 4

पित्तात् स-दाहः पीताभो रक्तो वा पच्यते द्रुतम् ।
भिन्नो ऽस्रम् उष्णं स्रवति श्लेष्मणा नी-रुजो घनः ॥ ४ ॥

श्लोक 5

शीतः स-वर्णः कण्डू-मान् पक्वः पूयं स्रवेद् घनम् ।
दोषैर् दुष्टे ऽसृजि ग्रन्थिर् भवेन् मूर्छत्सु जन्तुषु ॥ ५ ॥

श्लोक 6

सिरा-मांसं च संश्रित्य स-स्वापः पित्त-लक्षणः ।
मांसलैर् दूषितं मांसम् आहारैर् ग्रन्थिम् आवहेत् ॥ ६ ॥

श्लोक 7

स्निग्धं महान्तं कठिनं सिरा-नद्धं कफाकृतिम् ।
प्रवृद्धं मेदुरैर् मेदो नीतं मांसे ऽथ-वा त्वचि ॥ ७ ॥

श्लोक 8

वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् ।
श्लेष्म-तुल्याकृतिं देह-क्षय-वृद्धि-क्षयोदयम् ॥ ८ ॥

श्लोक 9

स विभिन्नो घनं मेदस् ताम्रासित-सितं स्रवेत् ।
अस्थि-भङ्गाभिघाताभ्याम् उन्नतावनतं तु यत् ॥ ९ ॥

श्लोक 10

स विभिन्नो घनं मेदः पूयं ताम्रासितं स्रवेत् अस्थि-भग्नाभिघाताभ्याम् सो ऽस्थि-ग्रन्थिः पदातेस् तु सहसाम्भो-ऽवगाहनात् ।
व्यायामाद् वा प्रतान्तस्य सिरा-जालं स-शोणितम् ॥ १० ॥

श्लोक 11

वायुः संपीड्य संकोच्य वक्री-कृत्य विशोष्य च ।
निः-स्फुरं नी-रुजं ग्रन्थिं कुरुते स सिराह्वयः ॥ ११ ॥

श्लोक 12

वायुः प्रपीड्य संकोच्य अ-रूढे रूढ-मात्रे वा व्रणे सर्व-रसाशिनः ।
सार्द्रे वा बन्ध-रहिते गात्रे ऽश्माभिहते ऽथ-वा ॥ १२ ॥

श्लोक 13

वातो ऽस्रम् अ-स्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्यात् स-दाहः कण्डू-मान् व्रण-ग्रन्थिर् अयं स्मृतः ॥ १३ ॥

श्लोक 14

वायुः प्रकुपितः क्षिप्रं प्राप्य मर्माश्रितं व्रणम् साध्या दोषास्र-मेदो-जा न तु स्थूल-खराश् चलाः ।
मर्म-कण्ठोदर-स्थाश् च महत् तु ग्रन्थितो ऽर्बुदम् ॥ १४ ॥

श्लोक 15

न तु स्थूलाः खराश् चलाः महांस् तु ग्रन्थितो ऽर्बुदम् तल्-लक्षणं च मेदो-ऽन्तैः षो-ढा दोषादिभिस् तु तत् ।
प्रायो मेदः-कफाढ्य-त्वात् स्थिर-त्वाच् च न पच्यते ॥ १५ ॥

श्लोक 16

सिरा-स्थं शोणितं दोषः संकोच्यान्तः प्रपीड्य च ।
पाचयेत तद् आनद्धं सास्रावं मांस-पिण्डितम् ॥ १६ ॥

श्लोक 17

संकोच्यानु प्रपीड्य च संकोच्यानु प्रपीड्य वा संकोच्यान्तः प्रपीड्य वा स-स्रावं मांस-पिण्ड-ताम् मांसाङ्कुरैश् चितं याति वृद्धिं चाशु स्रवेत् ततः ।
अजस्रं दुष्ट-रुधिरं भूरि तच् छोणितार्बुदम् ॥ १७ ॥

श्लोक 18

वृद्धं चाशु स्रवेत् ततः तेष्व् असृङ्-मांस-जे वर्ज्ये चत्वार्य् अन्यानि साधयेत् ।
प्रस्थिता वङ्क्षणोर्व्-आदिम् अधः-कायं कफोल्बणाः ॥ १८ ॥

श्लोक 19

दोषा मांसास्र-गाः पादौ कालेनाश्रित्य कुर्वते ।
शनैः शनैर् घनं शोफं श्लीपदं तत् प्रचक्षते ॥ १९ ॥

श्लोक 20

श्लीपदं तत् प्रचक्ष्यते परिपोट-युतं कृष्णम् अ-निमित्त-रुजं खरम् ।
रूक्षं च वातात् पित्तात् तु पीतं दाह-ज्वरान्वितम् ॥ २० ॥

श्लोक 21

रूक्षं च वातात् पित्ताच् च रूक्षं च श्लीपदं वातात् पित्ताद् दाह-ज्वरान्वितम् कफाद् गुरु स्निग्धम् अ-रुक् चितं मांसाङ्कुरैर् बृहत् ।
तत् त्यजेद् वत्सरातीतं सु-महत् सु-परिस्रुति ॥ २१ ॥

श्लोक 22

चितं मांसाङ्कुरैर् महत् पाणि-नासौष्ठ-कर्णेषु वदन्त्य् एके तु पाद-वत् ।
श्लीपदं जायते तच् च देशे ऽनूपे भृशं भृशम् ॥ २२ ॥

श्लोक 23

वदन्त्य् अन्ये तु पाद-वत् मेद-स्थाः कण्ठ-मन्याक्ष-कक्षा-वङ्क्षण-गा मलाः ।
स-वर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥ २३ ॥

श्लोक 24

मेद-स्थाः कण्ठ-मन्याक्षि- अवगाढान् बहून् गण्डांश् चिर-पाकांश् च कुर्वते ।
पच्यन्ते ऽल्प-रुजस् ते ऽन्ये स्रवन्त्य् अन्ये ऽति-कण्डुराः ॥ २४ ॥

श्लोक 25

पच्यन्ते ऽल्प-रुजस् त्व् अन्ये स्रवन्त्य् अन्ये ऽति-कण्डुलाः नश्यन्त्य् अन्ये भवन्त्य् अन्ये दीर्घ-कालानुबन्धिनः ।
गण्ड-मालापची चेयं दूर्वेव क्षय-वृद्धि-भाक् ॥ २५ ॥

श्लोक 26

तां त्यजेत् स-ज्वर-च्छर्दि-पार्श्व-रुक्-कास-पीनसाम् ।
अ-भेदात् पक्व-शोफस्य व्रणे चा-पथ्य-सेविनः ॥ २६ ॥

श्लोक 27

पार्श्व-रुक्-श्वास-पीनसाम् व्रणे वा-पथ्य-सेविनः अनुप्रविश्य मांसादीन् दूरं पूयो ऽभिधावति ।
गतिः सा दूर-गमनान् नाडी नाडीव संस्रुतेः ॥ २७ ॥

श्लोक 28

नाड्य् एकान्-ऋजुर् अन्येषां सैवानेक-गतिर् गतिः ।
सा दोषैः पृथग् एक-स्थैः शल्य-हेतुश् च पञ्चमी ॥ २८ ॥

श्लोक 29

दोषैः पृथक् समस्तैश् च वातात् स-रुक् सूक्ष्म-मुखी वि-वर्णा फेनिलोद्वमा ।
स्रवत्य् अभ्यधिकं रात्रौ पित्तात् तृड्-ज्वर-दाह-कृत् ॥ २९ ॥

श्लोक 30

पीतोष्ण-पूति-पूय-स्रुद् दिवा चाति निषिञ्चति ।
घन-पिच्छिल-संस्रावा कण्डूला कठिना कफात् ॥ ३० ॥

श्लोक 31

पीतोष्ण-पूति-पूयं तु पीतोष्ण-पूति-पूयाश्रु पीतोष्ण-पूति-पूयास्रुर् निशि चाभ्यधिक-क्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥ ३१अब् ॥
सर्वैः सर्वाकृतिस् त्यजेत् अन्तः-स्थितं शल्यम् अन्-आहृतं तु करोति नाडीं वहते च सास्य ॥ ३१च्द् ॥
करोति नाडीं वहते च सास्यात् फेनानुविद्धं तनुम् अल्पम् उष्णं सास्रं च पूयं स-रुजं च नित्यम् ॥ ३१एf ॥                                                                                                   फेनानुविद्धं तनुम् अच्छम् उष्णं