श्लोक 1
पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-अ-संधितः ।
प्रसारणाकुञ्चनयोर् अ-शक्तिः संधि-मुक्त-ता ॥ १ ॥
श्लोक 2
भङ्गो ऽस्थ्नः संध्य्-अ-संधि-गः भङ्गो ऽस्थ्नः संध्य्-अ-संधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा ।
अ-शक्तिश् चेष्टिते ऽल्पे ऽपि पीड्यमाने स-शब्द-ता ॥ २ ॥
श्लोक 3
सर्वावस्थास्व् अति-व्यथः समासाद् इति भङ्गस्य लक्षणं बहु-धा तु तत् ।
भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम् ॥ ३ ॥
श्लोक 4
यथा स्याद् उपयोगाय तथा तद् उपदेक्ष्यते ।
प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत् ॥ ४ ॥
श्लोक 5
प्राज्याणु-दारि यच् चास्थि यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः ।
भग्नं यच् चाभिघातेन किञ्-चिद् एवावशेषितम् ॥ ५ ॥
श्लोक 6
भग्नं यद् अभिघातेन भग्नं यद् वाभिघातेन उन्नम्यमानं क्षत-वद् यच् च मज्जनि मज्जति ।
तद् दुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि ॥ ६ ॥
श्लोक 7
भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् ।
जघनं प्रति पिष्टं च भग्नं यत् तद् विवर्जयेत् ॥ ७ ॥
श्लोक 8
भिन्नं कपालं यत् कट्याः अ-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा ।
यच् च भग्नं भवेच् छङ्ख-शिरः-पृष्ठ-स्तनान्तरे ॥ ८ ॥
श्लोक 9
सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासाद् दुर्-निबन्धनात् ।
संक्षोभाद् अपि यद् गच्छेद् वि-क्रियां तद् विवर्जयेत् ॥ ९ ॥
श्लोक 10
वि-क्रियां तच् च वर्जयेत् आदितो यच् च दुर्-जातम् अस्थि संधिर् अथापि वा ।
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥ १० ॥
श्लोक 11
तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा ।
अथावनतम् उन्नम्यम् उन्नतं चावपीडयेत् ॥ ११ ॥
श्लोक 12
कपालास्थीनि भिद्यन्ते आञ्छेद् अतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् ।
आञ्छनोत्पीडनोन्नाम-चर्म-संक्षेप-बन्धनैः ॥ १२ ॥
श्लोक 13
आञ्छेद् अ-विक्षिप्तम् अधो- संधीञ् छरीर-गान् सर्वांश् चलान् अप्य् अ-चलान् अपि ।
इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम् ॥ १३ ॥
श्लोक 14
सम्यक् संस्थाप्य निश्-चलान् पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः ।
कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः ॥ १४ ॥
श्लोक 15
वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः ।
सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि ॥ १५ ॥
श्लोक 16
सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।
शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते ॥ १६ ॥
श्लोक 17
संधेः स्थैर्यं न जायते गाढेनाति रुजा-दाह-पाक-श्वयथु-संभवः ।
त्र्य्-अहात् त्र्य्-अहाद् ऋतौ घर्मे सप्ताहान् मोक्षयेद् धिमे ॥ १७ ॥
श्लोक 18
गाढेनापि रुजा-दाह- साधारणे तु पञ्चाहाद् भङ्ग-दोष-वशेन वा ।
न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत् ॥ १८ ॥
श्लोक 19
भग्न-दोष-वशेन वा भङ्गे दोष-वशेन वा तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् ।
सुखोष्णं वावचार्यं स्याच् चक्र-तैलं विजानता ॥ १९ ॥
श्लोक 20
पञ्च-मूल-विपक्वेन सुखोष्णम् अवचार्यं स्याच् विभज्य देशं कालं च वात-घ्नौषध-संयुतम् ।
प्रततं सेक-लेपांश् च विदध्याद् भृश-शीतलान् ॥ २० ॥
श्लोक 21
विभज्य देश-कालौ च वात-घ्नौषध-साधितम् गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् ।
प्रातः प्रातः पिबेद् भग्नः शीतलं लाक्षया युतम् ॥ २१ ॥
श्लोक 22
स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः ।
कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥ २२ ॥
श्लोक 23
कषायैः प्रतिसार्यो वा लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा ।
संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत् ॥ २३ ॥
श्लोक 24
तान् समान् सु-स्थिताञ् ज्ञात्वा फलिनी-लोध्र-कट्फलैः ।
समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत् ॥ २४ ॥
श्लोक 25
धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः ।
इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे ॥ २५ ॥
श्लोक 26
मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था ।
पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात् ॥ २६ ॥
श्लोक 27
सु-साधो दारुणो ऽन्य-था मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् ।
कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम् ॥ २७ ॥
श्लोक 28
यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः ।
जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः ॥ २८ ॥
श्लोक 29
श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा ।
विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत् ॥ २९ ॥
श्लोक 30
वक्षस्य् अंशकयोस् तथा वक्त्रस्याक्षकयोस् तथा विधिम् एनं समाचरेत् संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् ।
उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत् ॥ ३० ॥
श्लोक 31
संधींश् चिर-विमुक्तांश् च उक्तैर् विधानैर् युक्त्या च उक्तैर् विधानैर् युक्त्या वा अ-संधि-भग्ने रूढे तु विषमोल्बण-साधिते ।
आपोथ्य भङ्गं यमयेत् ततो भग्न-वद् आचरेत् ॥ ३१ ॥
श्लोक 32
अ-संधि-भग्ने रूढे च विषमोल्बण-साधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति ॥ ३२ ॥
श्लोक 33
भङ्गो नैति यथा पाकं वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।
चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत् ॥ ३३ ॥
श्लोक 34
शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् अ-विदाहिभिः ।
मात्रयोपचरेद् भग्नं संधि-संश्लेष-कारिभिः ॥ ३४ ॥
श्लोक 35
ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृद् धि सा ॥ ३५अब् ॥
लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥ ३५च्द् ॥
व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥ ३५एf ॥
श्लोक 36
कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् ।
संशोषयेद् अनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये ॥ ३६ ॥
श्लोक 37
संशोषयेद् अनु-दिनं प्रतिसार्य चैतान् संशोषयेद् अनु-दिनं प्रविभाव्य चैतान् पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वद् एव शोषितान् बाढम् ।
विगत-तुषान् अ-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात् ॥ ३७ ॥
श्लोक 38
संचूर्ण्य विचूर्णितैर् युञ्ज्यात् नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः ।
अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः ॥ ३८ ॥
श्लोक 39
पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् ।
समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन पीडयेत् ॥ ३९ ॥
श्लोक 40
तिल-पिष्टं ततश् च तम् शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः ।
स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च ॥ ४० ॥
श्लोक 41
त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् स-क्षीर-युक्तैस् पयसा स-दूर्वैस् स-क्षीर-युक्तैस् स-पयः स-दूर्वैस् गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् ।
वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः ॥ ४१ ॥
वात-पित्त-जनितान् अति-वीर्यं वात-पित्त-जनितान् अति-वीर्य- व्यापिनो ऽपि विविधैर् उपयोगैः