अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 18

श्लोक 1

कर्ण-शूले पवन-जे पिबेद् रात्रौ रसाशितः ।
वात-घ्न-साधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥ १ ॥

श्लोक 2

पत्त्राणां पृथग् अश्वत्थ-बिल्वार्कैरण्ड-जन्मनाम् ।
तैल-सिन्धूत्थ-दिग्धानां स्विन्नानां पुट-पाकतः ॥ २ ॥

श्लोक 3

रसैः कवोष्णैस् तद्-वच् च मूलकस्यारलोर् अपि ।
गणे वात-हरे ऽम्लेषु मूत्रेषु च विपाचितः ॥ ३ ॥

श्लोक 4

महा-स्नेहो द्रुतं हन्ति सु-तीव्राम् अपि वेदनाम् ।
महतः पञ्च-मूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥ ४ ॥

श्लोक 5

तैल-सिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः ।
योज्यश् चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच् च सारलात् ॥ ५ ॥

श्लोक 6

स्नेहः सद्यो रुजा-हरः वात-व्याधि-प्रतिश्याय-विहितं हितम् अत्र च ।
वर्जयेच् छिरसा स्नानं शीताम्भः-पानम् अह्न्य् अपि ॥ ६ ॥

श्लोक 7

वर्जयेच् छिरसः स्नानं पित्त-शूले सिता-युक्त-घृत-स्निग्धं विरेचयेत् ।
द्राक्षा-यष्टी-शृतं स्तन्यं शस्यते कर्ण-पूरणम् ॥ ७ ॥

श्लोक 8

यष्ट्य्-अनन्ता-हिमोशीर-काकोली-लोध्र-जीवकैः ।
मृणाल-बिस-मञ्जिष्ठा-शारिवाभिश् च साधयेत् ॥ ८ ॥

श्लोक 9

यष्टीमधु-रस-प्रस्थ-क्षीर-द्वि-प्रस्थ-संयुतम् ।
तैलस्य कुडवं नस्य-पूरणाभ्यञ्जनैर् इदम् ॥ ९ ॥

श्लोक 10

निहन्ति शूल-दाहोषाः केवलं क्षौद्रम् एव वा ।
यष्ट्य्-आदिभिश् च स-घृतैः कर्णौ दिह्यात् समन्ततः ॥ १० ॥

श्लोक 11

वामयेत् पिप्पली-सिद्ध-सर्पिः-स्निग्धं कफोद्भवे ।
धूम-नावन-गण्डूष-स्वेदान् कुर्यात् कफापहान् ॥ ११ ॥

श्लोक 12

लशुनार्द्रक-शिग्रूणां मुरङ्ग्या मूलकस्य च ।
कदल्याः स्व-रसः श्रेष्ठः कद्-उष्णः कर्ण-पूरणे ॥ १२ ॥

श्लोक 13

सुरङ्ग्या मूलकस्य च भृङ्गस्य मूलकस्य च अर्काङ्कुरान् अम्ल-पिष्टांस् तैलाक्ताō̃ लवणान्वितान् ।
संनिधाय स्नुही-काण्डे कोरिते तच्-छदावृतान् ॥ १३ ॥

श्लोक 14

कोरिते तच् छदावृते स्वेदयेत् पुट-पाकेन स रसः शूल-जित् परम् ।
रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥ १४ ॥

श्लोक 15

शुक्तेन पूरयित्वा वा फेनेनान्व् अवचूर्णयेत् ।
अजावि-मूत्र-वंश-त्वक्-सिद्धं तैलं च पूरणम् ॥ १५ ॥

श्लोक 16

सिद्ध-तैलेन पूरयेत् सिद्धं वा सार्षपं तैलं हिङ्गु-तुम्बुरु-नागरैः ।
रक्त-जे पित्त-वत् कार्यं सिरां चाशु विमोक्षयेत् ॥ १६ ॥

श्लोक 17

पक्वे पूय-वहे कर्णे धूम-गण्डूष-नावनम् ।
युञ्ज्यान् नाडी-विधानं च दुष्ट-व्रण-हरं च यत् ॥ १७ ॥

श्लोक 18

स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचु-वर्तिभिः ।
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥ १८ ॥

श्लोक 19

सुरसादि-गण-क्वाथ-फाणिताक्तां च योजयेत् ।
पिचु-वर्तिं सु-सूक्ष्मैश् च तच्-चूर्णैर् अवचूर्णयेत् ॥ १९ ॥

श्लोक 20

फाणिताक्तां च शीलयेत् -फाणिताक्तां प्रयोजयेत् -फाणिताक्तां नियोजयेत् शूल-क्लेद-गुरु-त्वानां विधिर् एष निवर्तकः ।
प्रियङ्गु-मधुकाम्बष्ठा-धातक्य्-उत्पल-पर्णिभिः ॥ २० ॥

श्लोक 21

मञ्जिष्ठा-लोध्र-लाक्षाभिः कपित्थस्य रसेन च ।
पचेत् तैलं तद् आस्रावं निगृह्णात्य् आशु पूरणात् ॥ २१ ॥

श्लोक 22

नाद-बाधिर्ययोः कुर्याद् वात-शूलोक्तम् औषधम् ।
श्लेष्मानुबन्धे श्लेष्माणम् प्राग् जयेद् वमनादिभिः ॥ २२ ॥

श्लोक 23

एरण्ड-शिग्रु-वरुण-मूलकात् पत्त्र-जे रसे ।
चतुर्-गुणे पचेत् तैलं क्षीरे चाष्ट-गुणोन्मिते ॥ २३ ॥

श्लोक 24

एरण्ड-शिग्रु-तरुण- यष्ट्य्-आह्वा-क्षीर-काकोली-कल्क-युक्तं निहन्ति तत् ।
नाद-बाधिर्य-शूलानि नावनाभ्यङ्ग-पूरणैः ॥ २४ ॥

श्लोक 25

कल्क-युक्तं हिनस्ति तत् पक्वं प्रतिविषा-हिङ्गु-मिशि-त्वक्-स्वर्जिकोषणैः ।
स-शुक्तैः पूरणात् तैलं रुक्-स्रावा-श्रुति-नाद-नुत् ॥ २५ ॥

श्लोक 26

रुक्-स्राव-श्रुति-नाद-नुत् कर्ण-नादे हितं तैलं सर्षपोत्थं च पूरणे ।
शुष्क-मूलक-खण्डानां क्षारो हिङ्गु महौषधम् ॥ २६ ॥

श्लोक 27

शतपुष्पा-वचा-कुष्ठ-दारु-शिग्रु-रसाञ्जनम् ।
सौवर्चल-यव-क्षार-स्वर्जिकौद्भिद-सैन्धवम् ॥ २७ ॥

श्लोक 28

भूर्ज-ग्रन्थि-विडं मुस्ता मधु-शुक्तं चतुर्-गुणम् ।
मातुलुङ्ग-रसस् तद्-वत् कदली-स्व-रसश् च तैः ॥ २८ ॥

श्लोक 29

पक्वं तैलं जयत्य् आशु सु-कृच्छ्रान् अपि पूरणात् ।
कण्डूं क्लेदं च बाधिर्य-पूति-कर्ण-त्व-रुक्-कृमीन् ॥ २९ ॥

श्लोक 30

कण्डू-क्ष्वेडन-बाधिर्य- कण्डू-ज्वलन-बाधिर्य- क्षार-तैलम् इदं श्रेष्ठं मुख-दन्तामयेषु च ।
अथ सुप्ताव् इव स्यातां कर्णौ रक्तं हरेत् ततः ॥ ३० ॥

श्लोक 31

कर्णौ रक्तं हरेत् तयोः स-शोफ-क्लेदयोर् मन्द-श्रुतेर् वमनम् आचरेत् ।
बाधिर्यं वर्जयेद् बाल-वृद्धयोश् चिर-जं च यत् ॥ ३१ ॥

श्लोक 32

प्रतीनाहे परिक्लेद्य स्नेह-स्वेदैर् विशोधयेत् ।
कर्ण-शोधनकेनानु कर्णं तैलस्य पूरयेत् ॥ ३२ ॥

श्लोक 33

कर्णं तैलेन पूरयेत् स-शुक्त-सैन्धव-मधोर् मातुलुङ्ग-रसस्य वा ।
शोधनाद् रूक्ष-तोत्पत्तौ घृत-मण्डस्य पूरणम् ॥ ३३ ॥

श्लोक 34

स-शुक्त-सैन्धवेनाशु मातुलुङ्ग-रसेन वा घृत-मण्डेन पूरणम् क्रमो ऽयं मल-पूर्णे ऽपि कर्णे कण्ड्वां कफापहम् ।
नस्यादि तद्-वच् छोफे ऽपि कटूष्णैश् चात्र लेपनम् ॥ ३४ ॥

श्लोक 35

कटूष्णैश् चानु लेपनम् कर्ण-स्रावोदितं कुर्यात् पूति-कृमिण-कर्णयोः ।
पूरणं कटु-तैलेन विशेषात् कृमि-कर्णके ॥ ३५ ॥

श्लोक 36

पूति-कृमिल-कर्णयोः पूति-कृमिक-कर्णयोः वमि-पूर्वा हिता कर्ण-विद्रधौ विद्रधि-क्रिया ।
पित्तोत्थ-कर्ण-शूलोक्तं कर्तव्यं क्षत-विद्रधौ ॥ ३६ ॥

श्लोक 37

वमिः पूर्वं हिता कर्ण- अर्शो-ऽर्बुदेषु नासा-वद् आमा कर्ण-विदारिका ।
कर्ण-विद्रधि-वत् साध्या यथा-दोषोदयेन च ॥ ३७ ॥

श्लोक 38

पाली-शोषे ऽनिल-श्रोत्र-शूल-वन् नस्य-लेपनम् ।
स्वेदं च कुर्यात् स्विन्नां च पालीम् उद्वर्तयेत् तिलैः ॥ ३८ ॥

श्लोक 39

प्रियाल-बीज-यष्ट्य्-आह्व-हयगन्धा-यवान्वितैः ।
ततः पुष्टि-करैः स्नेहैर् अभ्यङ्गं नित्यम् आचरेत् ॥ ३९ ॥

श्लोक 40

शतावरी-वाजिगन्धा-पयस्यैरण्ड-जीवकैः ।
तैलं विपक्वं स-क्षीरं पालीनां पुष्टि-कृत् परम् ॥ ४० ॥

श्लोक 41

कल्केन जीवनीयेन तैलं पयसि पाचितम् ।
आनूप-मांस-क्वाथे च पाली-पोषण-वर्धनम् ॥ ४१ ॥

श्लोक 42

आनूप-मांस-क्वाथेन पालीं छित्त्वाति-संक्षीणां शेषां संधाय पोषयेत् ।
याप्यैवं तन्त्रिकाख्यापि परिपोटे ऽप्य् अयं विधिः ॥ ४२ ॥

श्लोक 43

उत्पाते शीतलैर् लेपो जलौको-हृत-शोणिते ।
जम्ब्व्-आम्र-पल्लव-बला-यष्टी-लोध्र-तिलोत्पलैः ॥ ४३ ॥

श्लोक 44

स-धान्याम्लैः स-मञ्जिष्ठैः स-कदम्बैः स-शारिवैः ।
सिद्धम् अभ्यञ्जने तैलं विसर्पोक्त-घृतानि च ॥ ४४ ॥

श्लोक 45

सिद्धम् अभ्यञ्जनं तैलं उन्मन्थे ऽभ्यञ्जनं तैलं गोधा-कर्क-वसान्वितम् ।
तालपत्त्र्य्-अश्वगन्धार्क-वाकुची-फल-सैन्धवैः ॥ ४५ ॥

श्लोक 46

गोधा-कर्कि-वसान्वितम् -वाकुची-तिल-सैन्धवैः सुरसा-लाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् ।
दुर्-विद्धे ऽश्मन्त-जम्ब्व्-आम्र-पत्त्र-क्वाथेन सेचिताम् ॥ ४६ ॥

श्लोक 47

सिद्धं तीक्ष्णं तु नावनम् तैलेन पालीं स्व्-अभ्यक्तां सु-श्लक्ष्णैर् अवचूर्णयेत् ।
चूर्णैर् मधुक-मञ्जिष्ठा-प्रपुण्ड्राह्व-निशोद्भवैः ॥ ४७ ॥

श्लोक 48

प्रपौण्ड्राह्व-निशोद्भवैः पौण्डरीक-निशोद्भवैः लाक्षा-विडङ्ग-सिद्धं च तैलम् अभ्यञ्जने हितम् ।
स्विन्नां गो-मय-जैः पिण्डैर् बहु-शः परिलेहिकाम् ॥ ४८ ॥

श्लोक 49

विडङ्ग-सारैर् आलिम्पेद् उरभ्री-मूत्र-कल्कितैः ।
कौटजेङ्गुद-कारञ्ज-बीज-शम्याक-वल्कलैः ॥ ४९ ॥

श्लोक 50

अथ-वाभ्यञ्जनं तैर् वा कटु-तैलं विपाचयेत् ।
स-निम्ब-पत्त्र-मरिच-मदनैर् लेहिका-व्रणे ॥ ५० ॥

श्लोक 51

छिन्नं तु कर्णं शुद्धस्य बन्धम् आलोच्य यौगिकम् ।
शुद्धास्रं लागयेल् लग्ने सद्यश्-छिन्ने विशोधनम् ॥ ५१ ॥

श्लोक 52

सम्यक्-छिन्ने विशोधनम् अथ ग्रथित्वा केशान्तं कृत्वा छेदन-लेखनम् ।
निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥ ५२ ॥

श्लोक 53

अभ्यज्य मधु-सर्पिर्भ्यां पिचु-प्लोतावगुण्ठितम् ।
सूत्रेणा-गाढ-शिथिलं बद्ध्वा चूर्णैर् अवाकिरेत् ॥ ५३ ॥

श्लोक 54

शोणित-स्थापनैर् व्रण्यम् आचारं चादिशेत् ततः ।
सप्ताहाद् आम-तैलाक्तं शनैर् अपनयेत् पिचुम् ॥ ५४ ॥

श्लोक 55

शोणितास्थापनैर् व्रण्यम् सु-रूढं जात-रोमाणं श्लिष्ट-संधिं समं स्थिरम् ।
सु-वर्ष्माणम् अ-रोगं च शनैः कर्णं विवर्धयेत् ॥ ५५ ॥

श्लोक 56

सु-वर्ष्माणं सु-रोमं च जल-शूकः स्वयङ्गुप्ता रजन्यौ बृहती-फलम् ।
अश्वगन्धा-बला-हस्ति-पिप्पली-गौर-सर्षपाः ॥ ५६ ॥

श्लोक 57

मूलं कोशातकाश्वघ्न-रूपिका-सप्तपर्ण-जम् ।
छुच्छुन्दरी काल-मृता गृहं मधु-करी-कृतम् ॥ ५७ ॥

श्लोक 58

जतूका जल-जन्मा च तथा शबरकन्दकम् ।
एभिः कल्कैः खरं पक्वं स-तैलं माहिषं घृतम् ॥ ५८ ॥

श्लोक 59

तथा शबरकन्दकः हस्त्य्-अश्व-मूत्रेण परम् अभ्यङ्गात् कर्ण-वर्धनम् ।
अथ कुर्याद् वयः-स्थस्य च्छिन्नां शुद्धस्य नासिकाम् ॥ ५९ ॥

श्लोक 60

छिन्द्यान् नासा-समं पत्त्रं तत्-तुल्यं च कपोलतः ।
त्वङ्-मांसं नासिकासन्ने रक्षंस् तत् तनु-तां नयेत् ॥ ६० ॥

श्लोक 61

सीव्येद् गण्डं ततः सूच्या सेविन्या पिचु-युक्तया ।
नासा-च्छेदे ऽथ लिखिते परिवर्त्योपरि त्वचम् ॥ ६१ ॥

श्लोक 62

नासा-च्छेदे सु-लिखिते कपोल-वध्रं संदध्यात् सीव्येन् नासां च यत्नतः ।
नाडीभ्याम् उत्क्षिपेद् अन्तः सुखोच्छ्वास-प्रवृत्तये ॥ ६२ ॥

श्लोक 63

कपोल-बन्धं संदध्यात् कपोल-वध्रीं संदध्यात् आम-तैलेन सिक्त्वानु पत्तङ्ग-मधुकाञ्जनैः ।
शोणित-स्थापनैश् चान्यैः सु-श्लक्ष्णैर् अवचूर्णयेत् ॥ ६३ ॥

श्लोक 64

पतङ्ग-मधुकाञ्जनैः शोणितास्थापनैश् चान्यैः ततो मधु-घृताभ्यक्तं बद्ध्वाचारिकम् आदिशेत् ।
ज्ञात्वावस्थान्तरं कुर्यात् सद्यो-व्रण-विधिं ततः ॥ ६४ ॥

श्लोक 65

बद्ध्वाचारम् अथादिशेत् छिन्द्याद् रूढे ऽधिकं मांसं नासोपान्ताच् च चर्म तत् ।
सीव्येत् ततश् च सु-श्लक्ष्णं हीनं संवर्धयेत् पुनः ॥ ६५ ॥

श्लोक 66

नासोपान्ताच् च चर्म-वत् निवेशिते यथा-न्यासं सद्यश्-छिन्ने ऽप्य् अयं विधिः ।
नाडी-योगाद् विनौष्ठस्य नासा-संधान-वद् विधिः ॥ ६६ ॥
सद्यश्-छेदे ऽप्य् अयं विधिः