श्लोक 1
प्रतिश्याय-जल-क्रीडा-कर्ण-कण्डूयनैर् मरुत् ।
मिथ्या-योगेन शब्दस्य कुपितो ऽन्यैश् च कोपनैः ॥ १ ॥
श्लोक 2
प्राप्य श्रोत्र-सिराः कुर्याच् छूलं स्रोतसि वेग-वत् ।
अर्धावभेदकं स्तम्भं शिशिरान्-अभिनन्दनम् ॥ २ ॥
श्लोक 3
चिराच् च पाकं पक्वं तु लसीकाम् अल्प-शः स्रवेत् ।
श्रोत्रं शून्यम् अ-कस्माच् च स्यात् संचार-विचार-वत् ॥ ३ ॥
श्लोक 4
शूलं पित्तात् स-दाहोषा-शीतेच्छा-श्वयथु-ज्वरम् ।
आशु-पाकं प्रपक्वं च स-पीत-लसिका-स्रुति ॥ ४ ॥
श्लोक 5
शीतेच्छा-श्वयथुर् ज्वरः सा लसीका स्पृशेद् यद् यत् तत् तत् पाकम् उपैति च ।
कफाच् छिरो-हनु-ग्रीवा-गौरवं मन्द-ता रुजः ॥ ५ ॥
श्लोक 6
कण्डूः श्वयथुर् उष्णेच्छा पाकाच् छ्वेत-घन-स्रुतिः ।
करोति श्रवणे शूलम् अभिघातादि-दूषितम् ॥ ६ ॥
श्लोक 7
पाकाच् छ्वेत-घना स्रुतिः रक्तं पित्त-समानार्ति किञ्-चिद् वाधिक-लक्षणम् ।
शूलं समुदितैर् दोषैः स-शोफ-ज्वर-तीव्र-रुक् ॥ ७ ॥
श्लोक 8
पर्यायाद् उष्ण-शीतेच्छां जायते श्रुति-जाड्य-वत् ।
पक्वं सितासिता-रक्त-घन-पूय-प्रवाहि च ॥ ८ ॥
श्लोक 9
शब्द-वाहि-सिरा-संस्थे शृणोति पवने मुहुः ।
नादान् अ-कस्माद् विविधान् कर्ण-नादं वदन्ति तम् ॥ ९ ॥
श्लोक 10
श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः ।
उच्चैः कृच्छ्राच् छ्रुतिं कुर्याद् बधिर-त्वं क्रमेण च ॥ १० ॥
श्लोक 11
बधिर-त्वं क्रमेण वा वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् ।
रुग्-गौरवं पिधानं च स प्रतीनाह-संज्ञितः ॥ ११ ॥
श्लोक 12
कण्डू-शोफौ कफाच् छ्रोत्रे स्थिरौ तत्-संज्ञया स्मृतौ ।
कफो विदग्धः पित्तेन स-रुजं नी-रुजं त्व् अपि ॥ १२ ॥
श्लोक 13
स्थिरौ तत्-संज्ञितौ स्मृतौ स-रुजं नी-रुजं त्व् अथ घन-पूति-बहु-क्लेदं कुरुते पूति-कर्णकम् ।
वातादि-दूषितं श्रोत्रं मांसासृक्-क्लेद-जा रुजम् ॥ १३ ॥
श्लोक 14
मांसासृक्-क्लेद-जां रुजम् खादन्तो जन्तवः कुर्युस् तीव्रां स कृमि-कर्णकः ।
श्रोत्र-कण्डूयनाज् जाते क्षते स्यात् पूर्व-लक्षणः ॥ १४ ॥
श्लोक 15
श्रोतः-कण्डूयनाज् जाते विद्रधिः पूर्व-वच् चान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् ।
तेषु रुक् पूति-कर्ण-त्वं बधिर-त्वं च बाधते ॥ १५ ॥
श्लोक 16
षो-ढार्शो ऽर्बुदम् ईरितम् बधिर-त्वं च जायते गर्भे ऽनिलात् संकुचिता शष्कुली कुचि-कर्णकः ।
एको नी-रुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥ १६ ॥
श्लोक 17
शष्कुली कुञ्चि-कर्णकः शष्कुली कूचि- गर्भे मांसाङ्कुरः स्थितः पिप्पली पिप्पली-मानः संनिपाताद् विदारिका ।
स-वर्णः स-रुजः स्तब्धः श्वयथुः स उपेक्षितः ॥ १७ ॥
श्लोक 18
कटु-तैल-निभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
संकोचयति रूढा च सा ध्रुवं कर्ण-शष्कुलीम् ॥ १८ ॥
श्लोक 19
स्रवन् कृच्छ्रेण रोहति सिरा-स्थः कुरुते वायुः पाली-शोषं तद्-आह्वयम् ।
कृशा दृढा च तन्त्री-वत् पाली वातेन तन्त्रिका ॥ १९ ॥
श्लोक 20
सु-कुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते ।
कर्णे शोफः स-रुक् पाल्याम् अरुणः परिपोट-वान् ॥ २० ॥
श्लोक 21
परिपोटः स पवनाद् उत्पातः पित्त-शोणितात् ।
गुर्व्-आभरण-भाराद्यैः श्यावो रुग्-दाह-पाक-वान् ॥ २१ ॥
श्लोक 22
श्वयथुः स्फोट-पिटिका-रागोषा-क्लेद-संयुतः ।
पाल्यां शोफो ऽनिल-कफात् सर्वतो निर्-व्यथः स्थिरः ॥ २२ ॥
श्लोक 23
स्तब्धः स-वर्णः कण्डू-मान् उन्मन्थो गल्लिरश् च सः ।
दुर्-विद्धे वर्धिते कर्णे स-कण्डू-दाह-पाक-रुक् ॥ २३ ॥
श्लोक 24
उन्मन्थो गल्लिकश् च सः श्वयथुः संनिपातोत्थः स नाम्ना दुःख-वर्धनः ।
कफासृक्-कृमि-जाः सूक्ष्माः स-कण्डू-क्लेद-वेदनाः ॥ २४ ॥
श्लोक 25
लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास् ता हि ।
पिप्पली सर्व-जं शूलं विदारी कुचि-कर्णकः ॥ २५ ॥
श्लोक 26
लिह्याख्याः पिटिकास् ता हि विदारी कूचि-कर्णकः एषाम् अ-साध्या याप्यैका तन्त्रिकान्यांस् तु साधयेत् ।
पञ्च-विंशतिर् इत्य् उक्ताः कर्ण-रोगा विभागतः ॥ २६ ॥