अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 15

श्लोक 1

वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्प-शोफ-ता ।
शङ्खाक्षि-भ्रू-ललाटस्य तोद-स्फुरण-भेदनम् ॥ १ ॥

श्लोक 2

वातेन नेत्रे ऽभिष्यन्दे शङ्खाक्षि-भ्रू-ललाटास्य-तोद-स्फुरण-भेदनम् शुष्काल्पा दूषिका शीतम् अच्छं चाश्रु चला रुजः ।
निमेषोन्मेषणं कृच्छ्राज् जन्तूनाम् इव सर्पणम् ॥ २ ॥

श्लोक 3

अच्छम् अश्रु चला रुजः अक्ष्य् आध्मातम् इवाभाति सूक्ष्मैः शल्यैर् इवाचितम् ।
स्निग्धोष्णैश् चोपशमनं सो ऽभिष्यन्द उपेक्षितः ॥ ३ ॥

श्लोक 4

स्निग्धोष्णेच्छोपशमनं अधिमन्थो भवेत् तत्र कर्णयोर् नदनं भ्रमः ।
अरण्येव च मथ्यन्ते ललाटाक्षि-भ्रुवादयः ॥ ४ ॥

श्लोक 5

हताधिमन्थः सो ऽपि स्यात् प्रमादात् तेन वेदनाः ।
अनेक-रूपा जायन्ते व्रणो दृष्टौ च दृष्टि-हा ॥ ५ ॥

श्लोक 6

मन्याक्षि-शङ्खतो वायुर् अन्यतो वा प्रवर्तयन् ।
व्यथां तीव्राम् अ-पैच्छिल्य-राग-शोफं विलोचनम् ॥ ६ ॥

श्लोक 7

अन्यतो वा प्रवर्तयेत् संकोचयति पर्य्-अश्रु सो ऽन्यतो-वात-संज्ञितः ।
तद्-वज् जिह्मं भवेन् नेत्रम् ऊनं वा वात-पर्यये ॥ ७ ॥

श्लोक 8

तद्-वज् जिह्मं भवेन् नेत्रं तद्-वन् नेत्रं भवेज् जिह्मम् शूनं वा वात-पर्यये दाहो धूमायनं शोफः श्याव-ता वर्त्मनो बहिः ।
अन्तः-क्लेदो ऽश्रु पीतोष्णं रागः पीताभ-दर्शनम् ॥ ८ ॥

श्लोक 9

क्षारोक्षित-क्षताक्षि-त्वं पित्ताभिष्यन्द-लक्षणम् ।
ज्वलद्-अङ्गार-कीर्णाभं यकृत्-पिण्ड-सम-प्रभम् ॥ ९ ॥

श्लोक 10

अधिमन्थे भवेन् नेत्रं स्यन्दे तु कफ-संभवे ।
जाड्यं शोफो महान् कण्डूर् निद्रान्नान्-अभिनन्दनम् ॥ १० ॥

श्लोक 11

सान्द्र-स्निग्ध-बहु-श्वेत-पिच्छा-वद्-दूषिकाश्रु-ता ।
अधिमन्थे नतं कृष्णम् उन्नतं शुक्ल-मण्डलम् ॥ ११ ॥

श्लोक 12

पिच्छा-वद्-दूषिकास्र-ता प्रसेको नासिकाध्मानं पांसु-पूर्णम् इवेक्षणम् ।
रक्ताश्रु-राजी-दूषीका-रक्त-मण्डल-दर्शनम् ॥ १२ ॥

श्लोक 13

रक्तास्र-राजी-दूषीका- शुक्ल-मण्डल-दर्शनम् रक्त-स्यन्देन नयनं स-पित्त-स्यन्द-लक्षणम् ।
मन्थे ऽक्षि ताम्र-पर्य्-अन्तम् उत्पाटन-समान-रुक् ॥ १३ ॥

श्लोक 14

रागेण बन्धूक-निभं ताम्यति स्पर्शना-क्षमम् ।
असृङ्-निमग्नारिष्टाभं कृष्णम् अग्न्य्-आभ-दर्शनम् ॥ १४ ॥

श्लोक 15

अधिमन्था यथा-स्वं च सर्वे स्यन्दाधिक-व्यथाः ।
शङ्ख-दन्त-कपोलेषु कपाले चाति-रुक्-कराः ॥ १५ ॥

श्लोक 16

वात-पित्तातुरं घर्ष-तोद-भेदोपदेह-वत् ।
रूक्ष-दारुण-वर्त्माक्षि कृच्छ्रोन्मील-निमीलनम् ॥ १६ ॥

श्लोक 17

वात-पित्तोत्तरं घर्ष- विकूणन-विशुष्क-त्व-शीतेच्छा-शूल-पाक-वत् ।
उक्तः शुष्कादि-पाको यं स-शोफः स्यात् त्रिभिर् मलैः ॥ १७ ॥

श्लोक 18

विकूणनं विशुष्कं च विकूणेन विशुष्क-त्वं शीतेच्छा-शूल-पाक-वत् स-रक्तैस् तत्र शोफो ऽति-रुग्-दाह-ष्ठीवनादि-मान् ।
पक्वोदुम्बर-संकाशं जायते शुक्ल-मण्डलम् ॥ १८ ॥

श्लोक 19

अश्रूष्ण-शीत-विशद-पिच्छिलाच्छ-घनं मुहुः ।
अल्प-शोफे ऽल्प-शोफस् तु पाको ऽन्यैर् लक्षणैस् तथा ॥ १९ ॥

श्लोक 20

अल्प-शोफो ऽल्प-शोफस् तु अक्षि-पाकात्यये शोफः संरम्भः कलुषाश्रु-ता ।
कफोपदिग्धम् असितं सितं प्रक्लेद-राग-वत् ॥ २० ॥

श्लोक 21

कफेन दिग्धम् असितं दाहो दर्शन-संरोधो वेदनाश् चान्-अवस्थिताः ।
अन्न-सारो ऽम्ल-तां नीतः पित्त-रक्तोल्बणैर् मलैः ॥ २१ ॥

श्लोक 22

सिराभिर् नेत्रम् आरूढः करोति श्याव-लोहितम् ।
स-शोफ-दाह-पाकाश्रु भृशं चाविल-दर्शनम् ॥ २२ ॥

श्लोक 23

अम्लोषितो ऽयम् इत्य् उक्ता गदाः षो-डश सर्व-गाः ।
हताधिमन्थम् एतेषु साक्षि-पाकात्ययं त्यजेत् ॥ २३ ॥

श्लोक 24

हताधिमन्थं चैतेषु वातोद्भूतः पञ्च-रात्रेण दृष्टिं सप्ताहेन श्लेष्म-जातो ऽधिमन्थः ।
रक्तोत्पन्नो हन्ति तद्-वत् त्रि-रात्रान् मिथ्याचारात् पैत्तिकः सद्य एव ॥ २४ ॥
सप्ताहेन श्लेष्म-जश् चाधिमन्थः