अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 9

श्लोक 1

कृच्छ्रोन्मीले पुराणाज्यं द्राक्षा-कल्काम्बु-साधितम् ।
स-सितं योजयेत् स्निग्धं नस्य-धूमाञ्जनादि च ॥ १ ॥

श्लोक 2

कुम्भीका-वर्त्म-लिखितं सैन्धव-प्रतिसारितम् ।
यष्टी-धात्री-पटोलीनां क्वाथेन परिषेचयेत् ॥ २ ॥

श्लोक 3

निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तान-शायिनः ।
बहिः कोष्णाम्बु-तप्तेन स्वेदितं वर्त्म वाससा ॥ ३ ॥

श्लोक 4

निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुली-घृतम् ।
न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥ ४ ॥

श्लोक 5

न स्रंसते न चलति मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्र-पदाङ्कितम् ।
लिखेत् तेनैव पत्त्रैर् वा शाक-शेफालिकादि-जैः ॥ ५ ॥

श्लोक 6

शाक-शेफालिकादिकैः शाक-शेफालिकादिभिः फेनेन तोय-राशेर् वा पिचुना प्रमृजन्न् असृक् ।
स्थिते रक्ते सु-लिखितं स-क्षौद्रैः प्रतिसारयेत् ॥ ६ ॥

श्लोक 7

यथा-स्वम् उक्तैर् अनु च प्रक्षाल्योष्णेन वारिणा ।
घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधु-सर्पिषा ॥ ७ ॥

श्लोक 8

घृतेनासिक्तम् अभ्यक्तं ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यव-सक्तुभिः ।
द्वितीये ऽहनि मुक्तस्य परिषेकं यथा-यथम् ॥ ८ ॥

श्लोक 9

कुर्याच् चतुर्थे नस्यादीन् मुञ्चेद् एवाह्नि पञ्चमे ।
समं नख-निभं शोफ-कण्डू-घर्षाद्य-पीडितम् ॥ ९ ॥

श्लोक 10

विद्यात् सु-लिखितं वर्त्म लिखेद् भूयो विपर्यये ।
रुक्-पक्ष्म-वर्त्म-सदन-स्रंसनान्य् अति-लेखनात् ॥ १० ॥

श्लोक 11

स्नेह-स्वेदादिकस् तस्मिन्न् इष्टो वात-हरः क्रमः ।
अभ्यज्य नव-नीतेन श्वेत-लोध्रं प्रलेपयेत् ॥ ११ ॥

श्लोक 12

एरण्ड-मूल-कल्केन पुट-पाके पचेत् ततः ।
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटली-कृतम् ॥ १२ ॥

श्लोक 13

स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्र-सेचनम् ।
शालि-तण्डुल-कल्केन लिप्तं तद्-वत् परिष्कृतम् ॥ १३ ॥

श्लोक 14

स्त्रियाः क्षीरे छागले वा कुर्यान् नेत्रे ऽति-लिखिते मृदितं दधि-मस्तुना ।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥ १४ ॥

श्लोक 15

पिटिका व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताः ।
निष्पीडयेद् अनु विधिः परिशेषस् तु पूर्व-वत् ॥ १५ ॥

श्लोक 16

पिटिकां व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्व-त्र वर्त्मनि ।
पित्तास्रोत्क्लिष्टयोः स्वादु-स्कन्ध-सिद्धेन सर्पिषा ॥ १६ ॥

श्लोक 17

सिरा-विमोक्षः स्निग्धस्य त्रिवृच् छ्रेष्ठं विरेचनम् ।
लिखिते स्रुत-रक्ते च वर्त्मनि क्षालनं हितम् ॥ १७ ॥

श्लोक 18

त्रिवृच् छ्रेष्ठा विरेचने ९लिखिते निःसृते रक्ते यष्टी-कषायः सेकस् तु क्षीरं चन्दन-साधितम् ।
पक्ष्मणां सदने सूच्या रोम-कूपान् विकुट्टयेत् ॥ १८ ॥

श्लोक 19

यष्टी-क्वाथेन सेकस् तु ग्राहयेद् वा जलौकोभिः पयसेक्षु-रसेन वा ।
वमनं नावनं सर्पिः शृतं मधुर-शीतलैः ॥ १९ ॥

श्लोक 20

संचूर्ण्य पुष्प-कासीसं भावयेत् सुरसा-रसैः ।
ताम्रे दशाहं परमं पक्ष्म-शाते तद् अञ्जनम् ॥ २० ॥

श्लोक 21

पोथकीर् लिखिताः शुण्ठी-सैन्धव-प्रतिसारिताः ।
उष्णाम्बु-क्षालिताः सिञ्चेत् खदिराढकि-शिग्रुभिः ॥ २१ ॥

श्लोक 22

पोथकीं लिखितं शुण्ठी-सैन्धव-प्रतिसारिताम् उष्णाम्बु-क्षालितां सिञ्चेत् अप्-सिद्धैर् द्वि-निषा-श्रेष्ठा-मधुकैर् वा स-माक्षिकैः ।
कफोत्क्लिष्टे विलिखिते स-क्षौद्रैः प्रतिसारणम् ॥ २२ ॥

श्लोक 23

सूक्ष्मैः सैन्धव-कासीस-मनोह्वा-कण-तार्क्ष्य-जैः ।
वमनाञ्जन-नस्यादि सर्वं च कफ-जिद् धितम् ॥ २३ ॥

श्लोक 24

कर्तव्यं लगणे ऽप्य् एतद् अ-शान्ताव् अग्निना दहेत् ।
कुकूणे खदिर-श्रेष्ठा-निम्ब-पत्त्र-शृतं घृतम् ॥ २४ ॥

श्लोक 

निम्ब-पत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा विनिष्पीड्य भिषग् अञ्जन-नामिकाम् ।
शिलैला-सैन्धव-नतैः स-क्षौद्रैः प्रतिसारयेत् ॥ २४.१+(१) ॥

श्लोक 25

अव् स्विन्नां भित्त्वा विनिष्पीड्योत्ं ब्व् चाञ्जन-नामिकाम् पीत्वा धात्री वमेत् कृष्णा-यष्टी-सर्षप-सैन्धवैः ।
अभया-पिप्पली-द्राक्षा-क्वाथेनैनां विरेचयेत् ॥ २५ ॥

श्लोक 26

मुस्ता-द्वि-रजनी-कृष्णा-कल्केनालेपयेत् स्तनौ ।
धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥ २६ ॥

श्लोक 27

पटोल-मुस्त-मृद्वीका-गुडूची-त्रि-फलोद्भवम् ।
शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बु-जन्मभिः ॥ २७ ॥

श्लोक 28

धात्र्य्-अश्मन्तक-जम्बूत्थ-पत्त्र-क्वाथेन सेचयेत् ।
प्रायः क्षीर-घृताशि-त्वाद् बालानां श्लेष्म-जा गदाः ॥ २८ ॥

श्लोक 29

तस्माद् वमनम् एवाग्रे सर्व-व्याधिषु पूजितम् ।
सिन्धूत्थ-कृष्णापामार्ग-बीजाज्य-स्तन्य-माक्षिकम् ॥ २९ ॥

श्लोक 30

चूर्णो वचायाः स-क्षौद्रो मदनं मधुकान्वितम् ।
क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥ ३० ॥

श्लोक 31

भजतः क्रम-शः शिशोः वमनं सर्व-रोगेषु विशेषेण कुकूणके ।
सप्तला-रस-सिद्धाज्यं योज्यं चोभय-शोधनम् ॥ ३१ ॥

श्लोक 32

द्वि-निशा-लोध्र-यष्ट्य्-आह्व-रोहिणी-निम्ब-पल्लवैः ।
कुकूणके हिता वर्तिः पिष्टैस् ताम्र-रजो-ऽन्वितैः ॥ ३२ ॥

श्लोक 33

क्षीर-क्षौद्र-घृतोपेतं दग्धं वा लोह-जं रजः ।
एला-लशुन-कतक-शङ्खोषण-फणिज्जकैः ॥ ३३ ॥

श्लोक 34

दग्धं वा लोध्र-जं रजः वर्तिः कुकूण-पोथक्योः सुरा-पिष्टैः स-कट्फलैः ।
पक्ष्म-रोधे प्रवृद्धेषु शुद्ध-देहस्य रोमसु ॥ ३४ ॥

श्लोक 35

उत्सृज्य द्वौ भ्रुवो ऽधस्-ताद् भागौ भागं च पक्ष्मतः ।
यव-मात्रं यवाकारं तिर्यक् छित्त्वार्द्र-वाससा ॥ ३५ ॥

श्लोक 36

अपनेयम् असृक् तस्मिन्न् अल्पी-भवति शोणिते ।
सीव्येत् कुटिलया सूच्या मुद्ग-मात्रान्तरैः पदैः ॥ ३६ ॥

श्लोक 37

बद्ध्वा ललाटे पट्टं च तत्र सीवन-सूत्रकम् ।
नाति-गाढ-श्लथं सूच्या निक्षिपेद् अथ योजयेत् ॥ ३७ ॥

श्लोक 38

मधु-सर्पिः-कवलिकां न चास्मिन् बन्धम् आचरेत् ।
न्यग्रोधादि-कषायैश् च स-क्षीरैः सेचयेद् रुजि ॥ ३८ ॥

श्लोक 39

पञ्चमे दिवसे सूत्रम् अपनीयावचूर्णयेत् ।
गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं नस्याञ्जनादि च ॥ ३९ ॥

श्लोक 40

तीक्ष्ण-नस्याञ्जनादि च तीक्ष्ण-नस्याञ्जनानि च तीक्ष्णं नस्याञ्जनानि च दहेद् अ-शान्तौ निर्भुज्य वर्त्म-दोषाश्रयां वलीम् ।
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥ ४० ॥

श्लोक 41

सूच्य्-अग्रेणाग्नि-वर्णेन दाहो बाह्यालजेः पुनः ।
भिन्नस्य क्षार-वह्निभ्यां सु-च्छिन्नस्यार्बुदस्य च ॥ ४१ ॥