अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 4

श्लोक 1

लक्षयेज् ज्ञान-विज्ञान-वाक्-चेष्टा-बल-पौरुषम् ।
पुरुषे ऽ-पौरुषं यत्र तत्र भूत-ग्रहं वदेत् ॥ १ ॥

श्लोक 2

भूतस्य रूप-प्रकृति-भाषा-गत्य्-आदि-चेष्टितैः ।
यस्यानुकारं कुरुते तेनाविष्टं तम् आदिशेत् ॥ २ ॥

श्लोक 3

सो ऽष्टा-दश-विधो देव-दानवादि-विभेदतः ।
हेतुस् तद्-अनुषक्तौ तु सद्यः पूर्व-कृतो ऽथ-वा ॥ ३ ॥

श्लोक 4

सद्यः पूर्वं कृतो ऽथ-वा प्रज्ञापराधः सु-तरां तेन कामादि-जन्मना ।
लुप्त-धर्म-व्रताचारः पूज्यान् अप्य् अतिवर्तते ॥ ४ ॥

श्लोक 5

पूज्यानाम् अतिवर्तनैः तं तथा भिन्न-मर्यादं पापम् आत्मोपघातिनम् ।
देवादयो ऽप्य् अनुघ्नन्ति ग्रहाश् छिद्र-प्रहारिणः ॥ ५ ॥

श्लोक 6

छिद्रं पाप-क्रियारम्भः पाको ऽन्-इष्टस्य कर्मणः ।
एकस्य शून्ये ऽवस्थानं श्मशानादिषु वा निशि ॥ ६ ॥

श्लोक 7

दिग्-वासस्-त्वं गुरोर् निन्दा रतेर् अ-विधि-सेवनम् ।
अ-शुचेर् देवतार्चादि पर-सूतक-संकरः ॥ ७ ॥

श्लोक 8

अ-शुचेर् देवताराद्धिः पर-सूतक-संकरात् होम-मन्त्र-बलीज्यानां वि-गुणं परिकर्म च ।
समासाद् दिन-चर्यादि-प्रोक्ताचार-व्यतिक्रमः ॥ ८ ॥

श्लोक 9

प्रोक्तानां च विपर्ययः गृह्णन्ति शुक्ल-प्रतिपत्-त्रयो-दश्योः सुरा नरम् ।
शुक्ल-त्रयो-दशी-कृष्ण-द्वा-दश्योर् दानवा ग्रहाः ॥ ९ ॥

श्लोक 10

द्वा-दश्योर् दानव-ग्रहाः गन्धर्वास् तु चतुर्-दश्यां द्वा-दश्यां चोरगाः पुनः ।
पञ्चम्यां शुक्ल-सप्तम्य्-एका-दश्योस् तु धनेश्वराः ॥ १० ॥

श्लोक 11

पञ्चम्यां शुक्ल-सप्तम्याम् एका-दश्यां धनेश्वराः शुक्लाष्ट-पञ्चमी-पौर्णमासीषु ब्रह्म-राक्षसाः ।
कृष्णे रक्षः-पिशाचाद्या नव-द्वा-दश-पर्वसु ॥ ११ ॥

श्लोक 12

शुक्लाष्ट-पञ्चमी-पूर्ण-मासीषु ब्रह्म-राक्षसाः दशामावास्ययोर् अष्ट-नवम्योः पितरो ऽपरे ।
गुरु-वृद्धादयः प्रायः कालं संध्यासु लक्षयेत् ॥ १२ ॥

श्लोक 13

दर्शामावास्ययोर् अष्ट- दशामावास्ययोः षष्ठी- फुल्ल-पद्मोपम-मुखं सौम्य-दृष्टिम् अ-कोपनम् ।
अल्प-वाक्-स्वेद-विण्-मूत्रं भोजनान्-अभिलाषिणम् ॥ १३ ॥

श्लोक 14

स्व्-अल्प-वाक्-स्वेद-विण्-मूत्रं देव-द्वि-जाति-परमं शुचिं संस्कृत-वादिनम् ।
मीलयन्तं चिरान् नेत्रे सुरभिं वर-दायिनम् ॥ १४ ॥

श्लोक 15

शुक्ल-माल्याम्बर-सरिच्-छैलोच्च-भवन-प्रियम् ।
अ-निद्रम् अ-प्रधृष्यं च विद्याद् देव-वशी-कृतम् ॥ १५ ॥

श्लोक 16

शुक्ल-माल्याम्बर-धरं शैलोच्च-भवन-प्रियम् जिह्म-दृष्टिं दुर्-आत्मानं गुरु-देव-द्वि-ज-द्विषम् ।
निर्-भयं मानिनं शूरं क्रोधनं व्यवसायिनम् ॥ १६ ॥

श्लोक 17

निर्-भयं मानिनं क्रूरं रुद्रः स्कन्दो विशाखो ऽहम् इन्द्रो ऽहम् इति वादिनम् ।
सुरा-मांस-रुचिं विद्याद् दैत्य-ग्रह-गृहीतकम् ॥ १७ ॥

श्लोक 18

रुद्रः स्कन्दः पिशाचो ऽहम् मद्य-मांस-रुचिं विद्याद् दैत्य-ग्रह-वशी-कृतम् स्व्-आचारं सुरभिं हृष्टं गीत-नर्तन-कारिणम् ।
स्नानोद्यान-रुचिं रक्त-वस्त्र-माल्यानुलेपनम् ॥ १८ ॥

श्लोक 19

स्व्-आचार-सुरभि-शिष्ट- स्वे-चरं सुरभिं हृष्टं -गीत-नर्तन-कारिणम् स्नानोद्यान-रतं रक्त- शृङ्गार-लीलाभिरतं गन्धर्वाध्युषितं वदेत् ।
रक्ताक्षं क्रोधनं स्तब्ध-दृष्टिं वक्र-गतिं चलम् ॥ १९ ॥

श्लोक 20

शृङ्गार-माल्याभिरतं शृङ्गार-लीलाभिहितं श्वसन्तम् अ-निशं जिह्वा-लोलिनं सृक्किणी-लिहम् ।
प्रिय-दुग्ध-गुड-स्नानम् अधो-वदन-शायिनम् ॥ २० ॥

श्लोक 21

उरगाधिष्ठितं विद्यात् त्रस्यन्तं चातप-त्रतः ।
विप्लुत-त्रस्त-रक्ताक्षं शुभ-गन्धं सु-तेजसम् ॥ २१ ॥

श्लोक 22

प्रिय-नृत्य-कथा-गीत-स्नान-माल्यानुलेपनम् ।
मत्स्य-मांस-रुचिं हृष्टं तुष्टं बलिनम् अ-व्यथम् ॥ २२ ॥

श्लोक 23

प्रिय-नर्त-कथा-गीत मत्स्य-मांस-रुचिं हृष्ट-तुष्टं बलिनम् अ-व्यथम् तुष्टं बलिनम् अ-व्ययम् चलिताग्र-करं कस्मै किं ददामीति वादिनम् ।
रहस्य-भाषिणं वैद्य-द्वि-जाति-परिभाविनम् ॥ २३ ॥

श्लोक 24

द्वि-जाति-परिवादिनम् अल्प-रोषं द्रुत-गतिं विद्याद् यक्ष-गृहीतकम् ।
हास्य-नृत्य-प्रियं रौद्र-चेष्टं छिद्र-प्रहारिणम् ॥ २४ ॥

श्लोक 25

अल्प-रोषं हृत-गतिं हास्य-नृत्त-प्रियं रौद्र- हास्य-नृत्य-करं रौद्र- आक्रोशिनं शीघ्र-गतिं देव-द्वि-ज-भिषग्-द्विषम् ।
आत्मानं काष्ठ-शस्त्राद्यैर् घ्नन्तं भोः-शब्द-वादिनम् ॥ २५ ॥

श्लोक 26

घ्नन्तं गो-शब्द-वादिनम् शास्त्र-वेद-पठं विद्याद् गृहीतं ब्रह्म-राक्षसैः ।
स-क्रोध-दृष्टिं भ्रू-कुटीम् उद्वहन्तं स-संभ्रमं ॥ २६ ॥

श्लोक 27

गृहीतं ब्रह्म-राक्षसा प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ।
अन्नाद् विनापि बलिनं नष्ट-निद्रं निशा-चरम् ॥ २७ ॥

श्लोक 28

रुदन्तं भैरवाननम् निर्-लज्जम् अ-शुचिं शूरं क्रूरं परुष-भाषिणम् ।
रोषणं रक्त-माल्य-स्त्री-रक्त-मद्यामिष-प्रियम् ॥ २८ ॥

श्लोक 29

मेघ-मद्यामिष-प्रियम् दृष्ट्वा च रक्तं मांसं वालिहानं दशन-च्छदौ ।
हसन्तम् अन्न-काले च राक्षसाधिष्ठितं वदेत् ॥ २९ ॥

श्लोक 30

दृष्ट्वा च रक्त-मांसानि लिहानं दशन-च्छदौ अ-स्वस्थ-चित्तं नैक-त्र तिष्ठन्तं परिधाविनम् ।
उच्छिष्ट-नृत्य-गन्धर्व-हास-मद्यामिष-प्रियम् ॥ ३० ॥

श्लोक 31

निर्भर्त्सनाद् दीन-मुखं रुदन्तम् अ-निमित्ततः ।
नखैर् लिखन्तम् आत्मानं रूक्ष-ध्वस्त-वपुः-स्वरम् ॥ ३१ ॥

श्लोक 32

आवेदयन्तम् दुःखादि संबद्धा-बद्ध-भाषिणम् ।
नष्ट-स्मृतिं शून्य-रतिं लोलं नग्नं मलीमसम् ॥ ३२ ॥

श्लोक 33

आवेदयन्तम् दुःखानि रथ्या-चैल-परीधानं तृण-माला-विभूषणम् ।
आरोहन्तं च काष्ठाश्वं तथा संकर-कूटकम् ॥ ३३ ॥

श्लोक 34

आरोहन्तं च काष्ठाश्म-राशिं संकर-कूटकम् तथा संकार-कूटकम् बह्व्-आशिनं पिशाचेन विजानीयाद् अधिष्ठितम् ।
प्रेताकृति-क्रिया-गन्धं भीतम् आहार-विद्विषम् ॥ ३४ ॥

श्लोक 35

भीरुम् आहार-विद्विषम् तृण-च्छिदं च प्रेतेन गृहीतं नरम् आदिशेत् ।
बहु-प्रलापं कृष्णास्यं प्रविलम्बित-यायिनम् ॥ ३५ ॥

श्लोक 36

शून-प्रलम्ब-वृषणं कूष्माण्डाधिष्ठितं वदेत् ।
गृहीत्वा काष्ठ-लोष्टादि भ्रमन्तं चीर-वाससम् ॥ ३६ ॥

श्लोक 37

गृहीत्वा काष्ठ-लोहादि नग्नं धावन्तम् उत्त्रस्त-दृष्टिं तृण-विभूषणम् ।
श्मशान-शून्यायतन-रथ्यैक-द्रुम-सेविनम् ॥ ३७ ॥

श्लोक 38

तिलान्न-मद्य-मांसेषु सततं सक्त-लोचनं ।
निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च ॥ ३८ ॥

श्लोक 39

संसक्तं रक्त-लोचनम् सततं रक्त-लोचनम् स-रक्तं रक्त-लोचनम् कर्कोटाधिष्ठितं विन्द्याद् याचन्तम् उदकं चान्नं त्रस्त-लोहित-लोचनम् ।
उग्र-वाक्यं च जानीयान् नरम् औकिरणार्दितम् ॥ ३९ ॥

श्लोक 40

धावन्तम् उदकं नान्नं  याचन्तम् उदकं नान्नं याचन्तम् उदकान्नं च रक्त-वित्रस्त-लोचनम् नरम् औत्किरणार्दितम् नरं मौकिरणार्दितम् नरम् उत्तरुणार्दितम् गन्ध-माल्य-रतिं सत्य-वादिनं परिवेपिनम् ।
बहु-निद्रं च जानीयाद् वेतालेन वशी-कृतम् ॥ ४० ॥

श्लोक 41

गन्ध-माल्य-रतं सत्य- गन्ध-माल्य-रुचिं सत्य- -वादिनं परिवेदिनम् -वादिनं परिदेविनम् वैतालेन वशी-कृतम् अ-प्रसन्न-दृशं दीन-वदनं शुष्क-तालुकम् ।
चलन्-नयन-पक्ष्माणं निद्रालुं मन्द-पावकम् ॥ ४१ ॥

श्लोक 42

अपसव्य-परीधानं तिल-मांस-गुड-प्रियम् ।
स्खलद्-वाचं च जानीयात् पितृ-ग्रह-वशी-कृतम् ॥ ४२ ॥

श्लोक 43

स्खलद्-वाचं विजानीयात् गुरु-वृद्धर्षि-सिद्धाभिशाप-चिन्तानुरूपतः ।
व्याहाराहार-चेष्टाभिर् यथा-स्वं तद्-ग्रहं वदेत् ॥ ४३ ॥

श्लोक 44

गुरु-वृद्धर्षि-सिद्धानां शाप-चिन्तानुरूपतः शाप-चित्तानुरूपतः शाप-चित्तानुरूपतः विहाराहार-चेष्टाभिर् यथा-स्वं तं ग्रहं वदेत् कुमार-वृन्दानुगतं नग्नम् उद्धत-मूर्ध-जम् ।
अ-स्वस्थ-मनसं दैर्घ्य-कालिकं स-ग्रहं त्यजेत् ॥ ४४ ॥