अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 1

श्लोक 1

जात-मात्रं विशोध्योल्बाद् बालं सैन्धव-सर्पिषा ।
प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत् ॥ १ ॥

श्लोक 2

अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् ।
अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेद् इमम् ॥ २ ॥

श्लोक 3

अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि संजीव शरदां शतम् ॥ ३ ॥

श्लोक 4

संजीव शरदः शतम् शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि ।
नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु ॥ ४ ॥

श्लोक 5

अहश् चत्वारि रक्षतु स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् ।
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत् ॥ ५ ॥

श्लोक 6

बद्ध्वोर्ध्वं वर्धयित्वा तु ग्रीवायाम् अवसज्जयेत् नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेद् अनु ।
क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा ॥ ६ ॥

श्लोक 7

नाभिं तु कुष्ठ-तैलेन सेचयेत् स्नपयेद् अनु कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः ।
ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत् ॥ ७ ॥

श्लोक 8

शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् ।
हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम् ॥ ८ ॥

श्लोक 9

प्राशं चास्य प्रयोजयेत् ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु ।
चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः ॥ ९ ॥

श्लोक 10

कुष्ठ-पथ्या रजी-कृताः लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा ।
गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः ॥ १० ॥

श्लोक 11

गर्भाम्भः सैन्धव-वचा- -सर्पिषा वामयेत् ततः प्राजापत्येन विधिना जात-कर्माणि कारयेत् ।
सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः ॥ ११ ॥

श्लोक 12

तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ।
प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी ॥ १२ ॥

श्लोक 13

अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेच् छिशुम् ।
द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः ॥ १३ ॥

श्लोक 14

प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् ।
स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत् ॥ १४ ॥

श्लोक 15

मातुर् एव पिबेत् स्तन्यं तद् ध्य् अलं देह-वृद्धये ।
स्तन्य-धात्र्याव् उभे कार्ये तद्-अ-संपदि वत्सले ॥ १५ ॥

श्लोक 16

तत् परं देह-वृद्धये अ-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे ।
नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे ॥ १६ ॥

श्लोक 17

हिताहार-विहारेण यत्नाद् उपचरेच् च ते ।
शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः ॥ १७ ॥

श्लोक 18

स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः ।
क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः ॥ १८ ॥

श्लोक 19

क्षीरं क्षीरिण्य् औषधयः विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः ।
प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः ॥ १९ ॥

श्लोक 20

विरुद्धाहार-चेष्टायाः स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् ।
ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम् ॥ २० ॥

श्लोक 21

मूलैः सिद्धं बृहत्य्-आद्यैः षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः ।
जागृयुर् बान्धवास् तस्य दधतः परमां मुदम् ॥ २१ ॥

श्लोक 22

दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः ।
कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम् ॥ २२ ॥

श्लोक 23

विधि-वत् स्व-कुलोचितैः बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् ।
नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम् ॥ २३ ॥

श्लोक 24

ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् ।
प्राग्-उदक्-शिरसः कुर्याद् बालस्य ज्ञान-वान् भिषक् ॥ २४ ॥

श्लोक 25

शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च ।
शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च ॥ २५ ॥

श्लोक 26

काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः ।
जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥ २६ ॥

श्लोक 27

कङ्को विशस्तः शस्तश् च जीवत्-खड्गादि-शृङ्ग-स्थान् धारयेद् औषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः ।
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ॥ २७ ॥

श्लोक 28

धारयेच् चौषधीः श्रेष्ठा धारयेद् औषधीश् चेष्टा आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-ऽभिरक्षिणीम् ।
षट्-सप्ताष्टम-मासेषु नी-रुजस्य शुभे ऽहनि ॥ २८ ॥

श्लोक 29

षट्-सप्ताष्टसु मासेषु कर्णौ हिमागमे विध्येद् धात्र्य्-अङ्क-स्थस्य सान्त्वयन् ।
प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः ॥ २९ ॥

श्लोक 30

दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना ।
मध्यतः कर्ण-पीठस्य किञ्-चिद् गण्डाश्रयं प्रति ॥ ३० ॥

श्लोक 31

जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते ।
घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते ॥ ३१ ॥

श्लोक 32

विध्येद् दैव-कृते च्छिद्रे सकृद् एवर्जु लाघवात् ।
नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः ॥ ३२ ॥

श्लोक 33

कालिका-मर्मरी-रक्तास् तद्-व्यधाद् राग-रुग्-ज्वराः ।
स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः ॥ ३३ ॥

श्लोक 34

तद्-बाधाद् राग-रुग्-ज्वराः तेषां यथामयं कुर्याद् विभज्याशु चिकित्सितम् ।
स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः ॥ ३४ ॥

श्लोक 35

स्थान-व्यधान् न रुधिरं स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् ।
आम-तैलेन सिञ्चेच् च बहलां तद्-वद् आरया ॥ ३५ ॥

श्लोक 36

विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी ।
वर्तिस् त्र्य्-अहात् ततो रूढं वर्धयेत शनैः शनैः ॥ ३६ ॥

श्लोक 37

संचार्यान्या स्थवीयसी वर्तिस् त्र्य्-अहात् ततो रूढां अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् ।
पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम् ॥ ३७ ॥

श्लोक 38

जात-दन्तं शिशुं शीते क्रम-शो ऽपनयेत् स्तनात् प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः ।
अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥ ३८ ॥

श्लोक 39

दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः ।
संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः ॥ ३९ ॥

श्लोक 40

रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् अ-विषादकैः ।
अन्य-त्रात्ययिकाद् व्याधेर् विरेकं सु-तरां त्यजेत् ॥ ४० ॥

श्लोक 41

भेषजैर् अ-विषादिकैः भेषजैर् अ-विपादिकैः भेषजैर् अ-विपादकैः त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः ।
वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच् च तम् ॥ ४१ ॥

श्लोक 42

त्रासयेन् ना-विधेयं च  वस्त्र-पातात् खर-स्पर्शात् वस्त्र-पातात् पर-स्पर्शात् पालयेल् लङ्घिताच् च तम् ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः ।
स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृद् घृतम् ॥ ४२ ॥

श्लोक 43

आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् ।
वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः ॥ ४३ ॥

श्लोक 44

वचेन्दुलेखा मण्डूकी शङ्खपुष्पी शतावरी ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः ।
अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम् ॥ ४४ ॥

श्लोक 45

ब्रह्मसोमांर्ता ब्राह्मी कल्की-कृत्य पलांशिकैः १प्रस्थं क्षीरं चतुर्-गुणम् तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् ।
अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः ॥ ४५ ॥

श्लोक 46

वाङ्-मेधा-स्मृति-कृत् परम् वाङ्-मेधा-स्मृति-वह्नि-कृत् -पाठोग्रा-शक्र-सैन्धवैः सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् ।
वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः ॥ ४६ ॥

श्लोक 47

वाङ्-मेधा-स्मृति-बुद्धि-कृत् वचामृता-वरी-पथ्या- अपामार्गेण च घृतं साधितं पूर्व-वद् गुणैः ।
हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-काञ्चना ॥ ४७ ॥

श्लोक 48

हेम श्वेत-वचा कुष्ठं शङ्खपुष्पी स-काञ्चना शङ्खपुष्पी स-रोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा ।
चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः ॥ ४८ ॥

श्लोक 49

हेम मत्स्याक्षकः फञ्जी कैडर्यं कनकं वचा प्राश्या मधु-घृत-प्लुताः वर्षं लीढा वपुर्-मेधा-बल-वर्ण-कराः शुभाः ।
वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः ॥ ४९ ॥

श्लोक 

शुध्यते वाग् घविर्-लीढैः स-कुष्ठ-कण-जीरकैः ॥ ४९ऊअब् ॥
̆अव् शुध्यते वाग् घृतालीढैः