श्लोक 1
बलां गुडूचीं त्रि-फलां स-रास्नां द्वि-पञ्च-मूलं च पलोन्मितानि ।
अष्टौ फलान्य् अर्ध-तुलां च मांसाच् छागात् पचेद् अप्सु चतुर्थ-शेषम् ॥ १ ॥
श्लोक 2
पूतो यवानी-फल-बिल्व-कुष्ठ-वचा-शताह्वा-घन-पिप्पलीनाम् ।
कल्कैर् गुड-क्षौद्र-घृतैः स-तैलैर् युक्तः सुखोष्णो लवणान्वितश् च ॥ २ ॥
श्लोक 3
पूतं यवानी-फल-बिल्व-कुष्ठ- वस्तिः परं सर्व-गद-प्रमाथी स्वस्थे हितो जीवन-बृंहणश् च ।
वस्तौ च यस्मिन् पठितो न कल्कः सर्व-त्र दद्याद् अमुम् एव तत्र ॥ ३ ॥
श्लोक 4
वस्तौ च यस्मिन् कथितो न कल्कः द्वि-पञ्च-मूलस्य रसो ऽम्ल-युक्तः स-च्छाग-मांसस्य स-पूर्व-पेष्यः ।
त्रि-स्नेह-युक्तः प्रवरो निरूहः सर्वानिल-व्याधि-हरः प्रदिष्टः ॥ ४ ॥
श्लोक 5
स-च्छाग-मांसस्य स-पूर्व-कल्कः बला-पटोली-लघु-पञ्च-मूल-त्रायन्तिकैरण्ड-यवात् सु-सिद्धात् ।
प्रस्थो रसाच् छाग-रसार्ध-युक्तः साध्यः पुनः प्रस्थ-समः स यावत् ॥ ५ ॥
श्लोक 6
प्रियङ्गु-कृष्णा-घन-कल्क-युक्तः स-तैल-सर्पिर्-मधु-सैन्धवश् च ।
स्याद् दीपनो मांस-बल-प्रदश् च चक्षुर्-बलं चोपदधाति सद्यः ॥ ६ ॥
श्लोक 7
एरण्ड-मूलात् त्रि-पलं पलाशात् तथा पलांशं लघु-पञ्च-मूलम् ।
रास्ना-बला-छिन्नरुहाश्वगन्धा-पुनर्नवारग्वध-देवदारु ॥ ७ ॥
श्लोक 8
तथा पलांशं लघु-पञ्च-मूलात् फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेद् अष्टम-शेषिते ऽस्मिन् ।
वचा-शताह्वा-हपुषा-प्रियङ्गु-यष्टी-कणा-वत्सक-बीज-मुस्तम् ॥ ८ ॥
श्लोक 9
दद्यात् सु-पिष्टं सह-तार्क्ष्य-शैलम् अक्ष-प्रमाणं लवणांश-युक्तम् ।
स-माक्षिकस् तैल-युतः स-मूत्रो वस्तिर् जयेल् लेखन-दीपनो ऽसौ ॥ ९ ॥
श्लोक 10
वस्तिर् जयेद् दीपन-पाचनो ऽसौ जङ्घोरु-पाद-त्रिक-पृष्ठ-कोष्ठ-हृद्-गुह्य-शूलं गुरु-तां विबन्धम् ।
गुल्माश्म-वर्ध्म-ग्रहणी-गुदोत्थांस् तास् तांश् च रोगान् कफ-वात-जातान् ॥ १० ॥
श्लोक 11
गुल्माश्म-वर्ध्म-ग्रहणी-विकारांस् तांस् तांश् च रोगान् कफ-वात-जांश् च यष्ट्य्-आह्व-लोध्राभय-चन्दनैश् च शृतं पयो ऽग्र्यं कमलोत्पलैश् च ।
स-शर्करा-क्षौद्र-घृतं सु-शीतं पित्तामयान् हन्ति स-जीवनीयम् ॥ ११ ॥
श्लोक 12
स-शर्करं क्षौद्र-युतं सु-शीतं पित्तामयं हन्ति स-जीवनीयम् रास्नां वृषं लोहितिकाम् अनन्तां बलां कनीयस्-तृण-पञ्च-मूल्यौ ।
गोपाङ्गना-चन्दन-पद्मकर्द्धि-यष्ट्य्-आह्व-लोध्राणि पलार्धकानि ॥ १२ ॥
श्लोक 13
गोपाङ्गना-चन्दन-पद्मकाह्व- निःक्वाथ्य तोयेन रसेन तेन शृतं पयो ऽर्धाढकम् अम्बु-हीनम् ।
जीवन्ति-मेदर्द्धि-वरी-विदारी-वीरा-द्वि-काकोलि-कसेरुकाभिः ॥ १३ ॥
श्लोक 14
सितोपला-जीवक-पद्म-रेणु-प्रपौण्डरीकोत्पल-पुण्डरीकैः ।
लोध्रात्मगुप्ता-मधुयष्टिकाभिर् नागाह्व-मुञ्जातक-चन्दनैश् च ॥ १४ ॥
श्लोक 15
लोहात्मगुप्ता-मधुयष्टिकाभिर् पिष्टैर् घृत-क्षौद्र-युतैर् निरूहं स-सैन्धवं शीतलम् एव दद्यात् ।
प्रत्यागते धन्व-रसेन शालीन् क्षीरेण वाद्यात् परिषिक्त-गात्रः ॥ १५ ॥
श्लोक 16
दाहातिसार-प्रदरास्र-पित्त-हृत्-पाण्डु-रोगान् विषम-ज्वरं च ।
स-गुल्म-मूत्र-ग्रह-कामलादीन् सर्वामयान् पित्त-कृतान् निहन्ति ॥ १६ ॥
श्लोक 17
दाहातिसार-प्रदराम्ल-पित्त-हृत्-पाण्डु-रोगान् विषम-ज्वरांश् च -हृत्-पाण्डु-रोगान् विषमान् ज्वरांश् च कोशातकारग्वध-देवदारु-मूर्वा-श्वदंष्ट्रा-कुटजार्क-पाठाः ।
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः ॥ १७ ॥
श्लोक 18
तान् सर्षपैला-मदनैः स-कुष्ठैर् अक्ष-प्रमाणैः प्रसृतैश् च युक्तान् ।
क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य ॥ १८ ॥
श्लोक 19
क्षारस्य तैलस्य च सर्षपस्य दद्यान् निरूहं कफ-रोगिताय मन्दाग्नये चाशन-विद्विषे च ।
वक्ष्ये मृदून् स्नेह-कृतो निरूहान् सुखोचितानां प्रसृतैः पृथक् तु ॥ १९ ॥
श्लोक 20
अथेमान् सु-कुमाराणां निरूहान् स्नेहनान् मृदून् ।
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् ॥ २० ॥
श्लोक 21
कर्मणा विप्लुतानां तु क्षीराद् द्वौ प्रसृतौ कार्यौ मधु-तैल-घृतात् त्रयः ।
खजेन मथितो वस्तिर् वात-घ्नो बल-वर्ण-कृत् ॥ २१ ॥
श्लोक 22
एकैकः प्रसृतस् तैल-प्रसन्ना-क्षौद्र-सर्पिषाम् ।
बिल्वादि-मूल-क्वाथाद् द्वौ कौलत्थाद् द्वौ स वात-जित् ॥ २२ ॥
श्लोक 23
एकैकः प्रसृतिस् तैल- पटोल-निम्ब-भूतीक-रास्ना-सप्तच्छदाम्भसः ।
प्रसृतः पृथग् आज्याच् च वस्तिः सर्षप-कल्क-वान् ॥ २३ ॥
श्लोक 24
पटोल-निम्ब-पूतीक-रास्ना-सप्तच्छदाम्भसाम् प्रसृताः पृथग् आज्याच् च स पञ्च-तिक्तो ऽभिष्यन्द-कृमि-कुष्ठ-प्रमेह-हा ।
चत्वारस् तैल-गो-मूत्र-दधि-मण्डाम्ल-काञ्जिकात् ॥ २४ ॥
श्लोक 25
कृमि-कुष्ठ-प्रमोह-हा -कृमि-कुष्ठ-प्रमेह-जित् प्रसृताः सर्षपैः पिष्टैर् विट्-सङ्गानाह-भेदनः ।
पयस्येक्षु-स्थिरा-रास्ना-विदारी-क्षौद्र-सर्पिषाम् ॥ २५ ॥
श्लोक 26
विट्-सङ्गानाह-भेदनाः विट्-सङ्गानाह-भेदिनः -विदारी-क्षौद्र-सर्पिषः एकैकः प्रसृतो वस्तिः कृष्णा-कल्को वृष-त्व-कृत् ।
सिद्ध-वस्तीन् अतो वक्ष्ये सर्व-दा यान् प्रयोजयेत् ॥ २६ ॥
श्लोक 27
निर्-व्यापदो बहु-फलान् बल-पुष्टि-करान् सुखान् ।
मधु-तैले समे कर्षः सैन्धवाद् द्वि-पिचुर् मिशिः ॥ २७ ॥
श्लोक 28
एरण्ड-मूल-क्वाथेन निरूहो माधुतैलिकः ।
रसायनं प्रमेहार्शः-कृमि-गुल्मान्त्र-वृद्धि-नुत् ॥ २८ ॥
श्लोक 29
निरूहो मधु-तैलिकः -कृमि-गुल्मान्त्र-वृद्धि-हृत् स-यष्टीमधुकश् चैष चक्षुष्यो रक्त-पित्त-जित् ।
यापनो घन-कल्केन मधु-तैल-रसाज्य-वान् ॥ २९ ॥
श्लोक 30
पायु-जानूरु-वृषण-वस्ति-मेहन-शूल-जित् ।
प्रसृतांशैर् घृत-क्षौद्र-वसा-तैलैः प्रकल्पयेत् ॥ ३० ॥
श्लोक 31
पायु-जङ्घोरु-वृषण- यापनं सैन्धवार्धाक्ष-हपुषार्ध-पलान्वितम् ।
एरण्ड-मूल-निःक्वाथो मधु-तैलं स-सैन्धवम् ॥ ३१ ॥
श्लोक 32
मधु-तैलं स-सैन्धवः एष युक्त-रथो वस्तिः स-वचा-पिल्लली-फलः ।
स क्वाथो मधु-षड्ग्रन्था-शताह्वा-हिङ्गु-सैन्धवम् ॥ ३२ ॥
श्लोक 33
तत्-क्वाथो मधु-षड्ग्रन्था- -शताह्वा-हिङ्गु-सैन्धवः सुरदारु च रास्ना च वस्तिर् दोष-हरः शिवः ।
पञ्च-मूलस्य निःक्वाथस् तैलं मागधिका मधु ॥ ३३ ॥
श्लोक 34
सुरदारु वचा रास्ना वस्तिर् दोष-हरश् च सः वस्तिर् दोष-हरः परः स-सैन्धवः स-मधुकः सिद्ध-वस्तिर् इति स्मृतः ।
द्वि-पञ्च-मूल-त्रि-फला-फल-बिल्वानि पाचयेत् ॥ ३४ ॥
श्लोक 35
गो-मूत्रे तेन पिष्टैश् च पाठा-वत्सक-तोयदैः ।
स-फलैः क्षौद्र-तैलाभ्यां क्षारेण लवणेन च ॥ ३५ ॥
श्लोक 36
क्षारेण लवणेन वा युक्तो वस्तिः कफ-व्याधि-पाण्डु-रोग-विषूचिषु ।
शुक्रानिल-विबन्धेषु वस्त्य्-आटोपे च पूजितः ॥ ३६ ॥
श्लोक 37
वस्त्य्-आटोपेषु पूजितः मुस्ता-पाठामृतैरण्ड-बला-रास्ना-पुनर्नवाः ।
मञ्जिष्ठारग्वधोशीर-त्रायमाणाक्ष-रोहिणीः ॥ ३७ ॥
श्लोक 38
बला-रास्ना-पुनर्नवम् -त्रायमाणाक्ष-रोहिणि कनीयः पञ्च-मूलं च पालिकं मदनाष्टकम् ।
जलाढके पचेत् तच् च पाद-शेषं परिस्रुतम् ॥ ३८ ॥
श्लोक 39
क्षीर-द्वि-प्रस्थ-संयुक्तं क्षीर-शेषं पुनः पचेत् ।
स-पाद-जाङ्गल-रसः स-सर्पिर्-मधु-सैन्धवः ॥ ३९ ॥
श्लोक 40
पिष्टैर् यष्टी-मिशि-श्यामा-कलिङ्गक-रसाञ्जनैः ।
वस्तिः सुखोष्णो मांसाग्नि-बल-शुक्र-विवर्धनः ॥ ४० ॥
श्लोक 41
वातासृङ्-मोह-मेहार्शो-गुल्म-विण्-मूत्र-संग्रहान् ।
विषम-ज्वर-वीसर्प-वर्ध्माध्मान-प्रवाहिकाः ॥ ४१ ॥
श्लोक 42
वात-रक्त-प्रमेहार्शो- वातासृङ्-मेह-मेदो-ऽर्शो- -गुल्म-विण्-मूत्र-संग्रहम् वङ्क्षणोरु-कटी-कुक्षि-मन्या-श्रोत्र-शिरो-रुजः ।
हन्याद् असृग्-दरोन्माद-शोफ-कासाश्म-कुण्डलान् ॥ ४२ ॥
श्लोक 43
चक्षुष्यः पुत्र-दो राजा यापनानां रसायनम् ।
मृगाणां लघु-वद्राणां दश-मूलस्य चाम्भसा ॥ ४३ ॥
श्लोक 44
यापनानां रसायनः मृगाणां लघु-बभ्रूणां मृगाणां लघु-बर्हाणां मृगाणां लघु-वड्राणां मृगाणां लघु-वभ्राणां मृगाणां लघु-बभ्राणां मृगाणां लघु-वर्गाणां हपुषा-मिशि-गाङ्गेयी-कल्कैर् वात-हरः परम् ।
निरूहो ऽत्य्-अर्थ-वृष्यश् च महा-स्नेह-समन्वितः ॥ ४४ ॥
श्लोक 45
कल्कैर् वात-हरैः परम् -कल्को वात-हरः परम् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् ।
लघुना पञ्च-मूलेन पालिकेन समन्वितम् ॥ ४५ ॥
श्लोक 46
पक्त्वा क्षीर-जले क्षीर-शेषं स-घृत-माक्षिकम् ।
तद् विदारी-कणा-यष्टी-शताह्वा-फल-कल्क-वत् ॥ ४६ ॥
श्लोक 47
शताह्वा-फल-कल्क-वान् वस्तिर् ईषत्-पटु-युतः परमं बल-शुक्र-कृत् ।
कल्पनेयं पृथक् कार्या तित्तिरि-प्रभृतिष्व् अपि ॥ ४७ ॥
श्लोक 48
परमं बल-वर्ण-कृत् विष्किरेषु समस्तेषु प्रतुद-प्रसहेषु च ।
जल-चारिषु तद्-वच् च मत्स्येषु क्षीर-वर्जिता ॥ ४८ ॥
श्लोक 49
गोधा-नकुल-मार्जार-शल्यकोन्दुर-जं पलम् ।
पृथग् दश-पलं क्षीरे पञ्च-मूलं च साधयेत् ॥ ४९ ॥
श्लोक 50
तत् पयः फल-वैदेही-कल्क-द्वि-लवणान्वितम् ।
स-सिता-तैल-मध्व्-आज्यो वस्तिर् योज्यो रसायनम् ॥ ५० ॥
श्लोक 51
स-सिता-तैल-मध्व्-आज्यं स-सिता-तैल-मध्व्-आज्यं व्यायाम-मथितोरस्क-क्षीणेन्द्रिय-बलौजसाम् ।
विबद्ध-शुक्र-विण्-मूत्र-खुड-वात-विकारिणाम् ॥ ५१ ॥
श्लोक 52
विबन्ध-शुक्र-विण्-मूत्र- गज-वाजि-रथ-क्षोभ-भग्न-जर्जरितात्मनाम् ।
पुनर्-नव-त्वं कुरुते वाजी-करणम् उत्तमम् ॥ ५२ ॥
श्लोक 53
वाजी-करण-सत्-तमम् सिद्धेन पयसा भोज्यम् आत्मगुप्तोच्चटेक्षुरैः ।
स्नेहांश् चा-यन्त्रणान् सिद्धान् सिद्ध-द्रव्यैः प्रकल्पयेत् ॥ ५३ ॥
श्लोक 54
स्नेहांश् चाढ्य-गुणान् सिद्धान् दोष-घ्नाः स-परीहारा वक्ष्यन्ते स्नेह-वस्तयः ।
दश-मूलं बलां रास्नाम् अश्वगन्धां पुनर्नवाम् ॥ ५४ ॥
श्लोक 55
दोष-घ्ना निष्-परीहारा गुडूच्यैरण्ड-भूतीक-भार्गी-वृषक-रोहिषम् ।
शतावरीं सहचरं काकनासां पलांशकम् ॥ ५५ ॥
श्लोक 56
गुडूच्यैरण्ड-पूतीक- काकनासां पलांशिकम् काकनासां पलांशिकाम् यव-माषातसी-कोल-कुलत्थान् प्रसृतोन्मितान् ।
वहे विपाच्य तोयस्य द्रोण-शेषेण तेन च ॥ ५६ ॥
श्लोक 57
पचेत् तैलाढकं पेष्यैर् जीवनीयैः पलोन्मितैः ।
अनुवासनम् इत्य् एतत् सर्व-वात-विकार-नुत् ॥ ५७ ॥
श्लोक 58
पचेत् तैलाड्ःकं कल्कैर् सर्व-वात-विकार-जित् आनूपानां वसा तद्-वज् जीवनीयोपसाधिता ।
शताह्वा-चिरिबिल्वाम्लैस् तैलं सिद्धं समीरणे ॥ ५८ ॥
श्लोक 59
शताह्वा-यव-बिल्वाम्लैस् तैलं तद्-वत् समीरणे सैन्धवेनाग्नि-वर्णेन तप्तं चानिल-जिद् घृतम् ।
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ॥ ५९ ॥
श्लोक 60
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् ।
स्वगुप्तां क्षीर-काकोलीं कर्कटाख्यां शठीं वचाम् ॥ ६० ॥
श्लोक 61
पिष्ट्वा तैल-घृतं क्षीरे साधयेत् तच्-चतुर्-गुणे ।
बृंहणं वात-पित्त-घ्नं बल-शुक्राग्नि-वर्धनम् ॥ ६१ ॥
श्लोक 62
पिष्ट्वा तैलं घृतं क्षीरे साधयेत् च चतुर्-गुणे रजः-शुक्रामय-हरं पुत्रीयं चानुवासनम् ।
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा ॥ ६२ ॥
श्लोक 63
रजः-शुक्रानिल-हरं पुत्रीयम् अनुवासनम् ह्रीवेरं मधुकं भार्गी देवदारु स-कट्फलम् ।
नागरं पुष्करं मेदा चविका चित्रकः शठी ॥ ६३ ॥
श्लोक 64
ह्रीवेरं पद्मकं भार्गी विडङ्गातिविषे श्यामा हरेणुर् नीलिनी स्थिरा ।
बिल्वाजमोद-चपला दन्ती रास्ना च तैः समैः ॥ ६४ ॥
श्लोक 65
विडङ्गातिविषा-श्यामा बिल्वाजमोदा-चपला बिल्वाजमोदे चपला साध्यम् एरण्ड-तैलं वा तैलं वा कफ-रोग-नुत् ।
वर्ध्मोदावर्त-गुल्मार्शः-प्लीह-मेहाढ्य-मारुतान् ॥ ६५ ॥
श्लोक 66
साध्यम् एरण्ड-जं तैलं कफ-वात-ज-रोग-नुत् आनाहम् अश्मरीं चाशु हन्यात् तद् अनुवासनम् ।
साधितं पञ्च-मूलेन तैलं बिल्वादिनाथ-वा ॥ ६६ ॥
श्लोक 67
कफ-घ्नं कल्पयेत् तैलं द्रव्यैर् वा कफ-घातिभिः ।
फलैर् अष्ट-गुणैश् चाम्लैः सिद्धम् अन्वासनं कफे ॥ ६७ ॥
श्लोक 68
फलैर् अष्ट-गुणे चाम्ले मृदु-वस्ति-जडी-भूते तीक्ष्णो ऽन्यो वस्तिर् इष्यते ।
तीक्ष्णैर् विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः ॥ ६८ ॥
श्लोक 69
मृदु-वस्तौ जडी-भूते तीक्ष्ण-त्वं मूत्र-पील्व्-अग्नि-लवण-क्षार-सर्षपैः ।
प्राप्त-कालं विधातव्यं क्षीराज्याद्यैस् तु मार्दवम् ॥ ६९ ॥
श्लोक 70
तीक्ष्ण-त्वं मूत्र-बिल्वाग्नि- क्षीराज्याद्यैश् च मार्दवम् क्षीराद्यैश् चैव मार्दवम् घृत-क्षीरैस् तु मार्दवम् बल-काल-रोग-दोष-प्रकृतीः प्रविभज्य योजितो वस्तिः ।
स्वैः स्वैर् औषध-वर्गैः स्वान् स्वान् रोगान् निवर्तयति ॥ ७० ॥
श्लोक 71
प्रकृतीः प्रविवीक्ष्य योजितो वस्तिः स्वान् स्वान् दोषान् निवर्तयति उष्णार्तानां शीताञ् छीतार्तानां तथा सुखोष्णांश् च ।
तद्-योग्यौषध-युक्तान् वस्तीन् संतर्क्य युञ्जीत ॥ ७१ ॥
श्लोक 72
वस्तीन् न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु ।
मेदस्विनो विशोध्या ये च नराः कुष्ठ-मेहार्ताः ॥ ७२ ॥
श्लोक 73
दद्याद् व्याधिषु च शोधनीयेषु न क्षीण-क्षत-दुर्-बल-मूर्छित-कृश-शुष्क-शुद्ध-देहानाम् ।
दद्याद् विशोधनीयान् दोष-निबद्धायुषो ये च ॥ ७३ ॥