अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 21

श्लोक 1

केवलं निर्-उपस्तम्भम् आदौ स्नेहैर् उपाचरेत् ।
वायुं सर्पिर्-वसा-मज्ज-तैल-पानैर् नरं ततः ॥ १ ॥

श्लोक 2

स्नेह-क्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ।
यूषैर् ग्राम्यौदकानूप-रसैर् वा स्नेह-संयुतैः ॥ २ ॥

श्लोक 3

पायसैः कृशरैः साम्ल-लवणैः सानुवासनैः ।
नावनैस् तर्पणैश् चान्नैः सु-स्निग्धैः स्वेदयेत् ततः ॥ ३ ॥

श्लोक 4

स्व्-अभ्यक्तं स्नेह-संयुक्तैः शङ्कराद्यैः पुनः पुनः ।
स्नेहाक्तं स्विन्नम् अङ्गं तु वक्रं स्तब्धं स-वेदनम् ॥ ४ ॥

श्लोक 5

स्नेहाक्त-स्विन्नम् अङ्गं तु यथेष्टम् आनामयितुं सुखम् एव हि शक्यते ।
शुष्काण्य् अपि हि काष्ठानि स्नेह-स्वेदोपपादनैः ॥ ५ ॥

श्लोक 6

स्नेह-स्वेदोपनाहनैः शक्यं कर्मण्य-तां नेतुं किम् उ गात्राणि जीवताम् ।
हर्ष-तोद-रुग्-आयाम-शोफ-स्तम्भ-ग्रहादयः ॥ ६ ॥

श्लोक 7

स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते ।
स्नेहश् च धातून् संशुष्कान् पुष्णात्य् आशूपयोजितः ॥ ७ ॥

श्लोक 8

पुष्णात्य् आशु प्रयोजितः बलम् अग्नि-बलं पुष्टिं प्राणांश् चास्याभिवर्धयेत् ।
अ-सकृत् तं पुनः स्नेहैः स्वेदैश् च प्रतिपादयेत् ॥ ८ ॥

श्लोक 9

प्राणं चास्याभिवर्धयेत् तथा स्नेह-मृदौ कोष्ठे न तिष्ठन्त्य् अनिलामयाः ।
यद्य् एतेन स-दोष-त्वात् कर्मणा न प्रशाम्यति ॥ ९ ॥

श्लोक 10

मृदुभिः स्नेह-संयुक्तैर् भेषजैस् तं विशोधयेत् ।
घृतं तिल्वक-सिद्धं वा सातला-सिद्धम् एव वा ॥ १० ॥

श्लोक 11

पयसैरण्ड-तैलं वा पिबेद् दोष-हरं शिवम् ।
स्निग्धाम्ल-लवणोष्णाद्यैर् आहारैर् हि मलश् चितः ॥ ११ ॥

श्लोक 12

स्रोतो बद्ध्वानिलं रुन्ध्यात् तस्मात् तम् अनुलोमयेत् ।
दुर्-बलो यो ऽ-विरेच्यः स्यात् तं निरूहैर् उपाचरेत् ॥ १२ ॥

श्लोक 13

स्रोतो रुद्ध्वानिलं रुन्ध्यात् दीपनैः पाचनीयैर् वा भोज्यैर् वा तद्-युतैर् नरम् ।
संशुद्धस्योत्थिते चाग्नौ स्नेह-स्वेदौ पुनर् हितौ ॥ १३ ॥

श्लोक 14

आमाशय-गते वायौ वमित-प्रतिभोजिते ।
सुखाम्बुना षड्-धरणं वचादिं वा प्रयोजयेत् ॥ १४ ॥

श्लोक 15

सुखाम्बुना षट्-चरणं संधुक्षिते ऽग्नौ परतो विधिः केवल-वातिकः ।
मत्स्यान् नाभि-प्रदेश-स्थे सिद्धान् बिल्व-शलाटुभिः ॥ १५ ॥

श्लोक 16

वस्ति-कर्म त्व् अधो नाभेः शस्यते चावपीडकः ।
कोष्ठ-गे क्षार-चूर्णाद्या हिताः पाचन-दीपनाः ॥ १६ ॥

श्लोक 17

हृत्-स्थे पयः स्थिरा-सिद्धं शिरो-वस्तिः शिरो-गते ।
स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥ १७ ॥

श्लोक 18

स्वेदाभ्यङ्ग-निवातानि हृद्यं चान्नं त्वग्-आश्रिते ।
शीताः प्रदेहा रक्त-स्थे विरेको रक्त-मोक्षणम् ॥ १८ ॥

श्लोक 19

स्वेदाभ्यङ्गानि शस्तानि विरेको मांस-मेदः-स्थे निरूहः शमनानि च ।
बाह्याभ्यन्तरतः स्नेहैर् अस्थि-मज्ज-गतं जयेत् ॥ १९ ॥

श्लोक 20

प्रहर्षो ऽन्नं च शुक्र-स्थे बल-शुक्र-करं हितम् ।
विबद्ध-मार्गं दृष्ट्वा तु शुक्रं दद्याद् विरेचनम् ॥ २० ॥

श्लोक 21

बल्यं शुक्र-करं हितम् विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत् क्रियाम् ।
गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥ २१ ॥

श्लोक 22

विरिक्त-प्रतिभुक्तस्य सिता-काश्मर्य-मधुकैः सिद्धम् उत्थापने पयः ।
स्नाव-संधि-सिरा-प्राप्ते स्नेह-दाहोपनाहनम् ॥ २२ ॥

श्लोक 23

तैलं संकुचिते ऽभ्यङ्गो माष-सैन्धव-साधितम् ।
आगार-धूम-लवण-तैलैर् लेपः स्रुते ऽसृजि ॥ २३ ॥

श्लोक 24

सुप्ते ऽङ्गे वेष्ट-युक्ते तु कर्तव्यम् उपनाहनम् ।
अथापतानकेनार्तम् अ-स्रस्ताक्षम् अ-वेपनम् ॥ २४ ॥

श्लोक 25

अ-स्तब्ध-मेढ्रम् अ-स्वेदं बहिर्-आयाम-वर्जितम् ।
अ-खट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥ २५ ॥

श्लोक 26

तत्र प्राग् एव सु-स्निग्ध-स्विन्नाङ्गे तीक्ष्ण-नावनम् ।
स्रोतो-विशुद्धये युञ्ज्याद् अच्छ-पानं ततो घृतम् ॥ २६ ॥

श्लोक 27

विदार्य्-आदि-गण-क्वाथ-दधि-क्षीर-रसैः शृतम् ।
नाति-मात्रं तथा वायुर् व्याप्नोति सहसैव वा ॥ २७ ॥

श्लोक 28

कुलत्थ-यव-कोलानि भद्रदार्व्-आदिकं गणम् ।
निःक्वाथ्यानूप-मांसं च तेनाम्लैः पयसापि च ॥ २८ ॥

श्लोक 29

स्वादु-स्कन्ध-प्रतीवापं महा-स्नेहं विपाचयेत् ।
सेकाभ्यङ्गावगाहान्न-पान-नस्यानुवासनैः ॥ २९ ॥

श्लोक 30

स हन्ति वातं ते ते च स्नेह-स्वेदाः सु-योजिताः ।
वेगान्तरेषु मूर्धानम् अ-सकृच् चास्य रेचयेत् ॥ ३० ॥

श्लोक 31

अवपीडैः प्रधमनैस् तीक्ष्णैः श्लेष्म-निबर्हणैः ।
श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ॥ ३१ ॥

श्लोक 

सौवर्चलाभया-व्योष-सिद्धं सर्पिश् चले ऽधिके ॥ ३१ऊअब् ॥

श्लोक 32

पलाष्टकं तिल्वकतो वरायाः प्रस्थं पलांशं गुरु-पञ्च-मूलम् ।
सैरण्ड-सिंही-त्रिवृतं घटे ऽपां पक्त्वा पचेत् पाद-शृतेन तेन ॥ ३२ ॥

श्लोक 33

दध्नः पात्रे याव-शूकात् त्रि-बिल्वैः सर्पिः-प्रस्थं हन्ति तत् सेव्यमानम् ।
दुष्टान् वातान् एक-सर्वाङ्ग-संस्थान् योनि-व्यापद्-गुल्म-वर्ध्मोदरं च ॥ ३३ ॥

श्लोक 34

दध्नः पात्रे याव-शूक-त्रि-बिल्वैः विधिस् तिल्वक-वज् ज्ञेयो रम्यकाशोकयोर् अपि ॥ ३४अब् ॥

श्लोक 35

शम्याकाशोकयोर् अपि चिकित्सितम् इदं कुर्याच् छुद्ध-वातापतानके ।
संसृष्ट-दोषे संसृष्टं चूर्णयित्वा कफान्विते ॥ ३५ ॥

श्लोक 36

तुम्बुरूण्य् अभया हिङ्गु पौष्करं लवण-त्रयम् ।
यव-क्वाथाम्बुना पेयं हृत्-पार्श्वार्त्य्-अपतन्त्रके ॥ ३६ ॥

श्लोक 37

हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्ल-वेतसम् ।
पिबेद् वा श्लेष्म-पवन-हृद्-रोगोक्तं च शस्यते ॥ ३७ ॥

श्लोक 38

आयामयोर् अर्दित-वद् बाह्याभ्यन्तरयोः क्रिया ।
तैल-द्रोण्यां च शयनम् आन्तरो ऽत्र सु-दुस्-तरः ॥ ३८ ॥

श्लोक 39

वि-वर्ण-दन्त-वदनः स्रस्ताङ्गो नष्ट-चेतनः ।
प्रस्विद्यंश् च धनुः-ष्कम्भी दश-रात्रं न जीवति ॥ ३९ ॥

श्लोक 40

प्रस्विद्यंश् च धनुः-स्तम्भी वेगेष्व् अतो अन्य-था जीवेन् मन्देषु विनतो जडः ।
खञ्जः कुणिः पक्ष-हतः पङ्गुलो विकलो ऽथ-वा ॥ ४० ॥

श्लोक 41

पङ्गुलो विकलो ऽपि वा हनु-स्रंसे हनू स्निग्ध-स्विन्नौ स्व-स्थानम् आनयेत् ।
उन्नामयेच् च कुशलश् चिबुकं विवृत्ते मुखे ॥ ४१ ॥

श्लोक 42

नामयेत् संवृते शेषम् एकायाम-वद् आचरेत् ।
जिह्वा-स्तम्भे यथावस्थं कार्यं वात-चिकित्सितम् ॥ ४२ ॥

श्लोक 

वाग्-ग्रहे कोष्ण-तोयेन वेतसाम्लं पिबेन् नरः ।
मातुलुङ्ग-रसं तद्-वद् धिङ्गु-सौवर्चलान्वितम् ॥ ४२+१ ॥

श्लोक 43

अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षि-तर्पणम् ।
स-शोफे वमनं दाह-राग-युक्ते सिरा-व्यधः ॥ ४३ ॥

श्लोक 

नव-नीतेन संयुक्तां खादेन् माषेण्डरीं नरः ।
दुर्-वारम् अर्दितं हन्ति सप्ताहान् नात्र संशयः ॥ ४३+१ ॥

श्लोक 44

स्नेहनं स्नेह-संयुक्तं पक्षाघाते विरेचनम् ।
अव-बाहौ हितं नस्यं स्नेहश् चोत्तर-भक्तिकः ॥ ४४ ॥

श्लोक 

माष-बला-शुक-शिम्बी-कट्तृण-रास्नाश्वगन्धोरुबूकाणाम् ।
क्वाथो नस्य-निपीतो रामठ-लवणान्वितः कोष्णः ॥ ४४.१+१ ॥

श्लोक 

अपनयति पक्ष-वातं मन्या-स्तम्भं स-कर्ण-नाद-रुजम् ।
दुर्-जयम् अर्दित-वातं सप्ताहाज् जयति चावश्यम् ॥ ४४.१+२ ॥

श्लोक

गुडमञ्जर्या खपुरं वृषभी-मूलं च शिशिर-जल-पिष्टम् ।
नावन-विधौ प्रयोजितम् अव-बाहुक-गल-रुजार्ति-हरम् ॥ ४४+१ ॥

श्लोक 

दश-मूल-बला-माष-क्वाथं तैलाज्य-मिश्रितम् ।
सायं भुक्त्वा पिबेन् नस्यं विश्वाच्याम् अव-बाहुके ॥ ४४+२ ॥

श्लोक 45

ऊरु-स्तम्भे तु न स्नेहो न च संशोधनं हितम् ।
श्लेष्माम-मेदो-बाहुल्याद् युक्त्या तत्-क्षपणान्य् अतः ॥ ४५ ॥

श्लोक 46

ऊरु-स्तम्भे न च स्नेहो कुर्याद् रूक्षोपचारश् च यव-श्यामाक-कोद्रवाः ।
शाकैर् अ-लवणैः शस्ताः किञ्-चित्-तैलैर् जलैः शृतैः ॥ ४६ ॥

श्लोक 47

जाङ्गलैर् अ-घृतैर् मांसैर् मध्व्-अम्भो-ऽरिष्ट-पायिनः ।
वत्सकादिर् हरिद्रादिर् वचादिर् वा स-सैन्धवः ॥ ४७ ॥

श्लोक 48

आढ्य-वाते सुखाम्भोभिः पेयः षड्-धरणो ऽथ-वा ।
लिह्यात् क्षौद्रेण वा श्रेष्ठा-चव्य-तिक्ता-कणा-घनात् ॥ ४८ ॥

श्लोक 

आम-वाते सुखाम्भोभिः पेयः षट्-चरणो ऽथ-वा -चव्य-तिक्ता-कणा-घनान् चित्रकेन्द्रयवाः पाठा कटुकातिविषा निशा ।
वात-व्याधि-प्रशमनो योगः षड्-धरणाह्वयः ॥ ४८.१+१ ॥

श्लोक 49

कल्कं स-मधु वा चव्य-पथ्याग्नि-सुरदारु-जम् ।
मूत्रैर् वा शीलयेत् पथ्यां गुग्गुलुं गिरिसंभवम् ॥ ४९ ॥

श्लोक 50

व्योषाग्नि-मुस्त-त्रि-फला-विडङ्गैर् गुग्गुलुं समम् ।
खादन् सर्वाञ् जयेद् व्याधीन् मेदः-श्लेष्माम-वात-जान् ॥ ५० ॥

श्लोक 51

शाम्यत्य् एवं कफाक्रान्तः स-मेदस्कः प्रभञ्जनः ।
क्षार-मूत्रान्वितान् स्वेदान् सेकान् उद्वर्तनानि च ॥ ५१ ॥

श्लोक 52

कुर्याद् दिह्याच् च मूत्राढ्यैः करञ्ज-फल-सर्षपैः ।
मूलैर् वाप्य् अर्क-तर्कारी-निम्ब-जैः स-सुराह्वयैः ॥ ५२ ॥

श्लोक 53

स-क्षौद्र-सर्षपा-पक्व-लोष्ट-वल्मीक-मृत्तिकैः ।
कफ-क्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥ ५३ ॥

श्लोक 54

स्थलान्य् उल्लङ्घयेन् नारीः शक्तितः परिशीलयेत् ।
स्थिर-तोयं सरः क्षेमं प्रति-स्रोतो नदीं तरेत् ॥ ५४ ॥

श्लोक 55

श्लेष्म-मेदः-क्षये चात्र स्नेहादीन् अवचारयेत् ।
स्थान-दूष्यादि चालोच्य कार्या शेषेष्व् अपि क्रिया ॥ ५५ ॥

श्लोक 

स्थानं दूष्यादि चालोच्य बृहन्-निम्ब-तरोर् मूलं वारिणा परिपेषितम् ।
संपीतं नाशयेत् क्षिप्रम् अ-साध्याम् अपि गृध्रसीम् ॥ ५५.१+१ ॥

श्लोक

तूणी-प्रतूण्योर् लवनं स-घृतं क्षार-हिङ्गु वा ।
रक्तावसेचनं कुर्याद् अभीक्ष्णं वात-कण्टके ॥ ५५.१+२ ॥

श्लोक

पिबेद् एरण्ड-तैलं वा दहेत् सूचीभिर् एव वा ।
साज्यैः सक्तुभिर् अभ्यक्तौ न चा-क्षीर-समन्वितैः ॥ ५५.१+३ ॥

श्लोक

शाल्मली-त्वग्-विलिप्तौ वा पादौ संतापम् उद्गतः ॥ ५५.१+४अब् ॥

श्लोक 56

सहचरं सुरदारु स-नागरं क्वथितम् अम्भसि तैल-विमिश्रितम् ।
पवन-पीडित-देह-गतिः पिबन् द्रुत-विलम्बित-गो भवतीच्छया ॥ ५६ ॥

श्लोक 57

रास्ना-महौषध-द्वीपि-पिप्पली-शठि-पौष्करम् ।
पिष्ट्वा विपाचयेत् सर्पिर् वात-रोग-हरं परम् ॥ ५७ ॥

श्लोक 58

निम्बामृता-वृष-पटोल-निदिग्धिकानां भागान् पृथक् दश पलान् विपचेद् घटे ऽपाम् ।
अष्टांश-शेषित-रसेन पुनश् च तेन प्रस्थं घृतस्य विपचेत् पिचु-भाग-कल्कैः ॥ ५८ ॥

श्लोक 59

निम्बामृता-वृष-पटोल-करञ्जकानां पाठा-विडङ्ग-सुरदारु-गजोपकुल्या-द्वि-क्षार-नागर-निशा-मिशि-चव्य-कुष्ठैः ।
तेजोवती-मरिच-वत्सक-दीप्यकाग्नि-रोहिण्य्-अरुष्कर-वचा-कण-मूल-युक्तैः ॥ ५९ ॥

श्लोक 60

मञ्जिष्ठयातिविषया विषया यवान्या संशुद्ध-गुग्गुलु-पलैर् अपि पञ्च-संख्यैः ।
तत् सेवितं विधमति प्रबलं समीरं संध्य्-अस्थि-मज्ज-गतम् अप्य् अथ कुष्ठम् ईदृक् ॥ ६० ॥

श्लोक 61

तत् सेवितं प्रधमति प्रबलं समीरं नाडी-व्रणार्बुद-भगन्दर-गण्ड-माला-जत्रूर्ध्व-सर्व-गद-गुल्म-गुदोत्थ-मेहान् ।
यक्ष्मा-रुचि-श्वसन-पीनस-कास-शोफ-हृत्-पाण्डु-रोग-मद-विद्रधि-वात-रक्तम् ॥ ६१ ॥

श्लोक 

-हृत्-पार्श्व-रोग-मद-विद्रधि-वात-रक्तम् रास्नाटरूष-सुरदार्व्-अमृता-शतावर्य्-एरण्ड-पुष्कर-धमासक-शुण्ठि-पथ्याः ।
निघ्नन्ति वात-ज-रुजं खलु स-श्वदंष्ट्राः शैलेय-शठ्य्-अतिविषाः क्वथिताः प्रयुक्ता ॥६१+१ ॥

श्लोक 62

बला-बिल्व-शृते क्षीरे घृत-मण्डं विपाचयेत् ।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरो-गते ॥ ६२ ॥

श्लोक 63

तद्-वत् सिद्धा वसा नक्र-मत्स्य-कूर्म-चुलूक-जा ।
विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥ ६३ ॥

श्लोक 64

जीर्णं पिण्याकं पञ्च-मूलं पृथक् च क्वाथ्यं क्वाथाभ्याम् एकतस् तैलम् आभ्याम् ।
क्षीराद् अष्टांशं पाचयेत् तेन पानाद् वाता नश्येयुः श्लेष्म-युक्ता विशेषात् ॥ ६४ ॥

श्लोक 65

प्रसारिणी-तुला-क्वाथे तैल-प्रस्थं पयः-समम् ।
द्वि-मेदा-मिशि-मञ्जिष्ठा-कुष्ठ-रास्ना-कु-चन्दनैः ॥ ६५ ॥

श्लोक 66

जीवकर्षभ-काकोली-युगलामरदारुभिः ।
कल्कितैर् विपचेत् सर्व-मारुतामय-नाशनम् ॥ ६६ ॥

श्लोक 67

स-मूल-शाखस्य सहाचरस्य तुलां समेतां दश-मूलतश् च ।
पलानि पञ्चाशद् अभीरुतश् च पादावशेषं विपचेद् वहे ऽपाम् ॥ ६७ ॥

श्लोक 68

तत्र सेव्य-नख-कुष्ठ-हिमैला-स्पृक्-प्रियङ्गु-नलिकाम्बु-शिला-जैः ।
लोहिता-नलद-लोह-सुराह्वैः कोपना-मिशि-तुरुष्क-नतैश् च ॥ ६८ ॥

श्लोक 69

तुल्य-क्षीरं पालिकैस् तैल-पात्रं सिद्धं कृच्छ्राञ् छीलितं हन्ति वातान् ।
कम्पाक्षेप-स्तम्भ-शोषादि-युक्तान् गुल्मोन्मादौ पीनसं योनि-रोगान् ॥ ६९ ॥

श्लोक 70

तुल्यं क्षीरं पालिकैस् तैल-पात्रं सहचर-तुलायास् तु रसे तैलाढकं पचेत् ।
मूल-कल्काद् दश-पलं पयो दत्त्वा चतुर्-गुणम् ॥ ७० ॥

श्लोक 71

अथ-वा नत-षड्ग्रन्था-स्थिरा-कुष्ठ-सुराह्वयात् ।
सैला-नलद-शैलेय-शताह्वा-रक्त-चन्दनात् ॥ ७१ ॥

श्लोक 72

स्थिरा-कुष्ठ-सुराह्वयान् -शताह्वा-रक्त-चन्दनान् सिद्धे ऽस्मिञ् छर्करा-चूर्णाद् अष्टा-दश-पलं क्षिपेत् ।
भेडस्य संमतं तैलं तत् कृच्छ्रान् अनिलामयान् ॥ ७२ ॥

श्लोक 73

वात-कुण्डलिकोन्माद-गुल्म-वर्ध्मादिकाञ् जयेत् ।
बला-शतं छिन्नरुहा-पादं रास्नाष्ट-भागिकम् ॥ ७३ ॥

श्लोक 74

जलाढक-शते पक्त्वा शत-भाग-स्थिते रसे ।
दधि-मस्त्व्-इक्षु-निर्यास-शुक्तैस् तैलाढकं समैः ॥ ७४ ॥

श्लोक 75

पचेत् साज-पयो-ऽर्धांशं कल्कैर् एभिः पलोन्मितैः ।
शठी-सरलदार्व्-एला-मञ्जिष्ठागुरु-चन्दनैः ॥ ७५ ॥

श्लोक 76

पद्मकातिबला-मुस्ता-शूर्पपर्णी-हरेणुभिः ।
यष्ट्य्-आह्व-सुरस-व्याघ्रनखर्षभक-जीवकैः ॥ ७६ ॥

श्लोक 77

पलाश-रस-कस्तूरी-नलिका-जाति-कोशकैः ।
स्पृक्का-कुङ्कुम-शैलेय-जाती-कटुफलाम्बुभिः ॥ ७७ ॥

श्लोक 78

जातिका-कट्फलाम्बुभिः त्वक्-कुन्दुरुक-कर्पूर-तुरुष्क-श्रीनिवासकैः ।
लवङ्ग-नख-कङ्कोल-कुष्ठ-मांसी-प्रियङ्गुभिः ॥ ७८ ॥

श्लोक 79

स्थौणेय-तगर-ध्याम-वचा-मदनक-प्लवैः ।
स-नागकेसरैः सिद्धे दद्याच् चात्रावतारिते ॥ ७९ ॥

श्लोक 80

वचा-मदन-पल्लवैः पत्त्र-कल्कं ततः पूतं विधिना तत् प्रयोजितम् ।
कासं श्वासं ज्वरं छर्दिं मूर्छां गुल्म-क्षत-क्षयान् ॥ ८० ॥

श्लोक 81

प्लीह-शोषाव् अपस्मारम् अ-लक्ष्मीं च प्रणाशयेत् ।
बला-तैलम् इदं श्रेष्ठं वात-व्याधि-विनाशनम् ॥ ८१ ॥

श्लोक 82

पाने नस्ये ऽन्वासने ऽभ्यञ्जने च स्नेहाः काले सम्यग् एते प्रयुक्ताः ।
दुष्टान् वातान् आशु शान्तिं नयेयुर् वन्ध्या नारीः पुत्र-भाजश् च कुर्युः ॥ ८२ ॥

श्लोक 83

वन्ध्या नारीः पुत्र-भाजः प्रकुर्युः स्नेह-स्वेदैर् द्रुतः श्लेष्मा यदा पक्वाशये स्थितः ।
पित्तं वा दर्शयेद् रूपं वस्तिभिस् तं विनिर्जयेत् ॥ ८३ ॥
यदा पक्वाशयं स्थितः