श्लोक 1
पाण्ड्व्-आमयी पिबेत् सर्पिर् आदौ कल्याणकाह्वयम् ।
पञ्च-गव्यं महा-तिक्तं शृतं वारग्वधादिना ॥ १ ॥
श्लोक 2
पाण्डु-रोगी पिबेत् सर्पिर् दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम् ।
चित्रकाच् छृङ्गवेराच् च पिप्पल्य्-अर्ध-पलं च तैः ॥ २ ॥
श्लोक 3
कल्कितैर् विंशति-पलं घृतस्य सलिलाढके ।
सिद्धं हृत्-पाण्डु-गुल्मार्शः-प्लीह-वात-कफार्ति-नुत् ॥ ३ ॥
श्लोक 4
दीपनं श्वास-कास-घ्नं मूढ-वातानुलोमनम् ।
दुःख-प्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥ ४ ॥
श्लोक 5
स्नेहितं वामयेत् तीक्ष्णैः पुनः स्निग्धं च शोधयेत् ।
पयसा मूत्र-युक्तेन बहु-शः केवलेन वा ॥ ५ ॥
श्लोक 6
दन्ती-फल-रसे कोष्णे काश्मर्याञ्जलिम् आसुतम् ।
द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डु-रोग-जित् ॥ ६ ॥
श्लोक 7
दन्ती-पल-रसे कोष्णे मूत्रेण पिष्टां पथ्यां वा तत्-सिद्धं वा फल-त्रयम् ।
स्वर्णक्षीरी-त्रिवृच्-छ्यामा-भद्रदारु-महौषधम् ॥ ७ ॥
श्लोक 8
गो-मूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् ।
साधितं क्षीरम् एभिर् वा पिबेद् दोषानुलोमनम् ॥ ८ ॥
श्लोक 9
मूत्रे स्थितं वा सप्ताहं पयसायो-रजः पिबेत् ।
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥ ९ ॥
श्लोक 10
शुद्धश् चोभयतो लिह्यात् पथ्यां मधु-घृत-द्रुताम् ।
विशाला-कटुका-मुस्ता-कुष्ठ-दारु-कलिङ्गकाः ॥ १० ॥
श्लोक 11
पथ्या मधु-घृत-द्रुताः विशालां कटुकां मुस्तां कुष्ठं दारु-कलिङ्गकाः कर्षांशा द्वि-पिचुर् मूर्वा कर्षार्धांशा घुणप्रिया ।
पीत्वा तच् चूर्णम् अम्भोभिः सुखैर् लिह्यात् ततो मधु ॥ ११ ॥
श्लोक 12
पाण्डु-रोगं ज्वरं दाहं कासं श्वासम् अ-रोचकम् ।
गुल्मानाहाम-वातांश् च रक्त-पित्तं च तज् जयेत् ॥ १२ ॥
श्लोक 13
वासा-गुडूची-त्रि-फला-कट्वी-भूनिम्ब-निम्ब-जः ।
क्वाथः क्षौद्र-युतो हन्ति पाण्डु-पित्तास्र-कामलाः ॥ १३ ॥
श्लोक 14
व्योषाग्नि-वेल्ल-त्रि-फला-मुस्तैस् तुल्यम् अयो-रजः ।
चूर्णितं तक्र-मध्व्-आज्य-कोष्णाम्भोभिः प्रयोजितम् ॥ १४ ॥
श्लोक 15
कामला-पाण्डु-हृद्-रोग-कुष्ठार्शो-मेह-नाशनम् ।
गुड-नागर-मण्डूर-तिलांशान् मानतः समान् ॥ १५ ॥
श्लोक 16
पिप्पली-द्वि-गुणान् दद्याद् गुटिकां पाण्डु-रोगिणे ।
ताप्यं दार्व्यास् त्वचं चव्यं ग्रन्थिकं देवदारु च ॥ १६ ॥
श्लोक 17
व्योषादि-नवकं चैतच् चूर्णयेद् द्वि-गुणं ततः ।
मण्डूरं चाञ्जन-निभं सर्वतो ऽष्ट-गुणे ऽथ तत् ॥ १७ ॥
श्लोक 18
व्योषादि-नवकं चेति पृथग् विपक्वे गो-मूत्रे वटकी-करण-क्षमे ।
प्रक्षिप्य वटकान् कुर्यात् तान् खादेत् तक्र-भोजनः ॥ १८ ॥
श्लोक 19
एते मण्डूर-वटकाः प्राण-दाः पाण्डु-रोगिणाम् ।
कुष्ठान्य् अ-जरकं शोफम् ऊरु-स्तम्भम् अ-रोचकम् ॥ १९ ॥
श्लोक 20
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च ।
ताप्याद्रि-जतु-रौप्यायो-मलाः पञ्च-पलाः पृथक् ॥ २० ॥
श्लोक 21
चित्रक-त्रि-फला-व्योष-विडङ्गैः पालिकैः सह ।
शर्कराष्ट-पलोन्मिश्राश् चूर्णिता मधुना द्रुताः ॥ २१ ॥
श्लोक 22
चूर्णिता मधुना युताः चूर्णिताः स-मधु-द्रुताः पाण्डु-रोगं विषं कासं यक्ष्माणं विषमं ज्वरम् ।
कुष्ठान्य् अ-जरकं मेहं शोफं श्वासम् अ-रोचकम् ॥ २२ ॥
श्लोक 23
विशेषाद् धन्त्य् अपस्मारं कामलां गुद-जानि च ।
कौटज-त्रि-फला-निम्ब-पटोल-घन-नागरैः ॥ २३ ॥
श्लोक 24
भावितानि दशाहानि रसैर् द्वि-त्रि-गुणानि वा ।
शिला-जतु-पलान्य् अष्टौ तावती सित-शर्करा ॥ २४ ॥
श्लोक 25
त्वक्क्षीरी-पिप्पली-धात्री-कर्कटाख्याः पलोन्मिताः ।
निदिग्ध्याः फल-मूलाभ्यां पलं युक्त्या त्रि-जातकम् ॥ २५ ॥
श्लोक 26
निदिग्धा-फल-मूलाभ्यां मधु-त्रि-पल-संयुक्तान् कुर्याद् अक्ष-समान् गुडान् ।
दाडिमाम्बु-पयः-पक्षि-रस-तोय-सुरासवान् ॥ २६ ॥
श्लोक 27
मधु-त्रि-पल-संयुक्तं तान् भक्षयित्वानुपिबेन् निर्-अन्नो भुक्त एव वा ।
पाण्डु-कुष्ठ-ज्वर-प्लीह-तमकार्शो-भगन्दरम् ॥ २७ ॥
श्लोक 28
हृन्-मूत्र-पूति-शुक्राग्नि-दोष-शोष-गरोदरम् ।
कासासृग्-दर-पित्तासृक्-शोफ-गुल्म-गलामयान् ॥ २८ ॥
श्लोक 29
मेह-वर्ध्म-भ्रमान् हन्युः सर्व-दोष-हराः शिवाः ।
द्राक्षा-प्रस्थं कणा-प्रस्थं शर्करार्ध-तुलां तथा ॥ २९ ॥
श्लोक 30
द्वि-पलं मधुकं शुण्ठीं त्वक्क्षीरीं च विचूर्णितम् ।
धात्री-फल-रस-द्रोणे तत् क्षिप्त्वा लेह-वत् पचेत् ॥ ३० ॥
श्लोक 31
शीतान् मधु-प्रस्थ-युताद् लिह्यात् पाणि-तलं ततः ।
हलीमकं पाण्डु-रोगं कामलां च नियच्छति ॥ ३१ ॥
श्लोक 32
कनीयः-पञ्च-मूलाम्बु शस्यते पान-भोजने ।
पाण्डूनां कामलार्तानां मृद्वीकामलकाद् रसः ॥ ३२ ॥
श्लोक 33
इति सामान्यतः प्रोक्तं पाण्डु-रोगे भिषग्-जितम् ।
विकल्प्य योज्यं विदुषा पृथग् दोष-बलं प्रति ॥ ३३ ॥
श्लोक 34
पाण्डु-रोग-भिषग्-जितम् स्नेह-प्रायं पवन-जे तिक्त-शीतं तु पैत्तिके ।
श्लैष्मिके कटु-रूक्षोष्णं विमिश्रं सांनिपातिके ॥ ३४ ॥
श्लोक 35
श्लैष्मिके कटु-तीक्ष्णोष्णं विमिश्रं संनिपात-जे मृदं निर्यापयेत् कायात् तीक्ष्णैः संशोधनैः पुरः ।
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥ ३५ ॥
श्लोक 36
मृदं निर्वापयेत् कायात् शुद्धे कोष्ठे नियोजयेत् व्योष-बिल्व-द्वि-रजनी-त्रि-फला-द्वि-पुनर्नवम् ।
मुस्तान्य् अयो-रजः पाठा विडङ्गं देवदारु च ॥ ३६ ॥
श्लोक 37
वृश्चिकाली च भार्गी च स-क्षीरैस् तैः शृतं घृतम् ।
सर्वान् प्रशमयत्य् आशु विकारान् मृत्तिका-कृतान् ॥ ३७ ॥
श्लोक 38
तद्-वत् केसर-यष्ट्य्-आह्व-पिप्पली-क्षीर-शाद्वलैः ।
मृद्-द्वेषणाय तल्-लौल्ये वितरेद् भावितां मृदम् ॥ ३८ ॥
श्लोक 39
वेल्लाग्नि-निम्ब-प्रसवैः पाठया मूर्वयाथ-वा ।
मृद्-भेद-भिन्न-दोषानुगमाद् योज्यं च भेषजम् ॥ ३९ ॥
श्लोक 40
कामलायां तु पित्त-घ्नं पाण्डु-रोगा-विरोधि यत् ।
पथ्या-शत-रसे पथ्या-वृन्तार्ध-शत-कल्कितः ॥ ४० ॥
श्लोक 41
प्रस्थः सिद्धो घृताद् गुल्म-कामला-पाण्डु-रोग-नुत् ।
आरग्वधं रसेनेक्षोर् विदार्य्-आमलकस्य वा ॥ ४१ ॥
श्लोक 42
स-त्र्य्-ऊषणं बिल्व-मात्रं पाययेत् कामलापहम् ।
पिबेन् निकुम्भ-कल्कं वा द्वि-गुडं शीत-वारिणा ॥ ४२ ॥
श्लोक 43
द्वि-गुणं शीत-वारिणा कुम्भस्य चूर्णं स-क्षौद्रं त्रैफलेन रसेन वा ।
त्रि-फलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥ ४३ ॥
श्लोक 44
प्रातः प्रातर् मधु-युतं कामलार्ताय योजयेत् ।
निशा-गैरिक-धात्रीभिः कामलापहम् अञ्जनम् ॥ ४४ ॥
श्लोक 45
शिला-गैरिक-धात्रीभिः तिल-पिष्ट-निभं यस् तु कामला-वान् सृजेन् मलम् ।
कफ-रुद्ध-पथं तस्य पित्तं कफ-हरैर् जयेत् ॥ ४५ ॥
श्लोक 46
रूक्ष-शीत-गुरु-स्वादु-व्यायाम-बल-निग्रहैः ।
कफ-संमूर्छितो वायुर् यदा पित्तं बहिः क्षिपेत् ॥ ४६ ॥
श्लोक 47
हारिद्र-नेत्र-मूत्र-त्वक् श्वेत-वर्चास् तदा नरः ।
भवेत् साटोप-विष्टम्भो गुरुणा हृदयेन च ॥ ४७ ॥
श्लोक 48
दौर्बल्याल्पाग्नि-पार्श्वार्ति-हिध्मा-श्वासा-रुचि-ज्वरैः ।
क्रमेणाल्पे ऽनुषज्येत पित्ते शाखा-समाश्रिते ॥ ४८ ॥
श्लोक 49
रसैस् तं रूक्ष-कट्व्-अम्लैः शिखि-तित्तिरि-दक्ष-जैः ।
शुष्क-मूलक-जैर् यूषैः कुलत्थोत्थैश् च भोजयेत् ॥ ४९ ॥
श्लोक 50
भृशाम्ल-तीक्ष्ण-कटुक-लवणोष्णं च शस्यते ।
स-बीजपूरक-रसं लिह्याद् व्योषं तथाशयम् ॥ ५० ॥
श्लोक 51
स्वं पित्तम् एति तेनास्य शकृद् अप्य् अनुरज्यते ।
वायुश् च याति प्रशमं सहाटोपाद्य्-उपद्रवैः ॥ ५१ ॥
श्लोक 52
निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः ।
गो-मूत्रेण पिबेत् कुम्भ-कामलायां शिला-जतु ॥ ५२ ॥
श्लोक 53
मासं माक्षिक-धातुं वा किट्टं वाथ हिरण्य-जम् ।
गुडूची-स्व-रस-क्षीर-साधितेन हलीमकी ॥ ५३ ॥
श्लोक 54
महिषी-हविषा स्निग्धः पिबेद् धात्री-रसेन तु ।
त्रिवृतां तद्-विरिक्तो ऽद्यात् स्वादु पित्तानिलापहम् ॥ ५४ ॥
श्लोक 55
द्राक्षा-लेहं च पूर्वोक्तं सर्पींषि मधुराणि च ।
यापनान् क्षीर-वस्तींश् च शीलयेत् सानुवासनान् ॥ ५५ ॥
श्लोक 56
मार्द्वीकारिष्ट-योगांश् च पिबेद् युक्त्याग्नि-वृद्धये ।
कासिकं चाभया-लेहं पिप्पलीं मधुकं बलाम् ॥ ५६ ॥
श्लोक 57
कासिकं वाभया-लेहं पयसा च प्रयुञ्जीत यथा-दोषं यथा-बलम् ।
पाण्डु-रोगेषु कुशलः शोफोक्तं च क्रिया-क्रमम् ॥ ५७ ॥
श्लोक
अयस्-तिल-त्र्य्-ऊषण-कोल-भागैः सर्वैः समं माक्षिक-धातु-चूर्णम् ।
तैर् मोदकः क्षौद्र-युतो ऽनु-तक्रः पाण्ड्व्-आमये दूर-गते ऽपि शस्तः ॥ ५७+१ ॥