श्लोक 67
संसर्जयेत् कटु-क्षार-युक्तैर् अन्नैः कफापहैः ।
मूत्र-त्र्य्-ऊषण-तैलाढ्यो निरूहो ऽस्य ततो हितः ॥ ६७ ॥
श्लोक 68
मुष्ककादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
भोजनं व्योष-दुग्धेन कौलत्थेन रसेन वा ॥ ६८ ॥
श्लोक 69
स्तैमित्या-रुचि-हृल्-लासे मन्दे ऽग्नौ मद्य-पाय च ।
दद्याद् अरिष्टान् क्षारांश् च कफ-स्त्यान-स्थिरोदरे ॥ ६९ ॥
श्लोक 70
स्तैमित्या-रुचि-हृल्-लासैर् कफे स्त्याने स्थिरोदरे हिङ्गूपकुल्ये त्रि-फलां देवदारु निशा-द्वयम् ।
भल्लातकं शिग्रु-फलं कटुकां तिक्तकं वचां ॥ ७० ॥
श्लोक 71
शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटु-पञ्चकम् ।
दाहयेज् जर्जरी-कृत्य दधि-स्नेह-चतुष्क-वत् ॥ ७१ ॥
श्लोक 72
अन्तर्-धूमं ततः क्षाराद् बिडाल-पदकं पिबेत् ।
मदिरा-दधि-मण्डोष्ण-जलारिष्ट-सुरासवैः ॥ ७२ ॥
श्लोक 73
जलारिष्ट-सुधासवैः उदरं गुल्मम् अष्ठीलां तूण्यौ शोफं विषूचिकाम् ।
प्लीह-हृद्-रोग-गुद-जान् उदावर्तं च नाशयेत् ॥ ७३ ॥
श्लोक 74
जयेद् अरिष्ट-गो-मूत्र-चूर्णायस्-कृति-पानतः ।
स-क्षार-तैल-पानैश् च दुर्-बलस्य कफोदरम् ॥ ७४ ॥
श्लोक 75
उपनाह्यं स-सिद्धार्थ-किण्वैर् बीजैश् च मूलकात् ।
कल्कितैर् उदरं स्वेदम् अभीक्ष्णं चात्र योजयेत् ॥ ७५ ॥
श्लोक 76
कल्कितैर् उदर-स्वेदम् संनिपातोदरे कुर्यान् नाति-क्षीण-बलानले ।
दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम् ॥ ७६ ॥
श्लोक 77
दन्ती-द्रवन्ती-फल-जं तैलं पाने च शस्यते ।
क्रिया-निवृत्ते जठरे त्रि-दोषे तु विशेषतः ॥ ७७ ॥
श्लोक 78
दद्याद् आपृच्छ्य तज्-ज्ञातीन् पातुं मद्येन कल्कितम् ।
मूलं काकादनी-गुञ्जा-करवीरक-संभवम् ॥ ७८ ॥
श्लोक 79
पान-भोजन-संयुक्तं दद्याद् वा स्थावरं विषम् ।
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ॥ ७९ ॥
श्लोक 80
तेनास्य दोष-संघातः स्थिरो लीनो वि-मार्ग-गः ।
बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना ॥ ८० ॥
श्लोक 81
तथा व्रजत्य् अ-गद-तां शरीरान्तरम् एव वा ।
हृत-दोषं तु शीताम्बु-स्नातं तं पाययेत् पयः ॥ ८१ ॥
श्लोक 82
पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा ।
काल-शाकं यवाख्यं वा खादेत् स्व-रस-साधितम् ॥ ८२ ॥
श्लोक 83
निर्-अम्ल-लवण-स्नेहं स्विन्ना-स्विन्नम् अन्-अन्न-भुक् ।
मासम् एकं ततश् चैव तृषितः स्व-रसं पिबेत् ॥ ८३ ॥
श्लोक 84
मासम् एकं ततश् चैवं एवं विनिर्हृते शाकैर् दोषे मासात् परं ततः ।
दुर्-बलाय प्रयुञ्जीत प्राण-भृत् कारभं पयः ॥ ८४ ॥
श्लोक 85
प्लीहोदरे यथा-दोषं स्निग्धस्य स्वेदितस्य च ।
सिरां भुक्त-वतो दध्ना वाम-बाहौ विमोक्षयेत् ॥ ८५ ॥
श्लोक 86
लब्धे बले च भूयो ऽपि स्नेह-पीतं विशोधितम् ।
समुद्र-शुक्ति-जं क्षारं पयसा पाययेत् तथा ॥ ८६ ॥
श्लोक 87
अम्ल-स्रुतं विड-कणा-चूर्णाढ्यं नक्तमाल-जम् ।
शौभाञ्जनस्य वा क्वाथं सैन्धवाग्नि-कणान्वितम् ॥ ८७ ॥
श्लोक 88
हिङ्ग्व्-आदि-चूर्णं क्षाराज्यं युञ्जीत च यथा-बलम् ।
पिप्पली-नागरं दन्ती-समांशं द्वि-गुणाभयम् ॥ ८८ ॥
श्लोक 89
समांशं द्वि-गुणाभया विडार्धांश-युतं चूर्णम् इदम् उष्णाम्बुना पिबेत् ।
विडङ्गं चित्रकं सक्तून् स-घृतान् सैन्धवं वचाम् ॥ ८९ ॥
श्लोक 90
दग्ध्वा कपाले पयसा गुल्म-प्लीहापहं पिबेत् ।
तैलोन्मिश्रैर् बदरक-पत्त्रैः संमर्दितैः समुपनद्धः ॥ ९० ॥
श्लोक 91
मुसलेन पीडितो ऽनु च याति प्लीहा पयो-भुजो नाशम् ।
रोहीतक-लताः कॢप्ताः खण्ड-शः साभया जले ॥ ९१ ॥
श्लोक 92
मूत्रे वासुनुयात् तच् च सप्त-रात्र-स्थितं पिबेत् ।
कामला-प्लीह-गुल्मार्शः-कृमि-मेहोदरापहम् ॥ ९२ ॥
श्लोक 93
मूत्रे वासुनुयात् तत् तु रोहीतक-त्वचः कृत्वा पलानां पञ्च-विंशतिम् ।
कोल-द्वि-प्रस्थ-संयुक्तं कषायम् उपकल्पयेत् ॥ ९३ ॥
श्लोक 94
पालिकैः पञ्च-कोलैस् तु तैः समस्तैश् च तुल्यया ।
रोहीतक-त्वचा पिष्टैर् घृत-प्रस्थं विपाचयेत् ॥ ९४ ॥
श्लोक 95
प्लीहाभिवृद्धिं शमयत्य् एतद् आशु प्रयोजितम् ।
कदल्यास् तिल-नालानां क्षारेण क्षुरकस्य च ॥ ९५ ॥
श्लोक 96
प्लीहाभिवृद्धिं शमयेद् प्लीहाति-वृद्धिं शमयत्य् क्षारेणेक्षुरकस्य च तैलं पक्वं जयेत् पानात् प्लीहानं कफ-वात-जम् ।
अ-शान्तौ गुल्म-विधिना योजयेद् अग्नि-कर्म च ॥ ९६ ॥
श्लोक 97
अ-प्राप्त-पिच्छा-सलिले प्लीह्नि वात-कफोल्बणे ।
पैत्तिके जीवनीयानि सर्पींषि क्षीर-वस्तयः ॥ ९७ ॥
श्लोक 98
रक्तावसेकः संशुद्धिः क्षीर-पानं च शस्यते ।
यकृति प्लीह-वत् कर्म दक्षिणे तु भुजे सिराम् ॥ ९८ ॥
श्लोक 99
स्विन्नाय बद्धोदरिणे मूत्र-तीक्ष्णौषधान्वितम् ।
स-तैल-लवणं दद्यान् निरूहं सानुवासनम् ॥ ९९ ॥
श्लोक 100
परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् ।
उदावर्त-हरं कर्म कार्यं यच् चानिलापहम् ॥ १०० ॥
श्लोक 101
छिद्रोदरम् ऋते स्वेदाच् छ्लेष्मोदर-वद् आचरेत् ।
जातं जातं जलं स्राव्यम् एवं तद् यापयेद् भिषक् ॥ १०१ ॥
श्लोक 102
अपां दोष-हराण्य् आदौ योजयेद् उदकोदरे ।
मूत्र-युक्तानि तीक्ष्णानि विविध-क्षार-वन्ति च ॥ १०२ ॥
श्लोक 103
दीपनीयैः कफ-घ्नैश् च तम् आहारैर् उपाचरेत् ।
क्षारं छाग-करीषाणां स्रुतं मूत्रे ऽग्निना पचेत् ॥ १०३ ॥
श्लोक 104
घनी-भवति तस्मिंश् च कर्षांशं चूर्णितं क्षिपेत् ।
पिप्पली पिप्पली-मूलं शुण्ठी लवण-पञ्चकम् ॥ १०४ ॥
श्लोक 105
निकुम्भ-कुम्भ-त्रि-फला-स्वर्णक्षीरी-विषाणिकाः ।
स्वर्जिका-क्षार-षड्ग्रन्था-सातला-यव-शूक-जम् ॥ १०५ ॥
श्लोक 106
कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः ।
पिबेद् अ-जरके शोफे प्रवृद्धे चोदकोदरे ॥ १०६ ॥
श्लोक 107
प्रवृद्धे च दकोदरे इत्य् औषधैर् अ-प्रशमे त्रिषु बद्धोदरादिषु ।
प्रयुञ्जीत भिषक् शस्त्रम् आर्त-बन्धु-नृपार्थितः ॥ १०७ ॥
श्लोक 108
स्निग्ध-स्विन्न-तनोर् नाभेर् अधो बद्ध-क्षतान्त्रयोः ।
पाटयेद् उदरं मुक्त्वा वामतश् चतुर्-अङ्गुलात् ॥ १०८ ॥
श्लोक 109
चतुर्-अङ्गुल-मानं तु निष्कास्यान्त्राणि तेन च ।
निरीक्ष्यापनयेद् वाल-मल-लेपोपलादिकम् ॥ १०९ ॥
श्लोक 110
छिद्रे तु शल्यम् उद्धृत्य विशोध्यान्त्र-परिस्रवम् ।
मर्कोटैर् दंशयेच् छिद्रं तेषु लग्नेषु चाहरेत् ॥ ११० ॥
श्लोक 111
विशोध्यान्त्रं परिस्रवम् कायं मूर्ध्नो ऽनु चान्त्राणि यथा-स्थानं निवेशयेत् ।
अक्तानि मधु-सर्पिर्भ्याम् अथ सीव्येद् बहिर् व्रणम् ॥ १११ ॥
श्लोक 112
यथा-स्थानं विवेशयेत् ततः कृष्ण-मृदालिप्य बध्नीयाद् यष्टि-मिश्रया ।
निवात-स्थः पयो-वृत्तिः स्नेह-द्रोण्यां वसेत् ततः ॥ ११२ ॥
श्लोक 113
स-जले जठरे तैलैर् अभ्यक्तस्यानिलापहैः ।
स्विन्नस्योष्णाम्बुना-कक्षम् उदरे पट्ट-वेष्टिते ॥ ११३ ॥
श्लोक 114
उदरे परिवेष्टिते बद्ध-च्छिद्रोदित-स्थाने विध्येद् अङ्गुल-मात्रकम् ।
निधाय तस्मिन् नाडीं च स्रावयेद् अर्धम् अम्भसः ॥ ११४ ॥
श्लोक 115
अथास्य नाडीम् आकृष्य तैलेन लवणेन च ।
व्रणम् अभ्यज्य बद्ध्वा च वेष्टयेद् वाससोदरम् ॥ ११५ ॥
श्लोक 116
तृतीये ऽह्नि चतुर्थे वा यावद् आ-षो-डशं दिनम् ।
तस्य विश्रम्य विश्रम्य स्रावयेद् अल्प-शो जलम् ॥ ११६ ॥
श्लोक 117
यावद् वा-दिन-षो-डश विवेष्टयेद् गाढ-तरं जठरं वाससा श्लथम् ।
निःस्रुते लङ्घितः पेयाम् अ-स्नेह-लवणां पिबेत् ॥ ११७ ॥
श्लोक 118
जठरं च श्लथा-श्लथम् स्यात् क्षीर-वृत्तिः षण्-मासांश् त्रीन् पेयां पयसा पिबेत् ।
त्रींश् चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ॥ ११८ ॥
श्लोक 119
अल्प-शो ऽ-स्नेह-लवणं जीर्णं श्यामाक-कोद्रवम् ।
प्रयतो वत्सरेणैवं विजयेत जलोदरम् ॥ ११९ ॥
श्लोक 120
वर्ज्येषु यन्त्रितो दिष्टे नात्य्-अ-दिष्टे जितेन्द्रियः ।
सर्वम् एवोदरं प्रायो दोष-संघात-जं यतः ॥ १२० ॥
श्लोक 121
अतो वातादि-शमनी क्रिया सर्व-त्र शस्यते ।
वह्निर् मन्द-त्वम् आयाति दोषैः कुक्षौ प्रपूरिते ॥ १२१ ॥
श्लोक 122
क्रिया सर्वा प्रशस्यते तस्माद् भोज्यानि भोज्यानि दीपनानि लघूनि च ।
स-पञ्च-मूलान्य् अल्पाम्ल-पटु-स्नेह-कटूनि च ॥ १२२ ॥
श्लोक 123
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः ।
यवागूं पयसा सिद्धां प्र-कामं भोजयेन् नरम् ॥ १२३ ॥
श्लोक 124
पिबेद् इक्षु-रसं चानु जठराणां निवृत्तये ।
स्वं स्वं स्थानं व्रजन्त्य् एषां वात-पित्त-कफास् तथा ॥ १२४ ॥
श्लोक 125
अत्य्-अर्थोष्णाम्ल-लवणं रूक्षं ग्राहि हिमं गुरु ।
गुडं तैल-कृतं शाकं वारि पानावगाहयोः ॥ १२५ ॥
श्लोक 126
अत्य्-अर्थोष्णाम्बु-लवणं आयासाध्व-दिवा-स्वप्न-यानानि च परित्यजेत् ।
नात्य्-अच्छ-सान्द्र-मधुरं तक्रं पाने प्रशस्यते ॥ १२६ ॥
श्लोक 127
स-कणा-लवणं वाते पित्ते सोषण-शर्करम् ।
यवानी-सैन्धवाजाजी-मधु-व्योषैः कफोदरे ॥ १२७ ॥
श्लोक 128
त्र्य्-ऊषण-क्षार-लवणैः संयुतं निचयोदरे ।
मधु-तैल-वचा-शुण्ठी-शताह्वा-कुष्ठ-सैन्धवैः ॥ १२८ ॥
श्लोक 129
मधु-तैल-वरा-शुण्ठी- मधु-तैल-वसा-शुण्ठी- प्लीह्नि बद्धे तु हपुषा-यवानी-पट्व्-अजाजिभिः ।
स-कृष्णा-माक्षिकं छिद्रे व्योष-वत् सलिलोदरे ॥ १२९ ॥
श्लोक 130
गौरवा-रोचकानाह-मन्द-वह्न्य्-अतिसारिणाम् ।
तक्रं वात-कफार्तानाम् अमृत-त्वाय कल्पते ॥ १३० ॥
श्लोक 131
प्रयोगाणां च सर्वेषाम् अनु क्षीरं प्रयोजयेत् ।
स्थैर्य-कृत् सर्व-धातूनां बल्यं दोषानुबन्ध-हृत् ॥ १३१ ॥
श्लोक
भेषजापचिताङ्गानां क्षीरम् एवामृतायते ॥ १३१ऊअब् ॥