श्लोक 66
पिबेद् वा तैल्वकं सर्पिर् यच् चोक्तं पित्त-विद्रधौ ।
द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु ॥ ६६ ॥
श्लोक 67
पिबेत् तण्डुल-तोयेन पित्त-गुल्मोपशान्तये ।
द्वि-पलं त्रायमाणाया जल-द्वि-प्रस्थ-साधितम् ॥ ६७ ॥
श्लोक 68
अष्ट-भाग-स्थितं पूतं कोष्णं क्षीर-समम् पिबेत् ।
पिबेद् उपरि तस्योष्णं क्षीरम् एव यथा-बलम् ॥ ६८ ॥
श्लोक 69
तेन निर्हृत-दोषस्य गुल्मः शाम्यति पैत्तिकः ।
दाहे ऽभ्यङ्गो घृतैः शीतैः साज्यैर् लेपो हिमौषधैः ॥ ६९ ॥
श्लोक 70
स्पर्शः सरो-रुहां पत्त्रैः पात्रैश् च प्रचलज्-जलैः ।
विदाह-पूर्व-रूपेषु शूले वह्नेश् च मार्दवे ॥ ७० ॥
श्लोक 71
बहु-शो ऽपहरेद् रक्तं पित्त-गुल्मे विशेषतः ।
छिन्न-मूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ॥ ७१ ॥
श्लोक 72
रक्तं हि व्य्-अम्ल-तां याति तच् च नास्ति न चास्ति रुक् ।
हृत-दोषं परिम्लानं जाङ्गलैस् तर्पितं रसैः ॥ ७२ ॥
श्लोक 73
समाश्वस्तं स-शेषार्तिं सर्पिर् अभ्यासयेत् पुनः ।
रक्त-पित्ताति-वृद्ध-त्वात् क्रियाम् अन्-उपलभ्य वा ॥ ७३ ॥
श्लोक 74
गुल्मे पाकोन्-मुखे सर्वा पित्त-विद्रधि-वत् क्रिया ।
शालिर् गव्याज-पयसी पटोली जाङ्गलं घृतम् ॥ ७४ ॥
श्लोक 75
धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता ।
भोज्यं पाने ऽम्बु बलया बृहत्य्-आद्यैश् च साधितम् ॥ ७५ ॥
श्लोक 76
श्लेष्म-जे वामयेत् पूर्वम् अ-वम्यम् उपवासयेत् ।
तिक्तोष्ण-कटु-संसर्ग्या वह्निं संधुक्षयेत् ततः ॥ ७६ ॥
श्लोक 77
कफ-जे वामयेत् पूर्वम् हिङ्ग्व्-आदिभिश् च द्वि-गुण-क्षार-हिङ्ग्व्-अम्ल-वेतसैः ।
निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम् ॥ ७७ ॥
श्लोक 78
आनाहादि-युतं गुल्मं संस्वेद्य विनयेद् अनु ।
घृतं स-क्षार-कटुकं पातव्यं कफ-गुल्मिनाम् ॥ ७८ ॥
श्लोक 79
संशोध्य विनयेद् अनु स-व्योष-क्षार-लवणं स-हिङ्गु-विड-दाडिमम् ।
कफ-गुल्मं जयत्य् आशु दश-मूल-शृतं घृतम् ॥ ७९ ॥
श्लोक 80
भल्लातकानां द्वि-पलं पञ्च-मूलं पलोन्मितम् ।
अल्पं तोयाढके साध्यं पाद-शेषेण तेन च ॥ ८० ॥
श्लोक 81
तुल्यं घृतं तुल्य-पयो विपचेद् अक्ष-संमितैः ।
विडङ्ग-हिङ्गु-सिन्धूत्थ-याव-शूक-शठी-विडैः ॥ ८१ ॥
श्लोक 82
स-द्वीपि-रास्ना-यष्ट्य्-आह्व-षड्ग्रन्था-कण-नागरैः ।
एतद् भल्लातक-घृतं कफ-गुल्म-हरं परम् ॥ ८२ ॥
श्लोक 83
प्लीह-पाण्ड्व्-आमय-श्वास-ग्रहणी-रोग-कास-जित् ।
ततो ऽस्य गुल्मे देहे च समस्ते स्वेदम् आचरेत् ॥ ८३ ॥
श्लोक 84
ग्रहणी-रोग-कास-नुत् सर्व-त्र गुल्मे प्रथमं स्नेह-स्वेदोपपादिते ।
या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते ॥ ८४ ॥
श्लोक 85
स्निग्ध-स्विन्न-शरीरस्य गुल्मे शैथिल्यम् आगते ।
यथोक्तां घटिकां न्यस्येद् गृहीते ऽपनयेच् च ताम् ॥ ८५ ॥
श्लोक 86
वस्त्रान्तरं ततः कृत्वा भिन्द्याद् गुल्मं प्रमाण-वित् ।
वि-मार्गाज-पदादर्शैर् यथा-लाभं प्रपीडयेत् ॥ ८६ ॥
श्लोक 87
प्रमृज्याद् गुल्मम् एवैकं न त्व् अन्त्र-हृदयं स्पृशेत् ।
तिलैरण्डातसी-बीज-सर्षपैः परिलिप्य च ॥ ८७ ॥
श्लोक 88
सर्षपैः परिलिप्य वा श्लेष्म-गुल्मम् अयः-पात्रैः सुखोष्णैः स्वेदयेत् ततः ।
एवं च विसृतं स्थानात् कफ-गुल्मं विरेचनैः ॥ ८८ ॥
श्लोक 89
स-स्नेहैर् वस्तिभिश् चैनं शोधयेद् दाशमूलिकैः ।
पिप्पल्य्-आमलक-द्राक्षा-श्यामाद्यैः पालिकैः पचेत् ॥ ८९ ॥
श्लोक 90
एरण्ड-तैल-हविषोः प्रस्थौ पयसि षड्-गुणे ।
सिद्धो ऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम् ॥ ९० ॥
श्लोक 91
वृद्धि-विद्रधि-शूलेषु वात-व्याधिषु चामृतम् ।
पिबेद् वा नीलिनी-सर्पिर् मात्रया द्वि-पलीनया ॥ ९१ ॥
श्लोक 92
मात्रया द्वि-पलीकया तथैव सु-कुमाराख्यं घृतान्य् औदरिकाणि वा ।
द्रोणे ऽम्भसः पचेद् दन्त्याः पलानां पञ्च-विंशतिम् ॥ ९२ ॥
श्लोक 93
चित्रकस्य तथा पथ्यास् तावतीस् तद्-रसे स्रुते ।
द्वि-प्रस्थे साधयेत् पूते क्षिपेद् दन्ती-समं गुडम् ॥ ९३ ॥
श्लोक 94
तावतीस् तद्-रसे शृते तैलात् पलानि चत्वारि त्रिवृतायश् च चूर्णतः ।
कणा-कर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले ॥ ९४ ॥
श्लोक 95
मधु तैल-समं दद्याच् चतुर्-जाताच् चतुर्थिकाम् ।
अतो हरीतकीम् एकां सावलेह-पलाम् अदन् ॥ ९५ ॥
श्लोक 96
सुखं विरिच्यते स्निग्धो दोष-प्रस्थम् अन्-आमयः ।
गुल्म-हृद्-रोग-दुर्-नाम-शोफानाह-गरोदरान् ॥ ९६ ॥
श्लोक 97
कुष्ठोत्क्लेशा-रुचि-प्लीह-ग्रहणी-विषम-ज्वरान् ।
घ्नन्ति दन्ती-हरीतक्यः पाण्डु-तां च स-कामलाम् ॥ ९७ ॥
श्लोक 98
पाण्डु-तां च स-कामलान् सुधा-क्षीर-द्रवं चूर्णं त्रि-वृतायाः सु-भावितम् ।
कार्षिकं मधु-सर्पिर्भ्यां लीढ्वा साधु विरिच्यते ॥ ९८ ॥
श्लोक 99
कुष्ठ-श्यामा-त्रिवृद्-दन्ती-विजया-क्षार-गुग्गुलून् ।
गो-मूत्रेण पिबेद् एकं तेन गुग्गुलुम् एव वा ॥ ९९ ॥
श्लोक 100
निरूहान् कल्प-सिद्ध्य्-उक्तान् योजयेद् गुल्म-नाशनान् ।
कृत-मूलं महा-वास्तुं कठिनं स्तिमितं गुरुम् ॥ १०० ॥
श्लोक 101
गूढ-मांसं जयेद् गुल्मं क्षारारिष्टाग्नि-कर्मभिः ।
एकान्तरम् द्व्य्-अन्तरं वा विश्रमय्याथ-वा त्र्य्-अहम् ॥ १०१ ॥
श्लोक 102
शरीर-दोष-बलयोर् वर्धन-क्षपणोद्यतः ।
अर्शो-ऽश्मरी-ग्रहण्य्-उक्ताः क्षारा योज्याः कफोल्बणे ॥ १०२ ॥
श्लोक 103
देवदारु-त्रिवृद्-दन्ती-कटुका-पञ्च-कोलकम् ।
स्वर्जिका-याव-शूकाख्यौ श्रेष्ठा-पाठोपकुञ्चिकाः ॥ १०३ ॥
श्लोक 104
कुष्ठं सर्पसुगन्धां च द्व्य्-अक्षांशं पटु-पञ्चकम् ।
पालिकं चूर्णितं तैल-वसा-दधि-घृताप्लुतम् ॥ १०४ ॥
श्लोक 105
घटस्यान्तः पचेत् पक्वम् अग्नि-वर्णे घटे च तम् ।
क्षारं गृहीत्वा क्षीराज्य-तक्र-मद्यादिभिः पिबेत् ॥ १०५ ॥
श्लोक 106
गुल्मोदावर्त-वर्ध्मार्शो-जठर-ग्रहणी-कृमीन् ।
अपस्मार-गरोन्माद-योनि-शुक्रामयाश्मरीः ॥ १०६ ॥
श्लोक 107
क्षारा-गदो ऽयं शमयेद् विषं चाखु-भुजङ्ग-जम् ।
श्लेष्माणं मधुरं स्निग्धं रस-क्षीर-घृताशिनः ॥ १०७ ॥
श्लोक 108
छित्त्वा भित्त्वाशयात् क्षारः क्षार-त्वात् क्षारयत्य् अधः ।
मन्दे ऽग्नाव् अ-रुचौ सात्म्यैर् मद्यैः स-स्नेहम् अश्नताम् ॥ १०८ ॥
श्लोक 109
छित्त्वा छित्त्वाशयात् क्षारः छित्त्वा भित्त्वाशयं क्षारः क्षार-त्वात् पातयत्य् अधः योजयेद् आसवारिष्टान् निगदान् मार्ग-शुद्धये ।
शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम् ॥ १०९ ॥
श्लोक 110
चिरिबिल्वाग्नि-तर्कारी-यवानी-वरुणाङ्कुराः ।
शिग्रुस् तरुण-बिल्वानि बालं शुष्कं च मूलकम् ॥ ११० ॥
श्लोक 111
शिग्रोस् तरुण-मूलानि बीजपूरक-हिङ्ग्व्-अम्ल-वेतस-क्षार-दाडिमम् ।
व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी ॥ १११ ॥
श्लोक 112
धान्याम्लं मस्तु तक्रं च यवानी-विड-चूर्णितम् ।
पञ्च-मूल-शृतं वारि जीर्णं मार्द्वीकम् एव वा ॥ ११२ ॥
श्लोक 113
पिप्पली-पिप्पली-मूल-चित्रकाजाजी-सैन्धवैः ।
सुरा गुल्मं जयत्य् आशु जगलश् च विमिश्रितः ॥ ११३ ॥
श्लोक 114
जाङ्गलश् च विमिश्रितः वमनैर् लङ्घनैः स्वेदैः सर्पिः-पानैर् विरेचनैः ।
वस्ति-क्षारासवारिष्ट-गुटिका-पथ्य-भोजनैः ॥ ११४ ॥
श्लोक 115
वस्ति-क्षारासवारिष्टैर् -गुल्मिका-पथ्य-भोजनैः गौल्मिकैः पथ्य-भोजनैः श्लैष्मिको बद्ध-मूल-त्वाद् यदि गुल्मो न शाम्यति ।
तस्य दाहं हृते रक्ते कुर्याद् अन्ते शरादिभिः ॥ ११५ ॥
श्लोक 116
अथ गुल्मं स-पर्य्-अन्तं वाससान्तरितं भिषक् ।
नाभि-वस्त्य्-अन्त्र-हृदयं रोम-राजीं च वर्जयन् ॥ ११६ ॥
श्लोक 117
नाति-गाढं परिमृशेच् छरेण ज्वलताथ-वा ।
लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा ॥ ११७ ॥
श्लोक 118
ततो ऽग्नि-वेगे शमिते शीतैर् व्रण इव क्रिया ।
आमान्वये तु पेयाद्यैः संधुक्ष्याग्निं विलङ्घिते ॥ ११८ ॥
श्लोक 119
स्वं स्वं कुर्यात् क्रमं मिश्रं मिश्र-दोषे च काल-वित् ।
गत-प्रसव-कालायै नार्यै गुल्मे ऽस्र-संभवे ॥ ११९ ॥
श्लोक 120
स्निग्ध-स्विन्न-शरीरायै दद्यात् स्नेह-विरेचनम् ।
तिल-क्वाथे घृत-गुड-व्योष-भार्गी-रजो-ऽन्वितः ॥ १२० ॥
श्लोक 121
पानं रक्त-भवे गुल्मे नष्टे पुष्पे च योषितः ।
भार्गी-कृष्णा-करञ्ज-त्वग्-ग्रन्थिकामरदारु-जम् ॥ १२१ ॥
श्लोक 122
चूर्णं तिलानां क्वाथेन पीतं गुल्म-रुजापहम् ।
पलाश-क्षार-पात्रे द्वे द्वे पात्रे तैल-सर्पिषोः ॥ १२२ ॥
श्लोक 123
गुल्म-शैथिल्य-जननीं पक्त्वा मात्रां प्रयोजयेत् ।
न प्रभिद्येत यद्य् एवं दद्याद् योनि-विरेचनम् ॥ १२३ ॥
श्लोक 124
क्षारेण युक्तं पललं सुधा-क्षीरेण वा ततः ।
ताभ्यां वा भावितान् दद्याद् योनौ कटुक-मत्स्यकान् ॥ १२४ ॥
श्लोक 125
वराह-मत्स्य-पित्ताभ्यां नक्तकान् वा सु-भावितान् ।
किण्वं वा स-गुड-क्षारं दद्याद् योनौ विशुद्धये ॥ १२५ ॥
श्लोक 126
रक्त-पित्त-हरं क्षारं लेहयेन् मधु-सर्पिषा ।
लशुनं मदिरां तीक्ष्णां मत्स्यांश् चास्यै प्रयोजयेत् ॥ १२६ ॥
श्लोक 127
वस्तिं स-क्षीर-गो-मूत्रं स-क्षारं दाशमूलिकम् ।
अ-वर्तमाने रुधिरे हितं गुल्म-प्रभेदनम् ॥ १२७ ॥
श्लोक 128
वस्तिं स-क्षौद्र-गो-मुत्रं यमकाभ्यक्त-देहायाः प्रवृत्ते समुपेक्षणम् ।
रसौदनस् तथाहारः पानं च तरुणी सुरा ॥ १२८ ॥
श्लोक 129
रुधिरे ऽति-प्रवृत्ते तु रक्त-पित्त-हराः क्रियाः ।
कार्या वात-रुग्-आर्तायाः सर्वा वात-हराः पुनः ॥ १२९ ॥
श्लोक
आनाहादाव् उदावर्त-बलास-घ्न्यो यथा-यथम् ॥ १२९ऊअब् ॥