अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 9 contd.

श्लोक 65

लोध्राम्बष्ठा-प्रियङ्ग्व्-आदि-गणांस् तद्-वत् पृथक् पिबेत् ।
कट्वङ्ग-वल्क-यष्ट्य्-आह्व-फलिनी-दाडिमाङ्कुरैः ॥ ६५ ॥

श्लोक 66

पेया-विलेपी-खलकान् कुर्यात् स-दधि-दाडिमान् ।
तद्-वद् दधित्थ-बिल्वाम्र-जम्बू-मध्यैः प्रकल्पयेत् ॥ ६६ ॥

श्लोक 67

अजा-पयः प्रयोक्तव्यं निर्-आमे तेन चेच् छमः ।
दोषाधिक्यान् न जायेत बलिनं तं विरेचयेत् ॥ ६७ ॥

श्लोक 68

व्यत्यासेन शकृद्-रक्तम् उपवेश्येत यो ऽपि वा ।
पलाश-फल-निर्यूहं युक्तं वा पयसा पिबेत् ॥ ६८ ॥

श्लोक 69

ततो ऽनु कोष्णं पातव्यं क्षीरम् एव यथा-बलम् ।
प्रवाहिते तेन मले प्रशाम्यत्य् उदरामयः ॥ ६९ ॥

श्लोक 70

पलाश-वत् प्रयोज्या वा त्रायमाणा विशोधनी ।
संसर्ग्यां क्रियमाणायां शूलं यद्य् अनुवर्तते ॥ ७० ॥

श्लोक 71

त्रायमाणा विशोधने स्रुत-दोषस्य तं शीघ्रं यथा-वह्न्य् अनुवासयेत् ।
शतपुष्पा-वरीभ्यां च बिल्वेन मधुकेन च ॥ ७१ ॥

श्लोक 72

तैल-पादं पयो-युक्तं पक्वम् अन्वासनं घृतम् ।
अ-शान्ताव् इत्य् अतीसारे पिच्छा-वस्तिः परं हितः ॥ ७२ ॥

श्लोक 73

परिवेष्ट्य कुशैर् आर्द्रैर् आर्द्र-वृन्तानि शाल्मलेः ।
कृष्ण-मृत्तिकयालिप्य स्वेदयेद् गो-मयाग्निना ॥ ७३ ॥

श्लोक 74

मृच्-छोषे तानि संक्षुद्य तत्-पिण्डं मुष्टि-संमितम् ।
मर्दयेत् पयसः प्रस्थे पूतेनास्थापयेत् ततः ॥ ७४ ॥

श्लोक 75

नत-यष्ट्य्-आह्व-कल्काज्य-क्षौद्र-तैल-वतानु च ।
स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा ॥ ७५ ॥

श्लोक 76

पित्तातिसार-ज्वर-शोफ-गुल्म-समीरणास्र-ग्रहणी-विकारान् ।
जयत्य् अयं शीघ्रम् अति-प्रवृत्तिं विरेचनास्थापनयोश् च वस्तिः ॥ ७६ ॥

श्लोक 

कट्वङ्ग-बिल्व-जं त्व् अस्थि कपित्थं सुरसाञ्जनम् ।
लाक्षा-हरिद्रे ह्रीवेरं कट्फलं शुकनासिका ॥ ७६+१ ॥

श्लोक 

लोध्रं मोच-रसं मुस्तं धातकी वट-शुङ्गकान् ।
पिष्ट्वा तण्डुल-तोयेन वटकान् अक्ष-संमितान् ॥ ७६+२ ॥

श्लोक 

पिबेत् तेनैव तोयेन ज्वरातीसार-नाशनः ।
रक्त-प्रसादनो ह्य् एष शोफातीसार-नाशनः ॥ ७६+३ ॥

श्लोक 77

फाणितं कुटजोत्थं च सर्वातीसार-नाशनम् ।
वत्सकादि-समायुक्तं साम्बष्ठादि स-माक्षिकम् ॥ ७७ ॥

श्लोक 78

नी-रुङ्-निर्-आमं दीप्ताग्नेर् अपि सास्रं चिरोत्थितम् ।
नाना-वर्णम् अतीसारं पुट-पाकैर् उपाचरेत् ॥ ७८ ॥

श्लोक 79

त्वक्-पिण्डाद् दीर्घवृन्तस्य श्रीपर्णी-पत्त्र-संवृतात् ।
मृल्-लिप्ताद् अग्निना स्विन्नाद् रसं निष्पीडितं हिमम् ॥ ७९ ॥

श्लोक 80

अतीसारी पिबेद् युक्तं मधुना सितयाथ-वा ।
एवं क्षीरि-द्रुम-त्वग्भिस् तत्-प्ररोहैश् च कल्पयेत् ॥ ८० ॥

श्लोक 81

एवं क्षीर-द्रुम-त्वग्भिस् कट्वङ्ग-त्वग्-घृत-युता स्वेदिता सलिलोष्मणा ।
स-क्षौद्रा हन्त्य् अतीसारं बल-वन्तम् अपि द्रुतम् ॥ ८१ ॥

श्लोक 82

पित्तातीसारी सेवेत पित्तलान्य् एव यः पुनः ।
रक्तातीसारं कुरुते तस्य पित्तं स-तृड्-ज्वरम् ॥ ८२ ॥

श्लोक 83

दारुणं गुद-पाकं च तत्र च्छागं पयो हितम् ।
पद्मोत्पल-समङ्गाभिः शृतं मोच-रसेन च ॥ ८३ ॥

श्लोक 84

शारिवा-यष्टि-लोध्रैर् वा प्रसवैर् वा वटादि-जैः ।
स-क्षौद्र-शर्करं पाने भोजने गुद-सेचने ॥ ८४ ॥

श्लोक 85

तद्-वद् रसादयो ऽन्-अम्लाः साज्याः पानान्नयोर् हिताः ।
काश्मर्य-फल-यूषश् च किञ्-चिद्-अम्लः स-शर्करः ॥ ८५ ॥

श्लोक 86

पयस्य् अर्धोदके छागे ह्रीवेरोत्पल-नागरैः ।
पेया रक्तातिसार-घ्नी पृश्निपर्णी-रसान्विता ॥ ८६ ॥

श्लोक 87

प्राग्-भक्तं नव-नीतं वा लिह्यान् मधु-सिता-युतम् ।
बलिन्य् अस्रे ऽस्रम् एवाजं मार्गं वा घृत-भर्जितम् ॥ ८७ ॥

श्लोक 88

क्षीरानु-पानं क्षीराशी त्र्य्-अहं क्षीरोद्भवं घृतम् ।
कपिञ्जल-रसाशी वा लिहन्न् आरोग्यम् अश्नुते ॥ ८८ ॥

श्लोक 89

पीत्वा शतावरी-कल्कं क्षीरेण क्षीर-भोजनः ।
रक्तातीसारं हन्त्य् आशु तया वा साधितं घृतम् ॥ ८९ ॥

श्लोक 90

लाक्षा-नागर-वैदेही-कटुका-दार्वि-वल्कलैः ।
सर्पिः सेन्द्रयवैः सिद्धं पेया-मण्डावचारितम् ॥ ९० ॥

श्लोक 91

अतीसारं जयेच् छीघ्रं त्रि-दोषम् अपि दारुणम् ।
कृष्ण-मृच्-छङ्ख-यष्ट्य्-आह्व-क्षौद्रासृक्-तण्डुलोदकम् ॥ ९१ ॥

श्लोक 92

जयत्य् अस्रं प्रियङ्गुश् च तण्डुलाम्बु-मधु-प्लुता ।
कल्कस् तिलानां कृष्णानां शर्करा-पाञ्चभागिकः ॥ ९२ ॥

श्लोक 93

शर्करा-भाग-संयुतः आजेन पयसा पीतः सद्यो रक्तं नियच्छति ।
पीत्वा स-शर्करा-क्षौद्रं चन्दनं तण्डुलाम्बुना ॥ ९३ ॥

श्लोक 94

दाह-तृष्णा-प्रमोहेभ्यो रक्त-स्रावाच् च मुच्यते ।
गुदस्य दाहे पाके वा सेक-लेपा हिता हिमाः ॥ ९४ ॥

श्लोक 95

दाह-तृष्णा-प्रमेहेभ्यो सेका लेपा हिता हिमाः अल्पाल्पं बहु-शो रक्तं स-शूलम् उपवेश्यते ।
यदा विबद्धो वायुश् च कृच्छ्राच् चरति वा न वा ॥ ९५ ॥

श्लोक 96

पिच्छा-वस्तिं तदा तस्य पूर्वोक्तम् उपकल्पयेत् ।
पल्लवान् जर्जरी-कृत्य शिंशिपा-कोविदारयोः ॥ ९६ ॥

श्लोक 97

पचेद् यवांश् च स क्वाथे घृत-क्षीर-समन्वितः ।
पिच्छा-स्रुतौ गुद-भ्रंशे प्रवाहण-रुजासु वा ॥ ९७ ॥

श्लोक 98

पिच्छा-वस्तिः प्रयोक्तव्यः क्षत-क्षीण-बलावहः ।
प्रपौण्डरीक-सिद्धेन सर्पिषा चानुवासनम् ॥ ९८ ॥

श्लोक 99

रक्तं विट्-सहितं पूर्वं पश्चाद् वा यो ऽतिसार्यते ।
शतावरी-घृतं तस्य लेहार्थम् उपकल्पयेत् ॥ ९९ ॥

श्लोक 100

शर्करार्धांशकं लीढं नव-नीतं नवोद्धृतम् ।
क्षौद्र-पादं जयेच् छीघ्रं तं विकारं हिताशिनः ॥ १०० ॥

श्लोक 101

न्यग्रोधोदुम्बराश्वत्थ-शुङ्गान् आपोथ्य वासयेत् ।
अहो-रात्रं जले तप्ते घृतं तेनाम्भसा पचेत् ॥ १०१ ॥

श्लोक 102

तद् अर्ध-शर्करा-युक्तं लेहयेत् क्षौद्र-पादिकम् ।
अधो वा यदि वाप्य् उर्ध्वं यस्य रक्तं प्रवर्तते ॥ १०२ ॥

श्लोक 103

अधो वा यदि वात्य्-उर्ध्वं श्लेष्मातीसारे वातोक्तं विशेषाद् आम-पाचनम् ।
कर्तव्यम् अनुबन्धे ऽस्य पिबेत् पक्त्वाग्नि-दीपनम् ॥ १०३ ॥

श्लोक 104

बिल्व-कर्कटिका-मुस्त-प्राणदा-विश्व-भेषजम् ।
वचा-विडङ्ग-भूतीक-धानकामरदारु वा ॥ १०४ ॥

श्लोक 105

धान्यकामरदारु वा अथ-वा पिप्पली-मूल-पिप्पली-द्वय-चित्रकम् ।
पाठाग्नि-वत्सक-ग्रन्थि-तिक्ता-शुण्ठी-वचाभयाः ॥ १०५ ॥

श्लोक 106

पिप्पली-द्वय-चित्रकान् क्वथिता यदि वा पिष्टाः श्लेष्मातीसार-भेषजम् ।
सौवर्चल-वचा-व्योष-हिङ्गु-प्रतिविषाभयाः ॥ १०६ ॥

श्लोक 107

पिबेच् छ्लेष्मातिसारार्तश् चूर्णिताः कोष्ण-वारिणा ।
मध्यं लीढ्वा कपित्थस्य स-व्योष-क्षौद्र-शर्करम् ॥ १०७ ॥

श्लोक 108

स-क्षौद्रं व्योष-शर्करम् कट्फलं मधु-युक्तं वा मुच्यते जठरामयात् ।
कणां मधु-युतां लीढ्वा तक्रं पीत्वा स-चित्रकम् ॥ १०८ ॥

श्लोक 109

भुक्त्वा वा बाल-बिल्वानि व्यपोहत्य् उदरामयम् ।
पाठा-मोच-रसाम्भोद-धातकी-बिल्व-नागरम् ॥ १०९ ॥

श्लोक 110

सु-कृच्छ्रम् अप्य् अतीसारं गुड-तक्रेण नाशयेत् ।
यवानी-पिप्पली-मूल-चातुर्जातक-नागरैः ॥ ११० ॥

श्लोक 111

मरिचाग्नि-जलाजाजी-धान्य-सौवर्चलैः समैः ।
वृषाम्ल-धातकी-कृष्णा-बिल्व-दाडिम-दीप्यकैः ॥ १११ ॥

श्लोक 112

वृक्षाम्ल-धातकी-कृष्णा- -बिल्व-दाडिम-तिन्दुकैः त्रि-गुणैः षड्-गुण-सितैः कपित्थाष्ट-गुणैः कृतः ।
चूर्णो ऽतीसार-ग्रहणी-क्षय-गुल्म-गलामयान् ॥ ११२ ॥

श्लोक 113

त्रि-गुणैः षड्-गुण-सिते कपित्थे ऽष्ट-गुणे कृतः -क्षय-गुल्मोदरामयान् कास-श्वासाग्नि-सादार्शः-पीनसा-रोचकाञ् जयेत् ।
कर्षोन्मिता तवक्षीरी चातुर्जातं द्वि-कार्षिकम् ॥ ११३ ॥

श्लोक 114

कर्षोन्मितं तवक्षीरी-चातुर्जातं द्वि-कार्षिकम् यवानी-धान्यकाजाजी-ग्रन्थि-व्योषं पलांशकम् ।
पलानि दाडिमाद् अष्टौ सितायाश् चैकतः कृतः ॥ ११४ ॥

श्लोक 115

यवानी-धान्यकाजाजि ग्रन्थि-व्योषं पलांशकम् गुणैः कपित्थाष्टक-वच् चूर्णो ऽयं दाडिमाष्टकः ।
भोज्यो वातातिसारोक्तैर् यथावस्थं खलादिभिः ॥ ११५ ॥

श्लोक 116

स-विडङ्गः स-मरिचः स-कपित्थः स-नागरः ।
चाङ्गेरी-तक्र-कोलाम्लः खलः श्लेष्मातिसार-जित् ॥ ११६ ॥

श्लोक 117

क्षीणे श्लेष्मणि पूर्वोक्तम् अम्लं लाक्षादि षट्-पलम् ।
पुराणं वा घृतं दद्याद् यवागू-मण्ड-मिश्रितम् ॥ ११७ ॥

श्लोक 

कट्फलं मधुकं लोध्रं त्वग्-दाडिम-फलस्य च ।
वात-पित्तातिसार-घ्नं पिबेत् तण्डुल-वारिणा ॥ ११७+१ ॥

श्लोक 

मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्-समम् ।
कषायं क्षौद्र-संयुक्तं श्लेष्म-वातातिसारिणे ॥ ११७+२ ॥

श्लोक 

पीतदारु वचा लोध्रं कलिङ्ग-फल-नागरम् ।
दाडिमाम्बु-युतं दद्यात् पित्त-श्लेष्मातिसारिणे ॥ ११७+३ ॥

श्लोक 118

वात-श्लेष्म-विबन्धे वा स्रवत्य् अति कफे ऽपि वा ।
शूले प्रवाहिकायां वा पिच्छा-वस्तिः प्रशस्यते ॥ ११८ ॥

श्लोक 119

वात-श्लेष्म-विबन्धे च वचा-बिल्व-कणा-कुष्ठ-शताह्वा-लवणान्वितः ।
बिल्व-तैलेन तैलेन वचाद्यैः साधितेन वा ॥ ११९ ॥

श्लोक 120

बहु-शः कफ-वातार्ते कोष्णेनान्वासनं हितम् ।
क्षीणे कफे गुदे दीर्घ-कालातीसार-दुर्-बले ॥ १२० ॥

श्लोक 121

अनिलः प्रबलो ऽवश्यं स्व-स्थान-स्थः प्रजायते ।
स बली सहसा हन्यात् तस्मात् तं त्वरया जयेत् ॥ १२१ ॥

श्लोक 122

वायोर् अन्-अन्तरं पित्तं पित्तस्यान्-अन्तरं कफम् ।
जयेत् पूर्वं त्रयाणां वा भवेद् यो बल-वत्-तमः ॥ १२२ ॥

श्लोक 123

भी-शोकाभ्याम् अपि चलः शीघ्रं कुप्यत्य् अतस् तयोः ।
कार्या क्रिया वात-हरा हर्षणाश्वासनानि च ॥ १२३ ॥

श्लोक 124

यस्योच्चाराद् विना मूत्रं पवनो वा प्रवर्तते ।
दीप्ताग्नेर् लघु-कोष्ठस्य शान्तस् तस्योदरामयः ॥ १२४ ॥