श्लोक 1
काले साधारणे व्य्-अभ्रे नाति-दुर्-बलम् अर्शसम् ।
विशुद्ध-कोष्ठं लघ्व्-अल्पम् अनुलोमनम् आशितम् ॥ १ ॥
श्लोक 2
विशुद्ध-कोष्ठं लघ्व्-अन्नम् शुचिं कृत-स्वस्त्य्-अयनं मुक्त-विण्-मूत्रम् अ-व्यथम् ।
शयने फलके वान्य-नरोत्सङ्गे व्यपाश्रितम् ॥ २ ॥
श्लोक 3
पूर्वेण कायेनोत्तानं प्रत्य्-आदित्य-गुदं समम् ।
समुन्नत-कटी-देशम् अथ यन्त्रण-वाससा ॥ ३ ॥
श्लोक 4
सक्थ्नोः शिरो-धरायां च परिक्षिप्तम् ऋजु स्थितम् ।
आलम्बितं परिचरैः सर्पिषाभ्यक्त-पायवे ॥ ४ ॥
श्लोक 5
ततो ऽस्मै सर्पिषाभ्यक्तं निदध्याद् ऋजु यन्त्रकम् ।
शनैर् अनु-सुखं पायौ ततो दृष्ट्वा प्रवाहणात् ॥ ५ ॥
श्लोक 6
यन्त्रे प्रविष्टं दुर्-नाम प्लोत-गुण्ठितयानु च ।
शलाकयोत्पीड्य भिषग् यथोक्त-विधिना दहेत् ॥ ६ ॥
श्लोक 7
यन्त्रे प्रविष्टे दुर्-नाम क्षारेणैवार्द्रम् इतरत् क्षारेण ज्वलनेन वा ।
महद् वा बलिनश् छित्त्वा वीत-यन्त्रम् अथातुरम् ॥ ७ ॥
श्लोक 8
स्व्-अभ्यक्त-पायु-जघनम् अवगाहे निधापयेत् ।
निर्-वात-मन्दिर-स्थस्य ततो ऽस्याचारम् आदिशेत् ॥ ८ ॥
श्लोक 9
निर्-वातागार-संस्थस्य एकैकम् इति सप्ताहात् सप्ताहात् समुपाचरेत् ।
प्राग् दक्षिणं ततो वामम् अर्शः पृष्ठाग्र-जं ततः ॥ ९ ॥
श्लोक 10
बह्व्-अर्शसः सु-दग्धस्य स्याद् वायोर् अनुलोम-ता ।
रुचिर् अन्ने ऽग्नि-पटु-ता स्वास्थ्यं वर्ण-बलोदयः ॥ १० ॥
श्लोक 11
वस्ति-शूले त्व् अधो नाभेर् लेपयेच् छ्लक्ष्ण-कल्कितैः ।
वर्षाभू-कुष्ठ-सुरभि-मिशि-लोहामराह्वयैः ॥ ११ ॥
श्लोक 12
शकृन्-मूत्र-प्रतीघाते परिषेकावगाहयोः ।
वरणालम्बुषैर् अण्ड-गोकण्टक-पुनर्नवैः ॥ १२ ॥
श्लोक 13
शकृन्-मूत्र-परीघाते सुषवी-सुरभीभ्यां च क्वाथम् उष्णं प्रयोजयेत् ।
स-स्नेहम् अथ-वा क्षीरं तैलं वा वात-नाशनम् ॥ १३ ॥
श्लोक 14
युञ्जीतान्नं शकृद्-भेदि स्नेहान् वात-घ्न-दीपनान् ।
अथा-प्रयोज्य-दाहस्य निर्गतान् कफ-वात-जान् ॥ १४ ॥
श्लोक 15
स-स्तम्भ-कण्डू-रुक्-शोफान् अभ्यज्य गुद-कीलकान् ।
बिल्व-मूलाग्निक-क्षार-कुष्ठैः सिद्धेन सेचयेत् ॥ १५ ॥
श्लोक 16
संरम्भ-कण्डू-रुक्-शोफान् संस्तम्भ-कण्डू-रुक्-शोफान् तैलेनाहि-बिडालोष्ट्र-वराह-वसयाथ-वा ।
स्वेदयेद् अनु पिण्डेन द्रव-स्वेदेन वा पुनः ॥ १६ ॥
श्लोक
कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली ।
शिलाभ्रकाश्वमारं च जन्तुहृद् दन्ति-चित्रकौ ॥ १६.१+(१) ॥
श्लोक
हरितालं तथा स्वर्णक्षीरी तैश् च पचेत् समैः ।
तैलं सुधार्क-पयसी गवां मूत्रे चतुर्-गुणे ॥ १६.१+(२) ॥
श्लोक
एतद् अभ्यङ्गतो ऽर्शांसि क्षार-वत् पातयेद् द्रुतम् ।
क्षार-कर्म-करं ह्य् एतन् न च दूषयते वलीम् ॥ १६.१+(३) ॥
श्लोक 17
सक्तूनां पिण्डिकाभिर् वा स्निग्धानां तैल-सर्पिषा ।
रास्नाया हपुषाया वा पिण्डैर् वा कार्ष्ण्यगन्धिकैः ॥ १७ ॥
श्लोक 18
पिण्डैर् वा कार्षकान्वितैः अर्क-मूलं शमी-पत्त्रम् नृ-केशः सर्प-कञ्चुकम् ।
मार्जार-चर्म सर्पिश् च धूपनं हितम् अर्शसाम् ॥ १८ ॥
श्लोक 19
तथाश्वगन्धा सुरसा बृहती पिप्पली घृतम् ।
धान्याम्ल-पिष्टैर् जीमूत-बीजैस् तज्-जालकं मृदु ॥ १९ ॥
श्लोक 20
लेपितं छायया शुष्कं वर्तिर् गुद-ज-शातनी ।
स-जाल-मूल-जीमूत-लेहे वा क्षार-संयुते ॥ २० ॥
श्लोक 21
गुञ्जा-सूरण-कूष्माण्ड-बीजैर् वर्तिस् तथा-गुणा ।
स्नुक्-क्षीरार्द्र-निशा-लेपस् तथा गो-मूत्र-कल्कितैः ॥ २१ ॥
श्लोक 22
कृकवाकु-शकृत्-कृष्णा-निशा-गुञ्जा-फलैस् तथा ।
स्नुक्-क्षीर-पिष्टैः षड्ग्रन्था-हलिनी-वारणास्थिभिः ॥ २२ ॥
श्लोक 23
कुलीरशृङ्गी-विजया-कुष्ठारुष्कर-तुत्थकैः ।
शिग्रु-मूलक-जैर् बीजैः पत्त्रैर् अश्वघ्न-निम्ब-जैः ॥ २३ ॥
श्लोक 24
शिग्रु-मूलक-बीजैर् वा पीलु-मूलेन बिल्वेन हिङ्गुना च समन्वितैः ।
कुष्ठं शिरीष-बीजानि पिप्पल्यः सैन्धवं गुडः ॥ २४ ॥
श्लोक 25
अर्क-क्षीरं सुधा-क्षीरं त्रि-फला च प्रलेपनम् ।
आर्कं पयः सुधा-काण्डं कटुकालाबु-पल्लवाः ॥ २५ ॥
श्लोक 26
आर्कं पयः स्नुही-काण्डं करञ्जो बस्त-मूत्रं च लेपनं श्रेष्ठम् अर्शसाम् ।
आनुवासनिकैर् लेपः पिप्पल्य्-आद्यैश् च पूजितः ॥ २६ ॥
श्लोक 27
एभिर् एवौषधैः कुर्यात् तैलान्य् अभ्यञ्जनाय च ।
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः ॥ २७ ॥
श्लोक 28
एभिर् लेपौषधैः कुर्यात् तैलान्य् अभ्यञ्जनानि च संचितं दुष्ट-रुधिरं ततः संपद्यते सुखी ।
अ-वर्तमानम् उच्छून-कठिनेभ्यो हरेद् असृक् ॥ २८ ॥
श्लोक 29
अर्शोभ्यो जल-जा-शस्त्र-सूची-कूर्चैः पुनः पुनः ।
शीतोष्ण-स्निग्ध-रूक्षैर् हि न व्याधिर् उपशाम्यति ॥ २९ ॥
श्लोक 30
शीतोष्ण-स्निग्ध-रूक्षाद्यैर् रक्ते दुष्टे भिषक् तस्माद् रक्तम् एवावसेचयेत् ।
यो जातो गो-रसः क्षीराद् वह्नि-चूर्णावचूर्णितात् ॥ ३० ॥
श्लोक 31
बहु-मूलावचूर्णितात् पिबंस् तम् एव तेनैव भुञ्जानो गुद-जान् जयेत् ।
कोविदारस्य मूलानां मथितेन रजः पिबन् ॥ ३१ ॥
श्लोक 32
मथितेन रजः पिबेत् अश्नन् जीर्णे च पथ्यानि मुच्यते हत-नामभिः ।
गुद-श्वयथु-शूलार्तो मन्दाग्निर् गौल्मिकान् पिबेत् ॥ ३२ ॥
श्लोक 33
हिङ्ग्व्-आदीन् अनु-तक्रं वा खादेद् गुड-हरीतकीम् ।
तक्रेण वा पिबेत् पथ्या-वेल्लाग्नि-कुटज-त्वचः ॥ ३३ ॥
श्लोक 34
हिङ्ग्व्-आदीन् अनु-तक्रां वा तक्रेण वा पिबेत् पथ्यां वेल्लाग्नि-कुटज-त्वचः कलिङ्ग-मगधा-ज्योतिः-सूरणान् वांश-वर्धितान् ।
कोष्णाम्बुना वा त्रि-पटु-व्योष-हिङ्ग्व्-अम्ल-वेतसम् ॥ ३४ ॥
श्लोक 35
युक्तं बिल्व-कपित्थाभ्यां महौषध-विडेन वा ।
अरुष्करैर् यवान्या वा प्रदद्यात् तक्र-तर्पणम् ॥ ३५ ॥
श्लोक 36
आरुष्करैर् यवान्या वा दद्याद् वा हपुषा-हिङ्गु-चित्रकं तक्र-संयुतम् ।
मासं तक्रानु-पानानि खादेत् पीलु-फलानि वा ॥ ३६ ॥
श्लोक 37
पिबेद् अहर् अहस् तक्रं निर्-अन्नो वा प्र-कामतः ।
अत्य्-अर्थं मन्द-कायाग्नेस् तक्रम् एवावचारयेत् ॥ ३७ ॥
श्लोक 38
अत्य्-अर्थ-मन्द-कायाग्नेस् सप्ताहं वा दशाहं वा मासार्धं मासम् एव च ।
बल-काल-विकार-ज्ञो भिषक् तक्रं प्रयोजयेत् ॥ ३८ ॥
श्लोक 39
सायं वा लाज-सक्तूनां दद्यात् तक्रावलेहिकाम् ।
जीर्णे तक्रे प्रदद्याद् वा तक्र-पेयां स-सैन्धवाम् ॥ ३९ ॥
श्लोक 40
तक्रानु-पानं स-स्नेहं तक्रौदनम् अतः परम् ।
यूषै रसैर् वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया ॥ ४० ॥
श्लोक 41
रूक्षम् अर्धोद्धृत-स्नेहं यतश् चान्-उद्धृतं घृतम् ।
तक्रं दोषाग्नि-बल-वित् त्रि-विधं तत् प्रयोज्येत् ॥ ४१ ॥
श्लोक 42
न विरोहन्ति गुद-जाः पुनस् तक्र-समाहताः ।
निषिक्तं तद् धि दहति भूमाव् अपि तृणोलुपम् ॥ ४२ ॥
श्लोक 43
निषिक्तं तद् विदहति स्रोतःसु तक्र-शुद्धेषु रसो धातून् उपैति यः ।
तेन पुष्टिर् बलं वर्णः परं तुष्टिश् च जायते ॥ ४३ ॥
श्लोक 44
वात-श्लेष्म-विकाराणां शतं च विनिवर्तते ।
मथितं भाजने क्षुद्र-बृहती-फल-लेपिते ॥ ४४ ॥
श्लोक 45
निशां पर्युषितं पेयम् इच्छद्भिर् गुद-ज-क्षयम् ।
धान्योपकुञ्चिकाजाजी-हपुषा-पिप्पली-द्वयैः ॥ ४५ ॥
श्लोक 46
कारवी-ग्रन्थिक-शठी-यवान्य्-अग्नि-यवानकैः ।
चूर्णितैर् घृत-पात्र-स्थं नात्य्-अम्लं तक्रम् आसुतम् ॥ ४६ ॥
श्लोक 47
यवान्य्-अग्नि-यवानिकैः तक्रारिष्टं पिबेज् जातं व्यक्ताम्ल-कटु कामतः ।
दीपनं रोचनं वर्ण्यं कफ-वातानुलोमनम् ॥ ४७ ॥
श्लोक 48
गुद-श्वयथु-कण्ड्व्-अर्ति-नाशनं बल-वर्धनम् ।
त्वचं चित्रक-मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥ ४८ ॥
श्लोक 49
तक्रं वा दधि वा तत्र जातम् अर्शो-हरं पिबेत् ।
भार्ग्य्-आस्फोतामृता-पञ्च-कोलेष्व् अप्य् एष संविधिः ॥ ४९ ॥
श्लोक 50
पिष्टैर् गज-कणा-पाठा-कारवी-पञ्च-कोलकैः ।
तुम्बुर्व्-अजाजी-धनिका-बिल्व-मध्यैश् च कल्पयेत् ॥ ५० ॥
श्लोक 51
फलाम्लान् यमक-स्नेहान् पेया-यूष-रसादिकान् ।
एभिर् एवौषधैः साध्यं वारि सर्पिश् च दीपनम् ॥ ५१ ॥
श्लोक 52
क्रमो ऽयं भिन्न-शकृतां वक्ष्यते गाढ-वर्चसाम् ।
स्नेहाढ्यैः सक्तुभिर् युक्तां लवणां वारुणीं पिबेत् ॥ ५२ ॥
श्लोक 53
लवणा एव वा तक्र-सीधु-धान्याम्ल-वारुणीः ।
प्राग्-भक्तान् यमके भृष्टान् सक्तुभिश् चावचूर्णितान् ॥ ५३ ॥
श्लोक 54
प्राग्-भक्तं यमके भृष्टान् करञ्ज-पल्लवान् खादेद् वात-वर्चो-ऽनुलोमनान् ।
स-गुडं नागरं पाठां गुड-क्षार-घृतानि वा ॥ ५४ ॥
श्लोक 55
स-गुडं नागरं पाठा-गुड-क्षार-घृतानि वा गो-मूत्राध्युषिताम् अद्यात् स-गुडां वा हरीतकीम् ।
पथ्या-शत-द्वयान् मूत्र-द्रोणेना-मूत्र-संक्षयात् ॥ ५५ ॥
श्लोक 56
पथ्या-शत-द्वयं मूत्र- पक्वात् खादेत् स-मधुनी द्वे द्वे हन्ति कफोद्भवान् ।
दुर्-नाम-कुष्ठ-श्वयथु-गुल्म-मेहोदर-कृमीन् ॥ ५६ ॥
श्लोक 57
पक्त्वा खादेत् स-मधुनी ग्रन्थ्य्-अर्बुदापची-स्थौल्य-पाण्डु-रोगाढ्य-मारुतान् ।
अजशृङ्गी-जटा-कल्कम् अजा-मूत्रेण यः पिबेत् ॥ ५७ ॥
श्लोक 58
गुड-वार्ताक-भुक् तस्य नश्यन्त्य् आशु गुदाङ्कुराः ।
श्रेष्ठा-रसेन त्रिवृतां पथ्यां तक्रेण वा सह ॥ ५८ ॥
श्लोक 59
पथ्यां वा पिप्पली-युक्तां घृत-भृष्टां गुडान्विताम् ।
अथ-वा स-त्रिवृद्-दन्तीं भक्षयेद् अनुलोमनीम् ॥ ५९ ॥
श्लोक 60
हते गुदाश्रये दोषे गुद-जा यान्ति संक्षयम् ।
दाडिम-स्व-रसाजाजी-यवानी-गुड-नागरैः ॥ ६० ॥
श्लोक 61
हृते गुदाश्रये दोषे पाठया वा युतं तक्रं वात-वर्चो-ऽनुलोमनम् ।
सीधुं वा गौडम् अथ-वा स-चित्रक-महौषधम् ॥ ६१ ॥
श्लोक 62
पिबेत् सुरां वा हपुषा-पाठा-सौवर्चलान्विताम् ।
दशादि-दशकैर् वृद्धाः पिप्पलीर् द्वि-पिचुं तिलान् ॥ ६२ ॥
श्लोक 63
पिप्पलीर् द्वि-पिचुं तिलात् पीत्वा क्षीरेण लभते बलं देह-हुताशयोः ।
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा ॥ ६३ ॥
श्लोक 64
यवान्या नागरेण च एकैकेनापि संयुक्ता पाठा हन्त्य् अर्शसां रुजम् ।
सलिलस्य वहे पक्त्वा प्रस्थार्धम् अभया-त्वचाम् ॥ ६४ ॥
श्लोक 65
प्रस्थार्धम् अभया-त्वचम् प्रस्थं धात्र्या दश-पलं कपित्थानां ततो ऽर्धतः ।
विशालां लोध्र-मरिच-कृष्णा-वेल्लैलवालुकम् ॥ ६५ ॥
श्लोक 66
द्वि-पलांशं पृथक् पाद-शेषे पूते गुडात् तुले ।
दत्त्वा प्रस्थं च धातक्याः स्थापयेद् घृत-भाजने ॥ ६६ ॥
श्लोक 67
दत्त्वा प्रस्थं तु धातक्याः पक्षात् स शीलितो ऽरिष्टः करोत्य् अग्निं निहन्ति च ।
गुद-ज-ग्रहणी-पाण्डु-कुष्ठोदर-गर-ज्वरान् ॥ ६७ ॥
श्लोक 68
श्वयथु-प्लीह-हृद्-रोग-गुल्म-यक्ष्म-वमि-कृमीन् ।
जल-द्रोणे पचेद् दन्ती-दश-मूल-वराग्निकान् ॥ ६८ ॥
श्लोक 69
पालिकान् पाद-शेषे तु क्षिपेद् गुड-तुलां परम् ।
पूर्व-वत् सर्वम् अस्य स्याद् आनुलोमि-तरस् त्व् अयम् ॥ ६९ ॥
श्लोक 70
पचेद् दुरालभा-प्रस्थं द्रोणे ऽपां प्रासृतैः सह ।
दन्ती-पाठाग्नि-विजया-वासामलक-नागरैः ॥ ७० ॥
श्लोक 71
द्रोणे ऽपां द्वि-पलैः सह तस्मिन् सिता-शतं दद्यात् पाद-स्थे ऽन्यच् च पूर्व-वत् ।
लिम्पेत् कुम्भं तु फलिनी-कृष्णा-चव्याज्य-माक्षिकैः ॥ ७१ ॥
श्लोक 72
प्राग्-भक्तम् आनुलोम्याय फलाम्लं वा पिबेद् घृतम् ।
चव्य-चित्रक-सिद्धं वा यव-क्षार-गुडान्वितम् ॥ ७२ ॥
श्लोक 73
पिप्पली-मूल-सिद्धं वा स-गुड-क्षार-नागरम् ।
पिप्पली-पिप्पली-मूल-धानका-दाडिमैर् घृतम् ॥ ७३ ॥
श्लोक 74
धान्यका-दाडिमैर् घृतम् दध्ना च साधितं वात-शकृन्-मूत्र-विबन्ध-नुत् ।
पलाश-क्षार-तोयेन त्रि-गुणेन पचेद् घृतम् ॥ ७४ ॥
श्लोक 75
शकृन्-मूत्र-विबन्ध-हृत् वत्सकादि-प्रतीवापम् अर्शो-घ्नं दीपनं परम् ।
पञ्च-कोलाभया-क्षार-यवानी-विड-सैन्धवैः ॥ ७५ ॥
श्लोक 76
स-पाठा-धान्य-मरिचैः स-बिल्वैर् दधि-मत् घृतम् ।
साधयेत् तज् जयत्य् आशु गुद-वङ्क्षण-वेदनाम् ॥ ७६ ॥
श्लोक 77
प्रवाहिकां गुद-भ्रंशं मूत्र-कृच्छ्रं परिस्रवम् ।
पाठाजमोद-धनिका-श्वदंष्ट्रा-पञ्च-कोलकैः ॥ ७७ ॥
श्लोक 78
स-बिल्वैर् दध्नि चाङ्गेरी-स्व-रसे च चतुर्-गुणे ।
हन्त्य् आज्यं सिद्धम् आनाहं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ ७८ ॥
श्लोक 79
गुद-भ्रंशार्ति-गुद-ज-ग्रहणी-गद-मारुतान् ।
शिखि-तित्तिरि-लावानां रसान् अम्लान् सु-संस्कृतान् ॥ ७९ ॥
श्लोक 80
दक्षाणां वर्तकानां वा दद्याद् विड्-वात-संग्रहे ।
वास्तुकाग्नि-त्रिवृद्-दन्ती-पाठाम्लीकादि-पल्लवान् ॥ ८० ॥
श्लोक 81
अन्यच् च कफ-वात-घ्नं शाकं च लघु भेदि च ।
स-हिङ्गु यमके भृष्टं सिद्धं दधि-सरैः सह ॥ ८१ ॥
श्लोक 82
सिद्धं दधि-सरेण च धनिका-पञ्च-कोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना ।
आर्द्रिकायाः किसलयैः शकलैर् आर्द्रकस्य च ॥ ८२ ॥
श्लोक 83
युक्तम् अङ्गार-धूपेन हृद्येन सुरभी-कृतम् ।
स-जीरकं स-मरिचं विड-सौवर्चलोत्कटम् ॥ ८३ ॥
श्लोक 84
युक्तम् अङ्गार-धूमेन वातोत्तरस्य रूक्षस्य मन्दाग्नेर् बद्ध-वर्चसः ।
कल्पयेद् रक्त-शाल्य्-अन्न-व्यञ्जनं शाक-वद् रसान् ॥ ८४ ॥