श्लोक 1
केवलानिल-जं कासं स्नेहैर् आदाव् उपाचरेत् ।
वात-घ्न-सिद्धैः स्निग्धैश् च पेया-यूष-रसादिभिः ॥ १ ॥
श्लोक 2
लेहैर् धूमैस् तथाभ्यङ्ग-स्वेद-सेकावगाहनैः ।
वस्तिभिर् बद्ध-विड्-वातं स-पित्तं तूर्ध्व-भक्तिकैः ॥ २ ॥
श्लोक 3
स-पित्तं वोर्ध्व-भक्तिकैः स-पित्तं वोर्ध्व-भक्तिकैः घृतैः क्षीरैश् च स-कफं जयेत् स्नेह-विरेचनैः ।
गुडूची-कण्टकारीभ्यां पृथक् त्रिंशत्-पलाद् रसे ॥ ३ ॥
श्लोक 4
प्रस्थः सिद्धो घृताद् वात-कास-नुद् वह्नि-दीपनः ।
क्षार-रास्ना-वचा-हिङ्गु-पाठा-यष्ट्य्-आह्व-धान्यकैः ॥ ४ ॥
श्लोक 5
द्वि-शाणैः सर्पिषः प्रस्थं पञ्च-कोल-युतैः पचेत् ।
दश-मूलस्य निर्यूहे पीतो मण्डानुपायिना ॥ ५ ॥
श्लोक 6
स कास-श्वास-हृत्-पार्श्व-ग्रहणी-रोग-गुल्म-नुत् ।
द्रोणे ऽपां साधयेद् रास्ना-दश-मूल-शतावरीः ॥ ६ ॥
श्लोक 7
पलोन्मिता द्वि-कुडवं कुलत्थं बदरं यवं ।
तुलार्धं चाज-मांसस्य तेन साध्यं घृताढकम् ॥ ७ ॥
श्लोक 8
सम-क्षीरं पलांशैश् च जीवनीयैः समीक्ष्य तत् ।
प्रयुक्तं वात-रोगेषु पान-नावन-वस्तिभिः ॥ ८ ॥
श्लोक 9
पञ्च-कासाञ् छिरः-कम्पं योनि-वङ्क्षण-वेदनाम् ।
सर्वाङ्गैकाङ्ग-रोगांश् च स-प्लीहोर्ध्वानिलाञ् जयेत् ॥ ९ ॥
श्लोक 10
विदार्य्-आदि-गण-क्वाथ-कल्क-सिद्धं च कास-जित् ।
अशोक-बीज-क्षवक-जन्तुघ्नाञ्जन-पद्मकैः ॥ १० ॥
श्लोक 11
स-विडैश् च घृतं सिद्धं तच्-चूर्णं वा घृत-प्लुतम् ।
लिह्यात् पयश् चानुपिबेद् आजं कासाति-पीडितः ॥ ११ ॥
श्लोक 12
आजं कासाभिपीडितः आजं कासादि-पीडितः विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश् च तच् चूर्णं पिबेद् वा घृत-मात्रया ॥ १२ ॥
श्लोक 13
स-कफे ऽनिल-जे कासे श्वास-हिध्मा-हताग्निषु ।
दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥ १३ ॥
श्लोक 14
शुण्ठीं द्राक्षां सितोपलाम् लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वात-जे ।
दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम् ॥ १४ ॥
श्लोक 15
पुराण-गुड-तैलाभ्यां चूर्णितान्य् अवलेहयेत् ।
तद्-वत् स-कृष्णां शुण्ठीं च स-भार्गीं तद्-वद् एव च ॥ १५ ॥
श्लोक 16
पिबेच् च कृष्णां कोष्णेन सलिलेन स-सैन्धवाम् ।
मस्तुना स-सितां शुण्ठीं दध्ना वा कण-रेणुकाम् ॥ १६ ॥
श्लोक 17
दध्ना वा कण-रेणुकम् पिबेद् बदर-मज्ज्ञो वा मदिरा-दधि-मस्तुभिः ।
अथ-वा पिप्पली-कल्कं घृत-भृष्टं स-सैन्धवम् ॥ १७ ॥
श्लोक 18
पिबेद् बदर-मज्जां वा कासी स-पीनसो धूमं स्नैहिकं विधिना पिबेत् ।
हिध्मा-श्वासोक्त-धूमांश् च क्षीर-मांस-रसाशनः ॥ १८ ॥
श्लोक 19
ग्राम्यानूपौदकैः शालि-यव-गोधूम-षष्टिकान् ।
रसैर् माषात्मगुप्तानां यूषैर् वा भोजयेद् धितान् ॥ १९ ॥
श्लोक 20
ग्राम्यानूपोद्भवैः शालि- यवानी-पिप्पली-बिल्व-मध्य-नागर-चित्रकैः ।
रास्नाजाजी-पृथक्पर्णी-पलाश-शठि-पौष्करैः ॥ २० ॥
श्लोक 21
सिद्धां स्निग्धाम्ल-लवणां पेयाम् अनिल-जे पिबेत् ।
कटी-हृत्-पार्श्व-कोष्ठार्ति-श्वास-हिध्मा-प्रणाशनीम् ॥ २१ ॥
श्लोक 22
दश-मूल-रसे तद्-वत् पञ्च-कोल-गुडान्विताम् ।
पिबेत् पेयां सम-तिलां क्षैरेयीं वा स-सैन्धवाम् ॥ २२ ॥
श्लोक 23
मात्स्य-कौक्कुट-वाराहैर् मांसैर् वा साज्य-सैन्धवाम् ।
वास्तुको वायसी-शाकं कासघ्नः सुनिषण्णकः ॥ २३ ॥
श्लोक 24
कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् ।
स्नेहास् तैलादयो भक्ष्याः क्षीरेक्षु-रस-गौडिकाः ॥ २४ ॥
श्लोक 25
दधि-मस्त्व्-आरनालाम्ल-फलाम्बु-मदिराः पिबेत् ।
पित्त-कासे तु स-कफे वमनं सर्पिषा हितम् ॥ २५ ॥
श्लोक 26
तथा मदन-काश्मर्य-मधुक-क्वथितैर् जलैः ।
फल-यष्ट्य्-आह्व-कल्कैर् वा विदारीक्षु-रसाप्लुतैः ॥ २६ ॥
श्लोक 26
पित्त-कासे तनु-कफे त्रिवृतां मधुरैर् युताम् ।
युञ्ज्याद् विरेकाय युतां घन-श्लेष्मणि तिक्तकैः ॥ २७ ॥
श्लोक 28
हृत-दोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् ।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥ २८ ॥
श्लोक 29
लेहः पैत्ते सिता-धात्री-क्षौद्र-द्राक्षा-हिमोत्पलैः ।
स-घृतः सानिले हितः स-कफे साब्द-मरिचः ॥ २९ ॥
श्लोक 30
लेहः पित्ते सिता-धात्री- मृद्वीकार्ध-शतं त्रिंशत् पिप्पलीः शर्करा-पलम् ।
लेहयेन् मधुना गोर् वा क्षीर-पस्य शकृद्-रसम् ॥ ३० ॥
श्लोक 31
त्वग्-एला-व्योष-मृद्वीका-पिप्पली-मूल-पौष्करैः ।
लाज-मुस्ता-शठी-रास्ना-धात्री-फल-विभीतकैः ॥ ३१ ॥
श्लोक 32
शर्करा-क्षौद्र-सर्पिर्भिर् लेहो हृद्-रोग-कास-हा ।
मधुरैर् जाङ्गल-रसैर् यव-श्यामाक-कोद्रवाः ॥ ३२ ॥
श्लोक 33
मुद्गादि-यूषैः शाकैश् च तिक्तकैर् मात्रया हिताः ।
घन-श्लेष्मणि लेहाश् च तिक्तका मधु-संयुताः ॥ ३३ ॥
श्लोक 34
शालयः स्युस् तनु-कफे षष्टिकाश् च रसादिभिः ।
शर्कराम्भो ऽनु-पानार्थं द्राक्षेक्षु-स्व-रसाः पयः ॥ ३४ ॥
श्लोक 35
काकोली-बृहती-मेदा-द्वयैः स-वृष-नागरैः ।
पित्त-कासे रस-क्षीर-पेया-यूषान् प्रकल्पयेत् ॥ ३५ ॥
श्लोक 36
द्राक्षां कणां पञ्च-मूलं तृणाख्यं च पचेज् जले ।
तेन क्षीरं शृतं शीतं पिबेत् स-मधु-शर्करम् ॥ ३६ ॥
श्लोक 37
साधितां तेन पेयां वा सु-शीतां मधुनान्विताम् ।
शठी-ह्रीवेर-बृहती-शर्करा-विश्व-भेषजम् ॥ ३७ ॥
श्लोक 38
पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृत-मूर्छितम् ।
मेदां विदारीं काकोलीं स्वयङ्गुप्ता-फलं बलाम् ॥ ३८ ॥
श्लोक 39
शर्करां जीवकं मुद्ग-माषपर्ण्यौ दुरालभाम् ।
कल्की-कृत्य पचेत् सर्पिः क्षीरेणाष्ट-गुणेन तत् ॥ ३९ ॥
श्लोक 40
पान-भोजन-लेहेषु प्रयुक्तं पित्त-कास-जित् ।
लिह्याद् वा चूर्णम् एतेषां कषायम् अथ-वा पिबेत् ॥ ४० ॥
श्लोक 41
कफ-कासी पिबेद् आदौ सुरकाष्ठात् प्रदीपितात् ।
स्नेहं परिस्रुतं व्योष-यव-क्षारावचूर्णितम् ॥ ४१ ॥
श्लोक 42
कफ-कासे पिबेद् आदौ स्निग्धं विरेचयेद् ऊर्ध्वम् अधो मूर्ध्नि च युक्तितः ।
तीक्ष्णैर् विरेकैर् बलिनं संसर्गीं चास्य योजयेत् ॥ ४२ ॥
श्लोक 43
यव-मुद्ग-कुलत्थान्नैर् उष्ण-रूक्षैः कटूत्कटैः ।
कासमर्दक-वार्ताक-व्याघ्री-क्षार-कणान्वितैः ॥ ४३ ॥
श्लोक 44
धान्व-बैल-रसैः स्नेहैस् तिल-सर्षप-निम्ब-जैः ।
दश-मूलाम्बु घर्माम्बु मद्यं मध्व्-अम्बु वा पिबेत् ॥ ४४ ॥
श्लोक 45
धान्व-बैल-रसैर् लेहैस् तिल-सर्षप-बिल्व-जैः मूलैः पौष्कर-शम्याक-पटोलैः संस्थितं निशाम् ।
पिबेद् वारि सह-क्षौद्रं कालेष्व् अन्नस्य वा त्रिषु ॥ ४५ ॥
श्लोक 46
पटोलैर् अन्वितं निशाम् पिप्पली पिप्पली-मूलं शृङ्गवेरं विभीतकम् ।
शिखि-कुक्कुट-पिच्छानां मषी क्षारो यवोद्भवः ॥ ४६ ॥
श्लोक 47
विशाला पिप्पली-मूलं त्रिवृता च मधु-द्रवाः ।
कफ-कास-हरा लेहास् त्रयः श्लोकार्ध-योजिताः ॥ ४७ ॥
श्लोक 48
मधुना मरिचं लिह्यान् मधुनैव च जोङ्गकम् ।
पृथग् रसांश् च मधुना व्याघ्री-वार्ताक-भृङ्ग-जान् ॥ ४८ ॥
श्लोक 49
कासघ्नस्याश्व-शकृतः सुरसस्यासितस्य च ।
देवदारु-शठी-रास्ना-कर्कटाख्या-दुरालभाः ॥ ४९ ॥
श्लोक 50
सुरसस्यासितस्य वा पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला ।
लाजाः सितोपला सर्पिः शृङ्गी धात्री-फलोद्भवा ॥ ५० ॥
श्लोक 51
शृङ्गी धात्री-फलाद् रजः मधु-तैल-युता लेहास् त्रयो वातानुगे कफे ।
द्वे पले दाडिमाद् अष्टौ गुडाद् व्योषात् पल-त्रयम् ॥ ५१ ॥
श्लोक 52
रोचनं दीपनं स्वर्यं पीनस-श्वास-कास-जित् ।
गुड-क्षारोषण-कणा-दाडिमं श्वास-कास-जित् ॥ ५२ ॥
श्लोक 53
दाडिमाच् छ्वास-कास-जित् क्रमात् पल-द्वयार्धाक्ष-कर्षार्धाक्ष-पलोन्मितम् ।
पिबेज् ज्वरोक्तं पथ्यादि स-शृङ्गीकं च पाचनम् ॥ ५३ ॥
श्लोक 54
कर्षाक्षार्ध-पलोन्मितम् अथ-वा दीप्यक-त्रिवृद्-विशाला-घन-पौष्करम् ।
स-कणं क्वथितं मूत्रे कफ-कासी जले ऽपि वा ॥ ५४ ॥
श्लोक 55
तैल-भृष्टं च वैदेही-कल्काक्षं स-सितोपलम् ।
पाययेत् कफ-कास-घ्नं कुलत्थ-सलिलाप्लुतम् ॥ ५५ ॥
श्लोक 56
दश-मूलाढके प्रस्थं घृतस्याक्ष-समैः पचेत् ।
पुष्कराह्व-शठी-बिल्व-सुरसा-व्योष-हिङ्गुभिः ॥ ५६ ॥
श्लोक 57
पुष्कराख्य-शठी-बिल्व- पेयानु-पानं तत् सर्व-वात-श्लेष्मामयापहम् ।
निर्गुण्डी-पत्त्र-निर्यास-साधितं कास-जिद् घृतम् ॥ ५७ ॥
श्लोक
घृतं रसे विडङ्गानां व्योष-गर्भं च साधितम् ॥ ५७ऊअब् ॥
श्लोक 58
पुनर्नव-शिवातिका-सरल-कासमर्दामृता- ॥ ५८अ ॥
पटोल-बृहती-फणिज्जक-रसैः पयः-संयुतैः ॥ ५८ब् ॥
घृतं त्रि-कटुना च सिद्धम् उपयुज्य संजायते ॥ ५८च् ॥
न कास-विषम-ज्वर-क्षय-गुदाङ्कुरेभ्यो भयम् ॥ ५८द् ॥
श्लोक 59
स-मूल-फल-पत्त्रायाः कण्टकार्या रसाढके ॥ ५९अब् ॥
श्लोक 60
स-मूल-फल-शाखायाः घृत-प्रस्थं बला-व्योष-विडङ्ग-शठि-दाडिमैः ।
सौवर्चल-यव-क्षार-मूलामलक-पौष्करैः ॥ ६० ॥
श्लोक 61
वृश्चीव-बृहती-पथ्या-यवानी-चित्रकर्द्धिभिः ।
मृद्वीका-चव्य-वर्षाभू-दुरालभाम्ल-वेतसैः ॥ ६१ ॥
श्लोक 62
शृङ्गी-तामलकी-भार्गी-रास्ना-गोक्षुरकैः पचेत् ।
कल्कैस् तत् सर्व-कासेषु श्वास-हिध्मासु चेष्यते ॥ ६२ ॥
श्लोक 63
कण्टकारी-घृतं चैतत् कफ-व्याधि-विनाशनम् ।
पचेद् व्याघ्री-तुलां क्षुण्णां वहे ऽपाम् आढक-स्थिते ॥ ६३ ॥
श्लोक 64
क्षिपेत् पूते तु संचूर्ण्य व्योष-रास्नामृताग्निकान् ।
शृङ्गी-भार्गी-घन-ग्रन्थि-धन्वयासान् पलार्धकान् ॥ ६४ ॥
श्लोक 65
क्षिपेत् पूते च संचूर्ण्य सर्पिषः षो-डश-पलं चत्वारिंशत् पलानि च ।
मत्स्यण्डिकायाः शुद्धायाः पुनश् च तद् अधिश्रयेत् ॥ ६५ ॥
श्लोक 66
दर्वी-लेपिनि शीते च पृथग् द्वि-कुडवं क्षिपेत् ।
पिप्पलीनां तवक्षीर्या माक्षिकस्या-नवस्य च ॥ ६६ ॥
श्लोक 67
पिप्पलीनां तुकाक्षीर्या लेहो ऽयं गुल्म-हृद्-रोग-दुर्-नाम-श्वास-कास-जित् ।
शमनं च पिबेद् धूमं शोधनं बहले कफे ॥ ६७ ॥
श्लोक 68
शोधनं बहुले कफे मनःशिलाल-मधुक-मांसी-मुस्तेङ्गुदी-त्वचः ।
धूमं कास-घ्न-विधिना पीत्वा क्षीरं पिबेद् अनु ॥ ६८ ॥
श्लोक 69
निष्ठ्यूतान्ते गुड-युतं कोष्णं धूमो निहन्ति सः ।
वात-श्लेष्मोत्तरान् कासान् अ-चिरेण चिरन्-तनान् ॥ ६९ ॥
श्लोक 70
तमकः कफ-कासे तु स्याच् चेत् पित्तानुबन्ध-जः ।
पित्त-कास-क्रियां तत्र यथावस्थं प्रयोजयेत् ॥ ७० ॥
श्लोक 71
कफानुबन्धे पवने कुर्यात् कफ-हरां क्रियाम् ।
पित्तानुबन्धयोर् वात-कफयोः पित्त-नाशिनीम् ॥ ७१ ॥
श्लोक 72
वात-श्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् ।
कासे कर्म स-पित्ते तु कफ-जे तिक्त-संयुतम् ॥ ७२ ॥
श्लोक 73
स्निग्धं चार्द्रे विरूक्षणम् उरस्य् अन्तः-क्षते सद्यो लाक्षां क्षौद्र-युतां पिबेत् ।
क्षीरेण शालीन् जीर्णे ऽद्यात् क्षीरेणैव स-शर्करान् ॥ ७३ ॥
श्लोक 74
पार्श्व-वस्ति-स-रुक् चाल्प-पित्ताग्निस् तां सुरा-युताम् ।
भिन्न-विट्कः स-मुस्तातिविषा-पाठां स-वत्सकाम् ॥ ७४ ॥
श्लोक 75
लाक्षां सर्पिर् मधूच्छिष्टं जीवनीयं गणं सिताम् ।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ ७५ ॥
श्लोक 76
त्वक्क्षीरीं संमितं क्षीरे इक्ष्वारिका-बिस-ग्रन्थि-पद्म-केसर-चन्दनैः ।
शृतं पयो मधु-युतं संधानार्थं पिबेत् क्षती ॥ ७६ ॥
श्लोक 77
यवानां चूर्णम् आमानां क्षीरे सिद्धं घृतान्वितम् ।
ज्वर-दाहे सिता-क्षौद्र-सक्तून् वा पयसा पिबेत् ॥ ७७ ॥
श्लोक 78
क्षीर-सिद्धं घृतान्वितम् कास-वांस् तु पिबेत् सर्पिर् मधुरौषध-साधितम् ।
गुडोदकं वा क्वथितं स-क्षौद्र-मरिचं हितम् ॥ ७८ ॥
श्लोक 79
कास-वांश् च पिबेत् सर्पिर् चूर्णम् आमलकानां वा क्षीरे पक्वं घृतान्वितम् ।
रसायन-विधानेन पिप्पलीर् वा प्रयोजयेत् ॥ ७९ ॥
श्लोक 80
क्षीर-पक्वं घृतान्वितम् कासी पर्वास्थि-शूली च लिह्यात् स-घृत-माक्षिकाः ।
मधूक-मधुक-द्राक्षा-त्वक्क्षीरी-पिप्पली-बलाः ॥ ८० ॥
श्लोक 81
लिह्यात् स-घृत-माक्षिकान् -त्वक्क्षीरी-पिप्पली-बलान् त्रि-जातम् अर्ध-कर्षांशं पिप्पल्य्-अर्ध-पलं सिता ।
द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्ण-चूर्णितम् ॥ ८१ ॥
श्लोक 82
मधुना गुटिका घ्नन्ति ता वृष्याः पित्त-शोणितम् ।
कास-श्वासा-रुचि-च्छर्दि-मूर्छा-हिध्मा-मद-भ्रमान् ॥ ८२ ॥
श्लोक 83
मूर्छा-हिध्मा-वमि-भ्रमान् क्षत-क्षय-स्वर-भ्रंश-प्लीह-शोषाढ्य-मारुतान् ।
रक्त-निष्ठीव-हृत्-पार्श्व-रुक्-पिपासा-ज्वरान् अपि ॥ ८३ ॥
श्लोक 84
प्लीह-शोफाढ्य-मारुतान् वर्षाभू-शर्करा-रक्त-शालि-तण्डुल-जं रजः ।
रक्त-ष्ठीवी पिबेत् सिद्धं द्राक्षा-रस-पयो-घृतैः ॥ ८४ ॥
श्लोक 85
मधूक-मधुक-क्षीर-सिद्धं वा तण्डुलीयकम् ।
यथा-स्वं मार्ग-विसृते रक्ते कुर्याच् च भेषजम् ॥ ८५ ॥
श्लोक 86
मूढ-वातस् त्व् अजा-मेदः सुरा-भृष्टं स-सैन्धवम् ।
क्षामः क्षीणः क्षतोरस्को मन्द-निद्रो ऽग्नि-दीप्ति-मान् ॥ ८६ ॥
श्लोक 87
शृत-क्षीर-सरेणाद्यात् स-घृत-क्षौद्र-शर्करम् ।
शर्करा-यव-गोधूमं जीवकर्षभकौ मधु ॥ ८७ ॥
श्लोक 88
शर्करां यव-गोधूमं शृत-क्षीरानु-पानं वा लिह्यात् क्षीणः क्षतः कृशः ।
क्रव्यात्-पिशित-निर्यूहं घृत-भृष्टं पिबेच् च सः ॥ ८८ ॥
श्लोक 89
पिप्पली-क्षौद्र-संयुक्तं मांस-शोणित-वर्धनम् ।
न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-शाल-प्रियङ्गुभिः ॥ ८९ ॥
श्लोक 90
ताल-मस्तक-जम्बू-त्वक्-प्रियालैश् च स-पद्मकैः ।
साश्वकर्णैः शृतात् क्षीराद् अद्याज् जातेन सर्पिषा ॥ ९० ॥