अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 12

श्लोक 1

रोगाः सर्वे ऽपि मन्दे ऽग्नौ सु-तराम् उदराणि तु ।
अ-जीर्णान् मलिनैश् चान्नैर् जायन्ते मल-संचयात् ॥ १ ॥

श्लोक 2

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीर् अम्बु-वाहिनीः ।
प्राणाग्न्य्-अपानान् संदूष्य कुर्युस् त्वङ्-मांस-संधि-गाः ॥ २ ॥

श्लोक 3

आध्माप्य कुक्षिम् उदरम् अष्ट-धा तच् च भिद्यते ।
पृथग् दोषैः समस्तैश् च प्लीह-बद्ध-क्षतोदकैः ॥ ३ ॥

श्लोक 4

तेनार्ताः शुष्क-ताल्व्-ओष्ठाः शून-पाद-करोदराः ।
नष्ट-चेष्टा-बलाहाराः कृशाः प्रध्मात-कुक्षयः ॥ ४ ॥

श्लोक 5

स्युः प्रेत-रूपाः पुरुषा भाविनस् तस्य लक्षणम् ।
क्षुन्-नाशो ऽन्नं चिरात् सर्वं स-विदाहं च पच्यते ॥ ५ ॥

श्लोक 6

स-विदाहं विपच्यते जीर्णा-जीर्णं न जानाति सौहित्यं सहते न च ।
क्षीयते बलतः शश्वच् छ्वसित्य् अल्पे ऽपि चेष्टिते ॥ ६ ॥

श्लोक 7

वृद्धिर् विषो ऽ-प्रवृत्तिश् च किञ्-चिच् छोफश् च पादयोः ।
रुग्-वस्ति-संधौ तत-ता लघ्व्-अल्पा-भोजनैर् अपि ॥ ७ ॥

श्लोक 8

वृद्धिर् विषो ऽ-प्रवृत्तिर् वा राजी-जन्म वली-नाशो जठरे जठरेषु तु ।
सर्वेषु तन्द्रा सदनं मल-सङ्गो ऽल्प-वह्नि-ता ॥ ८ ॥

श्लोक 9

दाहः श्वयथुर् आध्मानम् अन्ते सलिल-संभवः ।
सर्वं त्व् अ-तोयम् अरुणम् अ-शोफं नाति-भारिकम् ॥ ९ ॥

श्लोक 10

गवाक्षितं सिरा-जालैः सदा गुडगुडायते ।
नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥ १० ॥

श्लोक 11

मारुतो हृत्-कटी-नाभि-पायु-वङ्क्षण-वेदनाः ।
स-शब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम् ॥ ११ ॥

श्लोक 12

पायु-वङ्क्षण-वेदना नाति-मन्दो ऽनलो लौल्यं न च स्याद् वि-रसं मुखम् ।
तत्र वातोदरे शोफः पाणि-पान्-मुष्क-कुक्षिषु ॥ १२ ॥

श्लोक 13

कुक्षि-पार्श्वोदर-कटी-पृष्ठ-रुक् पर्व-भेदनम् ।
शुष्क-कासो ऽङ्ग-मर्दो ऽधो-गुरु-ता मल-संग्रहः ॥ १३ ॥

    श्लोक 14

    श्यावारुण-त्वग्-आदि-त्वम् अ-कस्माद् वृद्धि-ह्रास-वत् ।
    स-तोद-भेदम् उदरं तनु-कृष्ण-सिरा-ततम् ॥ १४ ॥

    श्लोक 15

    तनु कृष्ण-सिरा-ततम् आध्मात-दृति-वच् छब्दम् आहतं प्रकरोति च ।
    वायुश् चात्र स-रुक्-शब्दो विचरेत् सर्वतो-गतिः ॥ १५ ॥

    श्लोक 16

    पित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्य-ता ।
    भ्रमो ऽतीसारः पीत-त्वं त्वग्-आदाव् उदरं हरित् ॥ १६ ॥

    श्लोक 17

    पीत-ताम्र-सिरानद्धं स-स्वेदं सोष्म दह्यते ।
    धूमायति मृदु-स्पर्शं क्षिप्र-पाकं प्रदूयते ॥ १७ ॥

    श्लोक 18

    धूमायते मृदु-स्पर्शं श्लेष्मोदरे ऽङ्ग-सदनं स्वापः श्वयथु-गौरवम् ।
    निद्रोत्क्लेशा-रुचि-श्वास-कास-शुक्ल-त्वग्-आदि-ता ॥ १८ ॥

    श्लोक 19

    स्वाप-श्वयथु-गौरवम् उदरं स्तिमितं श्लक्ष्णं शुक्ल-राजी-ततं महत् ।
    चिराभिवृद्धि कठिनं शीत-स्पर्शं गुरु स्थिरम् ॥ १९ ॥

    श्लोक 20

    उदरं स्तिमितं स्निग्धं त्रि-दोष-कोपनैस् तैस् तैः स्त्री-दत्तैश् च रजो-मलैः ।
    गर-दूषी-विषाद्यैश् च स-रक्ताः संचिता मलाः ॥ २० ॥

    श्लोक 21

    कोष्ठं प्राप्य विकुर्वाणाः शोष-मूर्छा-भ्रमान्वितम् ।
    कुर्युस् त्रि-लिङ्गम् उदरं शीघ्र-पाकं सु-दारुणम् ॥ २१ ॥

    श्लोक 22

    बाधते तच् च सु-तरां शीत-वाताभ्र-दर्शने ।
    अत्य्-आशितस्य संक्षोभाद् यान-यानादि-चेष्टितैः ॥ २२ ॥

    श्लोक 23

    शीत-वाताभ्र-दर्शनैः अति-व्यवाय-कर्माध्व-वमन-व्याधि-कर्शनैः ।
    वाम-पार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते ॥ २३ ॥

    श्लोक 24

    शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ।
    सो ऽष्ठीलेवाति-कठिनः प्राक् ततः कूर्म-पृष्ठ-वत् ॥ २४ ॥

    श्लोक 25

    प्राकृतः कूर्म-पृष्ठ-वत् क्रमेण वर्धमानश् च कुक्षाव् उदरम् आवहेत् ।
    श्वास-कास-पिपासास्य-वैरस्याध्मान-रुग्-ज्वरैः ॥ २५ ॥

    श्लोक 26

    पाण्डु-त्व-मूर्छा-छर्दीभिर् दाह-मोहैश् च संयुतम् ।
    अरुणाभं वि-वर्णं वा नील-हारिद्र-राजि-मत् ॥ २६ ॥

    श्लोक 27

    पाण्डु-त्व-मूर्छाति-छर्दि- -दाह-मोहैश् च संयुतम् उदावर्त-रुजानाहैर् मोह-तृड्-दहन-ज्वरैः ।
    गौरवा-रुचि-काठिन्यैर् विद्यात् तत्र मलान् क्रमात् ॥ २७ ॥

    श्लोक 28

    उदावर्त-रुग्-आनाहैर् प्लीह-वद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् ।
    पक्ष्म-वालैः सहान्नेन भुक्तैर् बद्धायने गुदे ॥ २८ ॥

    श्लोक 29

    दुर्-नामभिर् उदावर्तैर् अन्यैर् वान्त्रोपलेपिभिः ।
    वर्चः-पित्त-कफान् रुद्ध्वा करोति कुपितो ऽनिलः ॥ २९ ॥

    श्लोक 30

    अन्नैर् वान्त्रोपलेपिभिः अपानो जठरं तेन स्युर् दाह-ज्वर-तृट्-क्षवाः ।
    कास-श्वासोरु-सदनं शिरो-हृन्-नाभि-पायु-रुक् ॥ ३० ॥

    श्लोक 31

    स्युर् दाह-ज्वर-तृट्-क्षुधाः स्युर् दाह-ज्वर-तृट्-क्षुतः मल-सङ्गो ऽ-रुचिश् छर्दिर् उदरं मूढ-मारुतम् ।
    स्थिरं नीलारुण-सिरा-राजी-नद्धम् अ-राजि वा ॥ ३१ ॥

    श्लोक 32

    नाभेर् उपरि च प्रायो गो-पुच्छाकृति जायते ।
    अस्थ्य्-आदि-शल्यैः सान्नैश् चेद् भुक्तैर् अत्य्-अशनेन वा ॥ ३२ ॥

    श्लोक 33

    अस्थ्य्-आदि-शल्यैः सान्नैश् च भिद्यते पच्यते वान्त्रं तच्-छिद्रैश् च स्रवन् बहिः ।
    आम एव गुदाद् एति ततो ऽल्पाल्पं स-विड्-रसः ॥ ३३ ॥

    श्लोक 34

    भिद्यते पच्यते चान्त्रं ऽल्पाल्पः स-विड्-रसः तुल्यः कुणप-गन्धेन पिच्छिलः पीत-लोहितः ।
    शेषश् चापूर्य जठरं जठरं घोरम् आवहेत् ॥ ३४ ॥

    श्लोक 35

    वर्धयेत् तद् अधो नाभेर् आशु चैति जलात्म-ताम् ।
    उद्रिक्त-दोष-रूपं च व्याप्तं च श्वास-तृड्-भ्रमैः ॥ ३५ ॥

    श्लोक 36

    वर्धते तद् अधो नाभेर् व्याप्तं च श्वास-तृड्-ज्वरैः छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे ।
    प्रवृत्त-स्नेह-पानादेः सहसामाम्बु-पायिनः ॥ ३६ ॥

    श्लोक 37

    अत्य्-अम्बु-पानान् मन्दाग्नेः क्षीणस्याति-कृशस्य वा ।
    रुद्ध्वाम्बु-मार्गान् अनिलः कफश् च जल-मूर्छितः ॥ ३७ ॥

    श्लोक 38

    वर्धयेतां तद् एवाम्बु तत्-स्थानाद् उदराश्रितौ ।
    ततः स्याद् उदरं तृष्णा-गुद-स्रुति-रुजान्वितम् ॥ ३८ ॥

    श्लोक 39

    गुद-स्रुति-रुजा-युतम् कास-श्वासा-रुचि-युतं नाना-वर्ण-सिरा-ततम् ।
    तोय-पूर्ण-दृति-स्पर्श-शब्द-प्रक्षोभ-वेपथु ॥ ३९ ॥

    श्लोक 40

    नाना-वर्ण-सिरान्वितम् नाना-वर्ण-सिराचितम् नाना-वर्ण-सिरावृतम् दकोदरं महत् स्निग्धं स्थिरम् आवृत्त-नाभि तत् ।
    उपेक्षया च सर्वेषु दोषाः स्व-स्थानतश् च्युताः ॥ ४० ॥

    श्लोक 41

    पाकाद् द्रवा द्रवी-कुर्युः संधि-स्रोतो-मुखान्य् अपि ।
    स्वेदश् च बाह्य-स्रोतःसु विहतस् तिर्यग्-आस्थितः ॥ ४१ ॥

    श्लोक 42

    पाकाद् द्रवाद् द्रवी-कुर्युः तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् ।
    गुरूदरं स्थिरं वृत्तम् आहतं च न शब्द-वत् ॥ ४२ ॥

    श्लोक 43

    मृदु व्यपेत-राजीकं नाभ्यां स्पृष्टं च सर्पति ।
    तद् अनूदक-जन्मास्मिन् कुक्षि-वृद्धिस् ततो ऽधिकम् ॥ ४३ ॥

    श्लोक 44

    सिरान्तर्धानम् उदक-जठरोक्तं च लक्षणम् ।
    वात-पित्त-कफ-प्लीह-संनिपातोदकोदरम् ॥ ४४ ॥

    श्लोक 45

    कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः ।
    सर्वं च जात-सलिलं रिष्टोक्तोपद्रवान्वितम् ॥ ४५ ॥

    श्लोक 46

    जन्मनैवोदरं सर्वं प्रायः कृच्छ्र-तमं मतम् ।
    बलिनस् तद् अ-जाताम्बु यत्न-साध्यं नवोत्थितम् ॥ ४६ ॥