अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 11

श्लोक 1

भुक्तैः पर्युषितात्य्-उष्ण-रूक्ष-शुष्क-विदाहिभिः ।
जिह्म-शय्या-विचेष्टाभिस् तैस् तैश् चासृक्-प्रदूषणैः ॥ १ ॥

श्लोक 2

दुष्ट-त्वङ्-मांस-मेदो-ऽस्थि-स्नाय्व्-असृक्-कण्डराश्रयः ।
यः शोफो बहिर् अन्तर् वा महा-मूलो महा-रुजः ॥ २ ॥

श्लोक 3

दुष्टस् त्वङ्-मांस-मेदो-ऽस्थि- वृत्तः स्याद् आयतो यो वा स्मृतः षो-ढा स विद्रधिः ।
दोषैः पृथक् समुदितैः शोणितेन क्षतेन च ॥ ३ ॥

श्लोक 4

बाह्यो ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः ।
आन्तरो दारुण-तरो गम्भीरो गुल्म-वद् घनः ॥ ४ ॥

श्लोक 5

वल्मीक-वत् समुच्छ्रायी शीघ्र-घात्य् अग्नि-शस्त्र-वत् ।
नाभि-वस्ति-यकृत्-प्लीह-क्लोम-हृत्-कुक्षि-वङ्क्षणे ॥ ५ ॥

श्लोक 6

स्याद् वृक्कयोर् अपाने च वातात् तत्राति-तीव्र-रुक् ।
श्यावारुणश् चिरोत्थान-पाको विषम-संस्थितिः ॥ ६ ॥

श्लोक 7

स्याद् वृक्कयोर् अपाने वा व्यध-च्छेद-भ्रमानाह-स्पन्द-सर्पण-शब्द-वान् ।
रक्त-ताम्रासितः पित्तात् तृण्-मोह-ज्वर-दाह-वान् ॥ ७ ॥

श्लोक 8

क्षिप्रोत्थान-प्रपाकश् च पाण्डुः कण्डू-युतः कफात् ।
सोत्क्लेश-शीतक-स्तम्भ-जृम्भा-रोचक-गौरवः ॥ ८ ॥

श्लोक 9

चिरोत्थान-विपाकश् च संकीर्णः संनिपाततः ।
सामर्थ्याच् चात्र विभजेद् बाह्याभ्यन्तर-लक्षणम् ॥ ९ ॥

श्लोक 10

चिरोत्थान-प्रपाकश् च कृष्ण-स्फोटावृतः श्यावस् तीव्र-दाह-रुजा-ज्वरः ।
पित्त-लिङ्गो ऽसृजा बाह्यः स्त्रीणाम् एव तथान्तरः ॥ १० ॥

श्लोक 11

शस्त्राद्यैर् अभिघातेन क्षते वा-पथ्य-कारिणः ।
क्षतोष्मा वायु-विक्षिप्तः स-रक्तं पित्तम् ईरयन् ॥ ११ ॥

श्लोक 12

स-रक्तं पित्तम् ईरयेत् पित्तासृग्-लक्षणं कुर्याद् विद्रधिं भूर्य्-उपद्रवम् ।
तेषूपद्रव-भेदश् च स्मृतो ऽधिष्ठान-भेदतः ॥ १२ ॥

श्लोक 13

नाभ्यां हिध्मा भवेद् वस्तौ मूत्रं कृच्छ्रेण पूति च ।
श्वासो यकृति रोधस् तु प्लीह्न्य् उच्छ्वासस्य तृट् पुनः ॥ १३ ॥

श्लोक 14

गल-ग्रहश् च क्लोम्नि स्यात् सर्वाङ्ग-प्रग्रहो हृदि ।
प्रमोहस् तमकः कासो हृदये घट्टनं व्यथा ॥ १४ ॥

श्लोक 15

कुक्षि-पार्श्वान्तरांसार्तिः कुक्षाव् आटोप-जन्म च ।
सक्थ्नोर् ग्रहो वङ्क्षणयोर् वृक्कयोः कटि-पृष्ठयोः ॥ १५ ॥

श्लोक 16

पार्श्वयोश् च व्यथा पायौ पवनस्य निरोधनम् ।
आम-पक्व-विदग्ध-त्वं तेषां शोफ-वद् आदिशेत् ॥ १६ ॥

श्लोक 17

नाभेर् ऊर्ध्वं मुखात् पक्वाः प्रस्रवन्त्य् अधरे गुदात् ।
गुदास्यान् नाभि-जो विद्याद् दोषं क्लेदाच् च विद्रधौ ॥ १७ ॥

श्लोक 18

उभाभ्यां नाभि-जो विद्याद् यथा-स्वं व्रण-वत् तत्र विवर्ज्यः संनिपात-जः ।
पक्वो हृन्-नाभि-वस्ति-स्थो भिन्नो ऽन्तर् बहिर् एव वा ॥ १८ ॥

श्लोक 19

पक्वश् चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः ।
एवम् एव स्तन-सिरा विवृताः प्राप्य योषिताम् ॥ १९ ॥

श्लोक 20

सूतानां गर्भिणीनां वा संभवेच् छ्वयथुर् घनः ।
स्तने स-दुग्धे ऽ-दुग्धे वा बाह्य-विद्रधि-लक्षणः ॥ २० ॥

श्लोक 21

नाडीनां सूक्ष्म-वक्त्र-त्वात् कन्यानां न स जायते ।
क्रुद्धो रुद्ध-गतिर् वायुः शोफ-शूल-करश् चरन् ॥ २१ ॥

    श्लोक 22

    कन्यानां तु न जायते क्रुद्धो ऽन्-ऊर्ध्व-गतिर् वायुः मुष्कौ वङ्क्षणतः प्राप्य फल-कोशाभिवाहिनीः ।
    प्रपीड्य धमनीर् वृद्धिं करोति फल-कोशयोः ॥ २२ ॥

    श्लोक 23

    दोषास्र-मेदो-मूत्रान्त्रैः स वृद्धिः सप्त-धा गदः ।
    मूत्रान्त्र-जाव् अप्य् अनिलाद् धेतु-भेदस् तु केवलम् ॥ २३ ॥

    श्लोक 24

    वात-पूर्ण-दृति-स्पर्शो रूक्षो वाताद् अ-हेतु-रुक् ।
    पक्वोदुम्बर-संकाशः पित्ताद् दाहोष्म-पाक-वान् ॥ २४ ॥

    श्लोक 25

    कफाच् छीतो गुरुः स्निग्धः कण्डू-मान् कठिनो ऽल्प-रुक् ।
    कृष्ण-स्फोटावृतः पित्त-वृद्धि-लिङ्गश् च रक्ततः ॥ २५ ॥

    श्लोक 26

    कृष्णः स्फोटावृतः पित्त- कफ-वन् मेदसा वृद्धिर् मृदुस् ताल-फलोपमः ।
    मूत्र-धारण-शीलस्य मूत्र-जः स तु गच्छतः ॥ २६ ॥

    श्लोक 27

    अम्भोभिः पूर्ण-दृति-वत् क्षोभं याति स-रुङ् मृदुः ।
    मूत्र-कृच्छ्रम् अधस्-ताच् च वलयं फल-कोशयोः ॥ २७ ॥

    श्लोक 28

    वात-कोपिभिर् आहारैः शीत-तोयावगाहनैः ।
    धारणेरण-भाराध्व-विषमाङ्ग-प्रवर्तनैः ॥ २८ ॥

    श्लोक 29

    क्षोभणैः क्षुभितो ऽन्यैश् च क्षुद्रान्त्रावयवं यदा ।
    पवनो वि-गुणी-कृत्य स्व-निवेशाद् अधो नयेत् ॥ २९ ॥

    श्लोक 30

    पवनो द्वि-गुणी-कृत्य कुर्याद् वङ्क्षण-संधि-स्थो ग्रन्थ्य्-आभं श्वयथुं तदा ॥ ३०अब् ॥
    उपेक्ष्यमाणस्य च मुष्क-वृद्धिम् आध्मान-रुक्-स्तम्भ-वतीं स वायुः ॥ ३०च्द् ॥
    प्रपीडितो ऽन्तः स्वन-वान् प्रयाति प्रध्मापयन्न् एति पुनश् च मुक्तः ॥ ३०एf ॥

    श्लोक 31

    अन्त्र-वृद्धिर् अ-साध्यो ऽयं वात-वृद्धि-समाकृतिः ॥ ३१ ॥

    श्लोक 

    इति वृद्धि-निदानम् अथ गुल्म-निदानम् ॥ ३१+१ ॥

    श्लोक 32

    रूक्ष-कृष्णारुण-सिरा-तन्तु-जाल-गवाक्षितः ।
    गुल्मो ऽष्ट-धा पृथग् दोषैः संसृष्टैर् निचयं गतैः ॥ ३२ ॥

    श्लोक 33

    आर्तवस्य च दोषेण नारीणां जायते ऽष्टमः ।
    ज्वर-च्छर्द्य्-अतिसाराद्यैर् वमनाद्यैश् च कर्मभिः ॥ ३३ ॥

    श्लोक 34

    कर्शितो वातलान्य् अत्ति शीतं वाम्बु बुभुक्षितः ।
    यः पिबत्य् अनु चान्नानि लङ्घन-प्लवनादिकम् ॥ ३४ ॥

    श्लोक 35

    शीतं चाम्बु बुभुक्षितः सेवते देह-संक्षोभि च्छर्दिं वा समुदीरयेत् ।
    अन्-उदीर्णाम् उदीर्णान् वा वातादीन् न विमुञ्चति ॥ ३५ ॥

    श्लोक 36

    स्नेह-स्वेदाव् अन्-अभ्यस्य शोधनं वा निषेवते ।
    शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥ ३६ ॥

    श्लोक 37

    वातोल्बणास् तस्य मलाः पृथक् क्रुद्धा द्वि-शो ऽथ-वा ।
    सर्वे वा रक्त-युक्ता वा महा-स्रोतो-ऽनुशायिनः ॥ ३७ ॥

    श्लोक 38

    ऊर्ध्वाधो-मार्गम् आवृत्य कुर्वते शूल-पूर्वकम् ।
    स्पर्शोपलभ्यं गुल्माख्यम् उत्प्लुतं ग्रन्थि-रूपिणम् ॥ ३८ ॥

    श्लोक 39

    उन्नतं ग्रन्थि-रूपिणम् कर्शनात् कफ-विट्-पित्तैर् मार्गस्यावरणेन वा ।
    वायुः कृताश्रयः कोष्ठे रौक्ष्यात् काठिन्यम् आगतः ॥ ३९ ॥

    श्लोक 40

    स्व-तन्त्रः स्वाश्रये दुष्टः पर-तन्त्रः पराश्रये ।
    पिण्डित-त्वाद् अ-मूर्तो ऽपि मूर्त-त्वम् इव संश्रितः ॥ ४० ॥

    श्लोक 41

    गुल्म इत्य् उच्यते वस्ति-नाभि-हृत्-पार्श्व-संश्रयः ।
    वातान् मन्या-शिरः-शूलं ज्वर-प्लीहान्त्र-कूजनम् ॥ ४१ ॥

    श्लोक 42

    व्यधः सूच्येव विट्-सङ्गः कृच्छ्राद् उच्छ्वसनं मुहुः ।
    स्तम्भो गात्रे मुखे शोषः कार्श्यं विषम-वह्नि-ता ॥ ४२ ॥

    श्लोक 43

    रूक्ष-कृष्ण-त्वग्-आदि-त्वं चल-त्वाद् अनिलस्य च ।
    अ-निरूपित-संस्थान-स्थान-वृद्धि-क्षय-व्यथः ॥ ४३ ॥

    श्लोक 44

    पिपीलिका-व्याप्त इव गुल्मः स्फुरति तुद्यते ।
    पित्ताद् दाहो ऽम्लको मूर्छा-विड्-भेद-स्वेद-तृड्-ज्वराः ॥ ४४ ॥

    श्लोक 45

    हारिद्र-त्वं त्वग्-आद्येषु गुल्मश् च स्पर्शना-सहः ।
    दूयते दीप्यते सोष्मा स्व-स्थानं दहतीव च ॥ ४५ ॥

    श्लोक 46

    कफात् स्तैमित्यम् अ-रुचिः सदनं शिशिर-ज्वरः ।
    पीनसालस्य-हृल्-लास-कास-शुक्ल-त्वग्-आदि-ताः ॥ ४६ ॥

    श्लोक 47

    गुल्मो ऽवगाढः कठिनो गुरुः सुप्तः स्थिरो ऽल्प-रुक् ।
    स्व-दोष-स्थान-धामानः स्वे स्वे काले च रुक्-कराः ॥ ४७ ॥

    श्लोक 48

    प्रायस् त्रयस् तु द्वन्द्वोत्था गुल्माः संसृष्ट-लक्षणाः ।
    सर्व-जस् तीव्र-रुग्-दाहः शीघ्र-पाकी घनोन्नतः ॥ ४८ ॥

    श्लोक 49

    सो ऽ-साध्यो रक्त-गुल्मस् तु स्त्रिया एव प्रजायते ।
    ऋतौ वा नव-सूता वा यदि वा योनि-रोगिणी ॥ ४९ ॥

    श्लोक 50

    सेवते वातलानि स्त्री क्रुद्धस् तस्याः समीरणः ।
    निरुणद्ध्य् आर्तवं योन्यां प्रति-मासम् अवस्थितम् ॥ ५० ॥

    श्लोक 51

    कुक्षिं करोति तद्-गर्भ-लिङ्गम् आविष्-करोति च ।
    हृल्-लास-दौर्हृद-स्तन्य-दर्शन-क्षाम-तादिकम् ॥ ५१ ॥

    श्लोक 52

    क्रमेण वायु-संसर्गात् पित्त-योनि-तया च तत् ।
    शोणितं कुरुते तस्या वात-पित्तोत्थ-गुल्म-जान् ॥ ५२ ॥

    श्लोक 53

      रुक्-स्तम्भ-दाहातीसार-तृड्-ज्वरादीन् उपद्रवान् ।
      गर्भाशये च सु-तरां शूलं दुष्टासृग्-आश्रये ॥ ५३ ॥

      श्लोक 54

      योन्याश् च स्राव-दौर्गन्ध्य-तोद-स्पन्दन-वेदनाः ।
      न चाङ्गैर् गर्भ-वद् गुल्मः स्फुरत्य् अपि तु शूल-वान् ॥ ५४ ॥

      श्लोक 55

      तोद-स्फुरण-वेदनाः क्लेद-स्वेदन-वेदनाः पिण्डी-भूतः स एवास्याः कदा-चित् स्पन्दते चिरात् ।
      न चास्या वर्धते कुक्षिर् गुल्म एव तु वर्धते ॥ ५५ ॥

      श्लोक 56

      स्व-दोष-संश्रयो गुल्मः सर्वो भवति तेन सः ।
      पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥ ५६ ॥

      श्लोक 57

      पच्यते शीघ्रम् अत्य्-अर्थं दुष्ट-रक्ताश्रय-त्वतः ।
      अतः शीघ्र-विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ॥ ५७ ॥

      श्लोक 58

      गुल्मे ऽन्तर्-आश्रये वस्ति-कुक्षि-हृत्-प्लीह-वेदनाः ।
      अग्नि-वर्ण-बल-भ्रंशो वेगानां चा-प्रवर्तनम् ॥ ५८ ॥

      श्लोक 59

      कुक्षि-हृत्-पार्श्व-वेदनाः अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नाति-रुक् ।
      वैवर्ण्यम् अवकाशस्य बहिर् उन्नत-ताधिकम् ॥ ५९ ॥

      श्लोक 60

      साटोपम् अत्य्-उग्र-रुजम् आध्मानम् उदरे भृशम् ।
      ऊर्ध्वाधो-वात-रोधेन तम् आनाहं प्रचक्षते ॥ ६० ॥

      श्लोक 61

      घनो ऽष्ठीलोपमो ग्रन्थिर् अष्ठीलोर्ध्वं समुन्नतः ।
      आनाह-लिङ्गस् तिर्यक् तु प्रत्यष्ठीला तद्-आकृतिः ॥ ६१ ॥

      श्लोक 62

      आनाह-लिङ्गस् तिर्यक् च पक्वाशयाद् गुदोपस्थं वायुस् तीव्र-रुजः प्रयान् ।
      तूणी प्रतूणी तु भवेत् स एवातो विपर्यये ॥ ६२ ॥

      श्लोक 63

      उद्गार-बाहुल्य-पुरीष-बन्ध-तृप्त्य्-अ-क्षम-त्वान्त्र-विकूजनानि ।
      आटोपम् आध्मानम् अ-पक्ति-शक्तिम् आसन्न-गुल्मस्य वदन्ति चिह्नम् ॥ ६३ ॥
      आटोपम् आध्मानम् अ-पक्त्य्-अ-शक्तिम्