श्लोक 1
सर्व-शस्त्रानु-शस्त्राणां क्षारः श्रेष्ठो बहूनि यत् ।
छेद्य-भेद्यादि-कर्माणि कुरुते विषमेष्व् अपि ॥ १ ॥
श्लोक 2
दुःखावचार्य-शास्त्रेषु तेन सिद्धिम् अ-यात्सु च ।
अति-कृच्छ्रेषु रोगेषु यच् च पाने ऽपि युज्यते ॥ २ ॥
श्लोक 3
तेन सिद्धिं न यात्सु च स पेयो ऽर्शो-ऽग्नि-सादाश्म-गुल्मोदर-गरादिषु ।
योज्यः साक्षान् मष-श्वित्र-बाह्यार्शः-कुष्ठ-सुप्तिषु ॥ ३ ॥
श्लोक 4
भगन्दरार्बुद-ग्रन्थि-दुष्ट-नाडी-व्रणादिषु ।
न तूभयो ऽपि योक्तव्यः पित्ते रक्ते चले ऽ-बले ॥ ४ ॥
श्लोक 5
भगन्दरापची-ग्रन्थि- पित्ते रक्ते बले ऽ-बले ज्वरे ऽतीसारे हृन्-मूर्ध-रोगे पाण्ड्व्-आमये ऽ-रुचौ ।
तिमिरे कृत-संशुद्धौ श्वयथौ सर्व-गात्र-गे ॥ ५ ॥
श्लोक 6
श्वयथौ सर्व-गात्र-जे भीरु-गर्भिण्य्-ऋतु-मती-प्रोद्वृत्त-फल-योनिषु ।
अ-जीर्णे ऽन्ने शिशौ वृद्धे धमनी-संधि-मर्मसु ॥ ६ ॥
श्लोक 7
तरुणास्थि-सिरा-स्नायु-सेवनी-गल-नाभिषु ।
देशे ऽल्प-मांसे वृषण-मेढ्र-स्रोतो-नखान्तरे ॥ ७ ॥
श्लोक 8
देशे ऽल्प-मांसे वृषणे मेढ्रे स्रोतो-नखान्तरे वर्त्म-रोगाद् ऋते ऽक्ष्णोश् च शीत-वर्षोष्ण-दुर्-दिने ।
काल-मुष्कक-शम्याक-कदली-पारिभद्रकान् ॥ ८ ॥
श्लोक 9
अश्वकर्ण-महावृक्ष-पलाशास्फोत-वृक्षकान् ।
इन्द्रवृक्षार्क-पूतीक-नक्तमालाश्वमारकान् ॥ ९ ॥
श्लोक 10
काकजङ्घाम् अपामार्गम् अग्निमन्थाग्नि-तिल्वकान् ।
सार्द्रान् स-मूल-शाखादीन् खण्ड-शः परिकल्पितान् ॥ १० ॥
श्लोक 11
कोशातकीस् चतस्रश् च शूकं नालं यवस्य च ।
निवाते निचयी-कृत्य पृथक् तानि शिला-तले ॥ ११ ॥
श्लोक 12
शूक-नालं यवस्य च प्रक्षिप्य मुष्कक-चये सुधाश्मानि च दीपयेत् ।
ततस् तिलानां कुतलैर् दग्ध्वाग्नौ विगते पृथक् ॥ १२ ॥
श्लोक 13
ततस् तिलानां कुतिलैर् ततस् तिलानां कुन्तालैर् कृत्वा सुधाश्मनां भस्म द्रोणं त्व् इतर-भस्मनः ।
मुष्ककोत्तरम् आदाय प्रत्य्-एकं जल-मूत्रयोः ॥ १३ ॥
श्लोक 14
द्रोणं चेतर-भस्मनः गालयेद् अर्ध-भारेण महता वाससा च तत् ।
यावत् पिच्छिल-रक्ताच्छस् तीक्ष्णो जातस् तदा च तम् ॥ १४ ॥
श्लोक 15
गृहीत्वा क्षार-निष्यन्दं पचेल् लौह्यां विघट्टयन् ।
पच्यमाने ततस् तस्मिंस् ताः सुधा-भस्म-शर्कराः ॥ १५ ॥
श्लोक 16
शुक्तीः क्षीर-पकं शङ्ख-नाभीश् चायस-भाजने ।
कृत्वाग्नि-वर्णान् बहु-शः क्षारोत्थे कुडवोन्मिते ॥ १६ ॥
श्लोक 17
नाभींश् चायस-भाजने क्षाराच्छे कुडवोन्मिते निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत् ।
श्लक्ष्णं शकृद् दक्ष-शिखि-गृध्र-कङ्क-कपोत-जम् ॥ १७ ॥
श्लोक 18
चतुष्-पात्-पक्षि-पित्ताल-मनोह्वा-लवणानि च ।
परितः सु-तरां चातो दर्व्या तम् अवघट्तयेत् ॥ १८ ॥
श्लोक 19
स-बाष्पैश् च यदोत्तिष्ठेद् बुद्बुदैर् लेह-वद् घनः ।
अवतार्य तदा शीतो यव-राशाव् अयो-मये ॥ १९ ॥
श्लोक 20
स-बाष्पैश् च यदा तिष्ठेद् अवतार्य ततः शीते अवतार्य ततः शीतो अवतार्य तदा शीते स्थाप्यो ऽयं मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन् मृदौ ।
निर्वाप्यापनयेत् तीक्ष्णे पूर्व-वत् प्रतिवापनम् ॥ २० ॥
श्लोक 21
तथा लाङ्गलिका-दन्ती-चित्रकातिविषा-वचाः ।
स्वर्जिका-कनकक्षीरी-हिङ्गु-पूतिक-पल्लवाः ॥ २१ ॥
श्लोक 22
तालपत्त्री विडं चेति सप्त-रात्रात् परं तु सः ।
योज्यस् तीक्ष्णो ऽनिल-श्लेष्म-मेदो-जेष्व् अर्बुदादिषु ॥ २२ ॥
श्लोक 23
तालपत्त्री विडङ्गं च मध्येष्व् एष्व् एव मध्यो ऽन्यः पित्तास्र-गुद-जन्मसु ।
बलार्थं क्षीण-पानीये क्षाराम्बु पुनर् आवपेत् ॥ २३ ॥
श्लोक 24
मध्येष्व् एव च मध्यो ऽन्यः मध्येष्व् एषु च मध्यो ऽन्यः पित्तासृग्-गुद-जन्मसु नाति-तीक्ष्ण-मृदुः श्लक्ष्णः पिच्छिलः शीघ्र-गः सितः ।
शिखरी सुख-निर्वाप्यो न विष्यन्दी न चाति-रुक् ॥ २४ ॥
श्लोक 25
नाति-तीक्ष्णो मृदुः श्लक्ष्णः क्षारो दश-गुणः शस्त्र-तेजसोर् अपि कर्म-कृत् ।
आचूषन्न् इव संरम्भाद् गात्रम् आपीडयन्न् इव ॥ २५ ॥
श्लोक 26
सर्वतो ऽनुसरन् दोषान् उन्मूलयति मूलतः ।
कर्म कृत्वा गत-रुजः स्वयं एवोपशाम्यति ॥ २६ ॥
श्लोक 27
क्षार-साध्ये गदे छिन्ने लिखिते स्राविते ऽथ-वा ।
क्षारं शलाकया दत्त्वा प्लोत-प्रावृत-देहया ॥ २७ ॥
श्लोक 28
प्लोत-प्लावित-देहया मात्रा-शतम् उपेक्षेत तत्रार्शःस्व् आवृताननम् ।
हस्तेन यन्त्रं कुर्वीत वर्त्म-रोगेषु वर्त्मनी ॥ २८ ॥
श्लोक 29
निर्भुज्य पिचुनाच्छाद्य कृष्ण-भागं विनिक्षिपेत् ।
पद्म-पत्त्र-तनुः क्षार-लेपो घ्राणार्बुदेषु च ॥ २९ ॥
श्लोक 30
लेपो घ्राणार्बुदेषु तु प्रत्य्-आदित्यं निषण्णस्य समुन्नम्याग्र-नासिकाम् ।
मात्रा विधार्यः पञ्चाशत् तद्-वद् अर्शसि कर्ण-जे ॥ ३० ॥
श्लोक 31
समुन्नस्याग्र-नासिकाम् मात्रा विधार्य पञ्चाशत् मात्रा विधार्याः पञ्चाशत् क्षारं प्रमार्जनेनानु परिमृज्यावगम्य च ।
सु-दग्धं घृत-मध्व्-अक्तं तत् पयो-मस्तु-काञ्जिकैः ॥ ३१ ॥
श्लोक 32
क्षारं प्रमार्जनेनाशु निर्वापयेत् ततः साज्यैः स्वादु-शीतैः प्रदेहयेत् ।
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ॥ ३२ ॥
श्लोक 33
यदि च स्थिर-मूल-त्वात् क्षार-दग्धं न शीर्यते ।
धान्याम्ल-बीज-यष्ट्य्-आह्व-तिलैर् आलेपयेत् ततः ॥ ३३ ॥
श्लोक 34
तिल-कल्कः स-मधुको घृताक्तो व्रण-रोपणः ।
पक्व-जम्ब्व्-असितं सन्नं सम्यग्-दग्धं विपर्यये ॥ ३४ ॥
श्लोक 35
पक्व-जम्बू-निभं सन्नं ताम्र-ता-तोद-कण्ड्व्-आद्यैर् दुर्-दग्धं तं पुनर् दहेत् ।
अति-दग्धे स्रवेद् रक्तं मूर्छा-दाह-ज्वरादयः ॥ ३५ ॥
श्लोक 36
दुर्-दग्धं तत् पुनर् दहेत् गुदे विशेषाद् विण्-मूत्र-संरोधो ऽति-प्रवर्तनम् ।
पुंस्-त्वोपघातो मृत्युर् वा गुदस्य शातनाद् ध्रुवम् ॥ ३६ ॥
श्लोक 37
गुदस्य शातनं ध्रुवम् गुदस्य सदनाद् ध्रुवम् गुदस्य सदनं ध्रुवम् नासायां नासिका-वंश-दरणाकुञ्चनोद्भवः ।
भवेच् च विषया-ज्ञानं तद्-वच् छ्रोत्रादिकेष्व् अपि ॥ ३७ ॥
श्लोक 38
विशेषाद् अत्र सेको ऽम्लैर् लेपो मधु घृतं तिलाः ।
वात-पित्त-हरा चेष्टा सर्वैव शिशिरा क्रिया ॥ ३८ ॥
श्लोक 39
अम्लो हि शीतः स्पर्शेन क्षारस् तेनोपसंहितः ।
यात्य् आशु स्वादु-तां तस्माद् अम्लैर् निर्वापयेत्-तराम् ॥ ३९ ॥
श्लोक
विषाग्नि-शस्त्राशनि-मृत्यु-तुल्यः क्षारो भवेद् अल्पम् अति-प्रयुक्तः ।
रोगान् निहन्याद् अ-चिरेण घोरान् स धी-मता सम्यग्-अनुप्रयुक्तो ॥ ३९+(१) ॥
श्लोक 40
अग्निः क्षाराद् अपि श्रेष्ठस् तद्-दग्धानाम् अ-संभवात् ।
भेषज-क्षार-शस्त्रैश् च न सिद्धानां प्रसाधनात् ॥ ४० ॥
श्लोक 41
त्वचि मांसे सिरा-स्नायु-संध्य्-अस्थिषु स युज्यते ।
मषाङ्ग-ग्लानि-मूर्धार्ति-मन्थ-कील-तिलादिषु ॥ ४१ ॥
श्लोक 42
संध्य्-अस्थिषु स योज्यते त्वग्-दाहो वर्ति-गो-दन्त-सूर्य-कान्त-शरादिभिः ।
अर्शो-भगन्दर-ग्रन्थि-नाडी-दुष्ट-व्रणादिषु ॥ ४२ ॥
श्लोक 43
मांस-दाहो मधु-स्नेह-जाम्बवौष्ठ-गुडादिभिः ।
श्लिष्ट-वर्त्मन्य् असृक्-स्राव-नील्य्-अ-सम्यग्-व्यधादिषु ॥ ४३ ॥
श्लोक 44
श्लिष्ट-वर्त्मन्य् असृक्-स्रावे नील्य्-अ-सम्यग्-व्यधादिषु सिरादि-दाहस् तैर् एव न दहेत् क्षार-वारितान् ।
अन्तः-शल्यासृजो भिन्न-कोष्ठान् भूरि-व्रणातुरान् ॥ ४४ ॥
श्लोक 45
न दहेत् क्षार-वर्जितान् सु-दग्धं घृत-मध्व्-अक्तं स्निग्ध-शीतैः प्रदेहयेत् ।
तस्य लिङ्गं स्थिते रक्ते शब्द-वल् लसिकान्वितम् ॥ ४५ ॥
श्लोक 46
पक्व-ताल-कपोताभं सु-रोहं नाति-वेदनम् ।
प्रमाद-दग्ध-वत् सर्वं दुर्-दग्धात्य्-अर्थ-दग्धयोः ॥ ४६ ॥
श्लोक 47
चतुर्-धा तत् तु तुच्छेन सह तुच्छस्य लक्षणम् ।
त्वग् वि-वर्णोष्यते ऽत्य्-अर्थं न च स्फोट-समुद्भवः ॥ ४७ ॥
श्लोक 48
चतुर्-धा तच् च तुच्छेन चतुर्-धा तत् तु तुत्थेन चतुर्-धा तत्र तुच्छेन सह तुत्थस्य लक्षणम् स-स्फोट-दाह-तीव्रोषं दुर्-दग्धम् अति-दाहतः ।
मांस-लम्बन-संकोच-दाह-धूपन-वेदनाः ॥ ४८ ॥
श्लोक 49
सिरादि-नाशस् तृण्-मूर्छा-व्रण-गाम्भीर्य-मृत्यवः ।
तुच्छस्याग्नि-प्रतपनं कार्यम् उष्णं च भेषजम् ॥ ४९ ॥
श्लोक 50
सिरादि-नाश-तृण्-मूर्छा- तुत्थस्याग्नि-प्रतपनं स्त्याने ऽस्रे वेदनात्य्-अर्थं विलीने मन्द-ता रुजः ।
दुर्-दग्धे शीतम् उष्णं च युञ्ज्याद् आदौ ततो हिमम् ॥ ५० ॥
श्लोक 51
सम्यग्-दग्धे तवक्षीरी-प्लक्ष-चन्दन-गैरिकैः ।
लिम्पेत् साज्यामृतैर् ऊर्ध्वं पित्त-विद्रधि-वत् क्रिया ॥ ५१ ॥
श्लोक 52
सम्यग्-दग्धे तुकाक्षीरी- पित्त-विद्रधि-वत् क्रियाम् पित्त-विद्रधि-वत् क्रियाः अति-दग्धे द्रुतं कुर्यात् सर्वं पित्त-विसर्प-वत् ।
स्नेह-दग्धे भृश-तरं रूक्षं तत्र तु योजयेत् ॥ ५२ ॥
श्लोक
शस्त्र-क्षाराग्नयो यस्मान् मृत्योः परमम् आयुधम् ।
अ-प्रमत्तो भिषक् तस्मात् तान् सम्यग् अवचारयेत् ॥ ५२+(१) ॥
द्व् तत् सम्यग् अवचारयेत्
श्लोक 53
समाप्यते स्थानम् इदं हृदयस्य रहस्य-वत् ।
अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः ॥ ५३ ॥
अत्रार्थाः सूचिताः सूक्ष्माः