नस्य विधि अध्याय

श्लोक 1

ऊर्ध्व-जत्रु-विकारेषु विशेषान् नस्यम् इष्यते ।
नासा हि शिरसो द्वारं तेन तद् व्याप्य हन्ति तान् ॥ १ ॥

श्लोक 2

विरेचनं बृंहणं च शमनं च त्रि-धापि तत् ।
विरेचनं शिरः-शूल-जाड्य-स्यन्द-गलामये ॥ २ ॥

श्लोक 

शमनं च त्रि-धा भवेत् मर्श-ध्मानावपीडाख्यैस् तत् पुनः षड्-विधं स्मृतम् ॥ २.१+१ ॥

श्लोक 3

मर्श-ध्मानावपीडाख्यात् शोफ-गण्ड-कृमि-ग्रन्थि-कुष्ठापस्मार-पीनसे ।
बृंहणं वात-जे शूले सूर्यावर्ते स्वर-क्षये ॥ ३ ॥

श्लोक 

स्नेहेन तीक्ष्णैः सिद्धेन कल्क-क्वाथादिभिश् च तत् ॥ ३.१+१ ॥

श्लोक 4

    नासास्य-शोषे वाक्-सङ्गे कृच्छ्र-बोधे ऽव-बाहुके ।
    शमनं नीलिका-व्यङ्ग-केश-दोषाक्षि-राजिषु ॥ ४ ॥

    श्लोक 5

    केश-दोषाक्षि-रोगिषु -केश-दोषाक्षि-रोग-जित् यथा-स्वं यौगिकैः स्नेहैर् यथा-स्वं च प्रसाधितैः ।
    कल्क-क्वाथादिभिश् चाद्यं मधु-पट्व्-आसवैर् अपि ॥ ५ ॥

    श्लोक 6

    बृंहणं धन्व-मांसोत्थ-रसासृक्-खपुरैर् अपि ।
    शमनं योजयेत् पूर्वैः क्षीरेण सलिलेन वा ॥ ६ ॥

    श्लोक 7

    क्षीरेण सलिलेन च क्षीरेण च जलेन च मर्शश् च प्रतिमर्शश् च द्वि-धा स्नेहो ऽत्र मात्रया ।
    कल्काद्यैर् अवपीडस् तु स तीक्ष्णैर् मूर्ध-रेचनः ॥ ७ ॥

    श्लोक 8

    तीक्ष्णैर् मूर्ध-विरेचनः ध्मानं विरेचनश् चूर्णो युञ्ज्यात् तं मुख-वायुना ।
    षड्-अङ्गुल-द्वि-मुखया नाड्या भेषज-गर्भया ॥ ८ ॥

    श्लोक 9

    ध्मानं विरेचनैश् चूर्णैर् नाड्या भैषज्य-गर्भया स हि भूरि-तरं दोषं चूर्ण-त्वाद् अपकर्षति ।
    प्रदेशिन्य्-अङ्गुली-पर्व-द्वयान् मग्न-समुद्धृतात् ॥ ९ ॥

    श्लोक 10

    यावत् पतत्य् असौ बिन्दुर् दशाष्टौ षट् क्रमेण ते ।
    मर्शस्योत्कृष्ट-मध्योना मात्रास् ता एव च क्रमात् ॥ १० ॥

    श्लोक 11

    बिन्दु-द्वयोनाः कल्कादेर् योजयेन् न तु नावनम् ।
    तोय-मद्य-गर-स्नेह-पीतानां पातुम् इच्छताम् ॥ ११ ॥

    श्लोक 12

    भुक्त-भक्त-शिरः-स्नात-स्नातु-काम-स्रुतासृजाम् ।
    नव-पीनस-वेगार्त-सूतिका-श्वास-कासिनाम् ॥ १२ ॥

    श्लोक 13

    भुक्ताभ्यक्त-शिरः-स्नात- शुद्धानां दत्त-वस्तीनां तथान्-आर्तव-दुर्-दिने ।
    अन्य-त्रात्ययिकाद् व्याधेर् अथ नस्यं प्रयोजयेत् ॥ १३ ॥

    श्लोक 14

    प्रातः श्लेष्मणि मध्याह्ने पित्ते सायन्-निशोश् चले ।
    स्वस्थ-वृत्ते तु पूर्वाह्णे शरत्-काल-वसन्तयोः ॥ १४ ॥

    श्लोक 15

    शीते मध्यन्-दिने ग्रीष्मे सायं वर्षासु सातपे ।
    वाताभिभूते शिरसि हिध्मायाम् अपतानके ॥ १५ ॥

    श्लोक 16

    मन्या-स्तम्भे स्वर-भ्रंशे सायं प्रातर् दिने दिने ।
    एकाहान्तरम् अन्य-त्र सप्ताहं च तद् आचरेत् ॥ १६ ॥

    श्लोक 17

    स्निग्ध-स्विन्नोत्तमाङ्गस्य प्राक्-कृतावश्यकस्य च ।
    निवात-शयन-स्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः ॥ १७ ॥

    श्लोक 18

    अथोत्तानर्जु-देहस्य पाणि-पादे प्रसारिते ।
    किञ्-चिद्-उन्नत-पादस्य किञ्-चिन् मूर्धनि नामिते ॥ १८ ॥

    श्लोक 19

    नासा-पुटं पिधायैकं पर्यायेण निषेचयेत् ।
    उष्णाम्बु-तप्तं भैषज्यं प्रणाड्या पिचुनाथ-वा ॥ १९ ॥

    श्लोक 20

    प्रणाल्या पिचुनाथ-वा दत्ते पाद-तल-स्कन्ध-हस्त-कर्णादि मर्दयेत् ।
    शनैर् उच्छिद्य निष्ठीवेत् पार्श्वयोर् उभयोस् ततः ॥ २० ॥

    श्लोक 21

    शनैर् उच्छिन्द्य निष्ठीवेत् आ-भेषज-क्षयाद् एवं द्विस् त्रिर् वा नस्यम् आचरेत् ।
    मूर्छायां शीत-तोयेन सिञ्चेत् परिहरन् शिरः ॥ २१ ॥

    श्लोक 22

    स्नेहं विरेचनस्यान्ते दद्याद् दोषाद्य्-अपेक्षया ।
    नस्यान्ते वाक्-शतं तिष्ठेद् उत्तानो धारयेत् ततः ॥ २२ ॥

    श्लोक 23

    स्नेहं रेचन-नस्यान्ते धूमं पीत्वा कवोष्णाम्बु-कवडान् कण्ठ-शुद्धये ।
    सम्यक्-स्निग्धे सुखोच्छ्वास-स्वप्न-बोधाक्ष-पाटवम् ॥ २३ ॥

    श्लोक 24

    रूक्षे ऽक्षि-स्तब्ध-ता शोषो नासास्ये मूर्ध-शून्य-ता ।
    स्निग्धे ऽति कण्डू-गुरु-ता-प्रसेका-रुचि-पीनसाः ॥ २४ ॥

    श्लोक 25

    स्निग्धे ऽति कण्डूर् गुरु-ता प्रसेका-रुचि-पीनसाः सु-विरिक्ते ऽक्षि-लघु-ता-वक्त्र-स्वर-विशुद्धयः ।
    दुर्-विरिक्ते गदोद्रेकः क्षाम-ताति-विरेचिते ॥ २५ ॥

    श्लोक 26

    प्रतिमर्शः क्षत-क्षाम-बाल-वृद्ध-सुखात्मसु ।
    प्रयोज्यो ऽ-काल-वर्षे ऽपि न त्व् इष्टो दुष्ट-पीनसे ॥ २६ ॥

    श्लोक 27

    मद्य-पीते ऽ-बल-श्रोत्रे कृमि-दूषित-मूर्धनि ।
    उत्कृष्टोत्क्लिष्ट-दोषे च हीन-मात्र-तया हि सः ॥ २७ ॥

    श्लोक 28

    हीन-मान-तया हि सः निशाहर्-भुक्त-वान्ताहः-स्वप्नाध्व-श्रम-रेतसाम् ।
    शिरो-ऽभ्यञ्जन-गण्डूष-प्रस्रावाञ्जन-वर्चसाम् ॥ २८ ॥

    श्लोक 29

    दन्त-काष्ठस्य हासस्य योज्यो ऽन्ते ऽसौ द्वि-बिन्दुकः ।
    पञ्चसु स्रोतसां शुद्धिः क्लम-नाशस् त्रिषु क्रमात् ॥ २९ ॥

    श्लोक 30

    दृग्-बलं पञ्चसु ततो दन्त-दार्ढ्यं मरुच्-छमः ।
    न नस्यम् ऊन-सप्ताब्दे नातीताशीति-वत्सरे ॥ ३० ॥

    श्लोक 31

    न चोनाष्टा-दशे धूमः कवडो नोन-पञ्चमे ।
    न शुद्धिर् ऊन-दशमे न चातिक्रान्त-सप्ततौ ॥ ३१ ॥

    श्लोक 32

    कवडो न्यून-पञ्चमे आ-जन्म-मरणं शस्तः प्रतिमर्शस् तु वस्ति-वत् ।
    मर्श-वच् च गुणान् कुर्यात् स हि नित्योपसेवनात् ॥ ३२ ॥

    श्लोक 33

    न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्श-वद् भयम् ।
    तैलम् एव च नस्यार्थे नित्याभ्यासेन शस्यते ॥ ३३ ॥

    श्लोक 34

    तैलम् एव च नस्यार्थं शिरसः श्लेष्म-धाम-त्वात् स्नेहाः स्वस्थस्य नेतरे ।
    आशु-कृच्-चिर-कारि-त्वं गुणोत्कर्षापकृष्ट-ता ॥ ३४ ॥

    श्लोक 35

    गुणोत्कृष्टापकृष्ट-ता गुणोत्कृष्टापकर्ष-ता गुणोत्कर्षापकर्ष-ता मर्शे च प्रतिमर्शे च विशेषो न भवेद् यदि ।
    को मर्शं स-परीहारं सापदं च भजेत् ततः ॥ ३५ ॥

    श्लोक 36

    सापदं च वदेत् ततः अच्छ-पान-विचाराख्यौ कुटी-वातातप-स्थिती ।
    अन्वास-मात्रा-वस्ती च तद्-वद् एव विनिर्दिशेत् ॥ ३६ ॥

    श्लोक 

    तद्-वद् एव च निर्दिशेत् पटोल-मुद्ग-वार्ताक-ह्रस्वमूलक-जाङ्गलैः ।
    रसैः शालि-यवान् अद्यान् नस्य-कर्मणि षड्-विधे ॥ ३६+१ ॥

    श्लोक 

    उच्चैर्-भाषणम् आयासम् अ-जीर्णा-सात्म्य-भोजनम् ।
    दत्त-नस्यो नरः क्रोधं यानादींश् च विवर्जयेत् ॥ ३६+२ ॥

    श्लोक 37

    जीवन्ती-जल-देवदारु-जलद-त्वक्-सेव्य-गोपी-हिमं ॥ ३७अ ॥
    दार्वी-त्वङ्-मधुक-प्लवागुरु-वरी-पुण्ड्राह्व-बिल्वोत्पलम् ॥ ३७ब् ॥
    धावन्यौ सुरभिं स्थिरे कृमिहरं पत्त्रं त्रुटीं रेणुकां ॥ ३७च् ॥
    किञ्जल्कं कमलाद् बलां शत-गुणे दिव्ये ऽम्भसि क्वाथयेत् ॥ ३७द् ॥