आश्चोतन-अञ्जन विधि अध्याय

श्लोक 1

सर्वेषाम् अक्षि-रोगाणाम् आदाव् आश्च्योतनं हितम् ।
रुक्-तोद-कण्डु-घर्षाश्रु-दाह-राग-निबर्हणम् ॥ १ ॥

श्लोक 2

दाह-रोग-निबर्हणम् उष्णं वाते कफे कोष्णं तच् छीतं रक्त-पित्तयोः ।
निवात-स्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥ २ ॥

श्लोक 3

शुक्तौ प्रलम्बयान्येन पिचु-वर्त्या कनीनिके ।
दश द्वा-दश वा बिन्दून् द्व्य्-अङ्गुलाद् अवसेचयेत् ॥ ३ ॥

श्लोक 4

ततः प्रमृज्य मृदुना चैलेन कफ-वातयोः ।
अन्येन कोष्ण-पानीय-प्लुतेन स्वेदयेन् मृदु ॥ ४ ॥

श्लोक 5

अत्य्-उष्ण-तीक्ष्णं रुग्-राग-दृङ्-नाशायाक्षि-सेचनम् ।
अति-शीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः ॥ ५ ॥

श्लोक 6

कषाय-वर्त्म-तां घर्षं कृच्छ्राद् उन्मेषणं बहु ।
विकार-वृद्धिम् अत्य्-अल्पं संरम्भम् अ-परिस्रुतम् ॥ ६ ॥

श्लोक 7

गत्वा संधि-शिरो-घ्राण-मुख-स्रोतांसि भेषजम् ।
ऊर्ध्व-गान् नयने न्यस्तम् अपवर्तयते मलान् ॥ ७ ॥

श्लोक 8

गत्वा संधि-सिरा-घ्राण- अथाञ्जनं शुद्ध-तनोर् नेत्र-मात्राश्रये मले ।
पक्व-लिङ्गे ऽल्प-शोफाति-कण्डू-पैच्छिल्य-लक्षिते ॥ ८ ॥

श्लोक 9

पक्व-लिङ्गे ऽल्प-शोफार्ति- मन्द-घर्षाश्रु-रागे ऽक्ष्णि प्रयोज्यं घन-दूषिके ।
आर्ते पित्त-कफासृग्भिर् मारुतेन विशेषतः ॥ ९ ॥

श्लोक 10

लेखनं रोपणं दृष्टि-प्रसादनम् इति त्रि-धा ।
अञ्जनं लेखनं तत्र कषायाम्ल-पटूषणैः ॥ १० ॥

श्लोक 11

रोपणं तिक्तकैर् द्रव्यैः स्वादु-शीतैः प्रसादनम् ।
तीक्ष्णाञ्जनाभिसंतप्ते नयने तत् प्रसादनम् ॥ ११ ॥

श्लोक 12

प्रयुज्यमानं लभते प्रत्यञ्जन-समाह्वयम् ।
दशाङ्गुला तनुर् मध्ये शलाका मुकुलानना ॥ १२ ॥

श्लोक 13

प्रशस्ता लेखने ताम्री रोपणे काल-लोह-जा ।
अङ्गुली च सुवर्णोत्था रूप्य-जा च प्रसादने ॥ १३ ॥

श्लोक 14

पिण्डो रस-क्रिया चूर्णस् त्रि-धैवाञ्जन-कल्पना ।
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥ १४ ॥

श्लोक 

गुरु-मध्य-लघौ दोषे ताः क्रमेण प्रयोजयेत् पिण्डस्य तीक्ष्ण-द्रव्यस्य मृदु-द्रव्य-कृतस्य च ।
हरेणु-मात्रं द्वि-गुणं प्रमाणं कथयन्त्य् अपि ॥ १४+१ ॥

श्लोक 

रस-क्रियायाम् अप्य् एवं विडङ्ग-फल-मात्रकम् ।
शलाकां द्वि-गुणां तीक्ष्णे चूर्णे च त्रि-गुणां मृदौ ॥ १४+२ ॥

श्लोक 15

हरेणु-मात्रा पिण्डस्य वेल्ल-मात्रा रस-क्रिया ।
तीक्ष्णस्य द्वि-गुणं तस्य मृदुनश् चूर्णितस्य च ॥ १५ ॥

श्लोक 16

पिण्डो हरेणु-मात्रस् तु हरेणु-मात्रं पिण्डस्य हरेणु-मात्रः पिण्डस् तु वल्ल-मात्रा रस-क्रिया मृदोश् चूर्णाञ्जनस्य च द्वे शलाके तु तीक्ष्णस्य तिस्रस् तद्-इतरस्य च ।
निशि स्वप्ने न मध्याह्ने म्लाने नोष्ण-गभस्तिभिः ॥ १६ ॥

श्लोक 17

तिस्रः स्युर् इतरस्य च निशि स्वप्नेन मध्याह्ने पानान्नोष्ण-गभस्तिभिः अक्षि-रोगाय दोषाः स्युर् वर्धितोत्पीडित-द्रुताः ।
प्रातः सायं च तच्-छान्त्यै व्य्-अभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा ॥ १७ ॥

श्लोक 18

वदन्त्य् अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् ।
विरेक-दुर्-बलं चक्षुर् आदित्यं प्राप्य सीदति ॥ १८ ॥

श्लोक 19

स्वप्नेन रात्रौ कालस्य सौम्य-त्वेन च तर्पिता ।
शीत-सात्म्या दृग् आग्नेयी स्थिर-तां लभते पुनः ॥ १९ ॥

श्लोक 20

अत्य्-उद्रिक्ते बलासे तु लेखनीये ऽथ-वा गदे ।
कामम् अह्न्य् अपि नात्य्-उष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत् ॥ २० ॥

श्लोक 21

अश्मनो जन्म लोहस्य तत एव च तीक्ष्ण-ता ।
उपघातो ऽपि तेनैव तथा नेत्रस्य तेजसः ॥ २१ ॥

श्लोक 22

न रात्राव् अपि शीते ऽति नेत्रे तीक्ष्णाञ्जनं हितम् ।
दोषम् अ-स्रावयेत् स्तब्धं कण्डू-जाड्यादि-कारि तत् ॥ २२ ॥

श्लोक 23

दोषम् अ-स्रावयत् स्तब्धं दोषम् अ-स्रावयत् स्तम्भ- दोषं न स्रावयेत् स्तम्भ- -कण्डू-जाड्यादि-कारि तत् नाञ्जयेद् भीत-वमित-विरिक्ताशित-वेगिते ।
क्रुद्ध-ज्वरित-तान्ताक्षि-शिरो-रुक्-शोक-जागरे ॥ २३ ॥

श्लोक 24

अ-दृष्टे ऽर्के शिरः-स्नाते पीतयोर् धूम-मद्ययोः ।
अ-जीर्णे ऽग्न्य्-अर्क-संतप्ते दिवा-सुप्ते पिपासिते ॥ २४ ॥

श्लोक 25

दिवा-स्वप्ने पिपासिते अति-तीक्ष्ण-मृदु-स्तोक-बह्व्-अच्छ-घन-कर्कशम् ।
अत्य्-अर्थ-शीतलं तप्तम् अञ्जनं नावचारयेत् ॥ २५ ॥

श्लोक 26

अत्य्-अर्थं शीतलं तप्तम् अथानुमीलयन् दृष्टिम् अन्तः संचारयेच् छनैः ।
अञ्जिते वर्त्मनी किञ्-चिच् चालयेच् चैवम् अञ्जनम् ॥ २६ ॥

श्लोक 27

तीक्ष्णं व्याप्नोति सहसा न चोन्मेष-निमेषणम् ।
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥ २७ ॥

श्लोक 28

अपेतौषध-संरम्भं निर्वृतं नयनं यदा ।
व्याधि-दोषर्तु-योग्याभिर् अद्भिः प्रक्षालयेत् तदा ॥ २८ ॥

श्लोक 29

दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं स-वाससा ।
ऊर्ध्व-वर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥ २९ ॥

श्लोक 30

वर्त्म-प्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्य-था ।
कण्डू-जाड्ये ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ॥ ३० ॥

श्लोक 

वर्त्म-प्राप्ताञ्जनाद् दोषो रोगान् कुर्यात् ततो ऽन्य-था तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम् ॥ ३०ऊअब् ॥
̆अव् तीक्ष्णाञ्जनाति-तप्ते तु २३.३०ऊअव् तीक्ष्णाञ्जनाति-योगे तु ̆ब्व् चूर्णं प्रत्यञ्जनं हितम्